________________
पुष्पक्न्तपदम् . ] शक्तिवादः ।
(८३) विषयकबोधत्वे संकेतविषयतावच्छेदकत्वपर्याप्तिविरहात तदंशे तत्पर्याप्त्यवगाहिग्रहो भ्रम एवेति न शक्तिप्रमातः प्रत्येकधर्मप्रकारकबोधापत्तिः। .
तत्पदजन्यचन्द्रत्वावच्छिन्नविषयकसूर्यत्वावच्छिन्नविषयकबोधत्वपर्याप्तविषयतावच्छेदकताकत्वप्रकारकशक्तिग्रहस्य चोभयधर्मप्रकारकबुद्धित्वमेव कार्यतावच्छेदकमतो न तद्घटितसामग्रीबलादेकधर्मावच्छिन्नान्वयबोधस्य यत्किंचित्कारणविरहदशायामपरधर्मप्रकारकशाब्दबोधापत्तिः । उभयविषयकत्वावच्छिन्नाया बोधनिष्ठसंकेतविषयताया ऐक्याच्छक्तरैक्यमिति न तत्पदस्य नानार्थतेति रमणीया समाधिः । वसूर्यत्वोमयावच्छिन्नविषयकवोधत्वे एवं भगवत्संकेतविषयतावच्छेदकतायाः पर्याप्तिः स्वीक्रियते'पुष्पवन्तपदाचन्द्र वात्रन्छिन्नविषयकसूर्यत्वावच्छिन्नविषयको बोधो भवतु ' इत्याकारकभगवसंकेतस्वीकाराद् न तु केवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वे. केवलचन्द्रत्वादिप्रकारकबोधं प्रति च केवलचन्द्रत्वाद्यवच्छिन्नबोधावे एव भगवत्संकेतविषयतावच्छेदकतापर्याप्तिग्रहघटितसंकेतज्ञानस्य हेतुत्वमस्तीति न पुष्पवन्तपदात् केवलचन्द्रत्वादिप्रकारकबोधापत्तिरित्यर्थः । तत्पदजन्येतिपुष्पयन्तपदजन्यकेवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वे च संकेतविषयतावच्छेदकतापर्याप्ति - स्तीति तदंशे तादृशपुष्पवन्तपदजन्यकेवलचन्द्रत्वाद्यवच्छिन्नविषयकबोधत्वे तत्पर्याप्त्यवगाहिग्रहः संकेतविषयतावच्छेदकत्वपर्याप्तिविषयकज्ञानं भ्रम एवेति तादृशभ्रमात्मकशक्तिज्ञानाद् भ्रमात्मक एव केवलचन्द्रत्वादिप्रकारकोबोधः संभवति न तु प्रमात्मकः भ्रमात्मकशक्तिज्ञानादुक्तमात्मकबोधोत्पत्तौ चानिष्टाभावात् तथा च पुष्पवन्तपदविषयकशक्तिप्रमातः प्रत्येकधर्मप्रकारकस्यकेवलचन्द्रवादिप्रकारकस्य बोधस्यापत्तिनास्त्येवेत्यर्थः ।
पुष्पवन्तपदात् केवलचन्द्रवादिप्रकारकबोधाऽनापत्तिमेव प्रदर्शितां विशदयति- तत्पदजन्येति, पुष्पवन्तपदजन्यो यश्चन्द्रत्वावच्छिन्नविषयकत्वे सति सूर्येत्यावच्छिन्नविषयको बोधस्तादृशबोधनिष्ठवोधत्वे पर्याप्ता या विषयतावच्छेदकता-भगवत्संकेतविषयतावच्छेदकता तादृशविषयताबच्छदकताकत्वप्रकारकस्य पुष्यवन्तपदशक्तिमहस्य चोभयधर्मप्रकारकबुद्धित्वम्-चन्द्रत्वसर्यत्वोमयधर्मप्रकारकबोधत्वमेव कार्यताबन्छेदकमस्तीति तादृशपुष्पवन्तपदशक्तिज्ञानात् तादृशोमयधर्मप्रकारक एव बोधो जायते तद्घटितसामग्रीबलात्-चन्द्रत्वसूर्यत्वोमयधर्मप्रकारकवोधघटितोक्तश-- तिज्ञानादिसामग्रीबलाद् एकवर्मावच्छिन्नान्व्यबोधस्य चन्द्रत्वाद्यवच्छिन्नविषयकशाब्दबोधस्य यद यत्किंचित्कारणं तदभावदशायां नामैकधर्मावच्छिन्नविषयकबोधसामग्रीविरहदशायामऽपरधर्मप्रकारकस्य सूर्यत्वादिधर्मप्रकारकस्य शाब्दबोधस्यापत्तिर्नास्तीत्यर्थः । नन्वेवं पुष्पवन्तपदस्य चन्द्रसूर्योभयविषयकबोधजनकत्वेन नानार्थत्वं स्थादित्याशझ्याह-उभयेति, पुष्पवन्तपदजन्यबोधनिष्ठा या चन्द्रसूर्योभयविषयकत्वावच्छिन्ना संकेतविषयता भकैवास्ति न नानेति पुष्पवन्तपदनिष्ठशक्करप्यैश्यमेवेति न सत्यदस्य-पुष्पवन्तपरस्य नानार्थतापत्ति:- नानाशक्तिमत्वदस्यैव नानार्थत्वस्त्री