________________
( ८४ )
सादर्श:
[ विशेषकाण्डे --.
" एकयोक्त्या पुष्पवन्तौ दिवाकरनिशाकरौ” इत्यमरकोशे उक्तिपदं शक्तिपरं पुष्पवन्तपदं तत्प्रतिपाद्यपरं तथा च 'सूर्याचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रति-पाद्यौ ' इत्यर्थः । उद्देश्यतावच्छेदकावच्छेदेन विधेयान्वये तात्पर्याञ्चन्द्रत्वसूर्यस्वयोरेकशतयधीनप्रतिपत्तिविषयतावच्छेदकत्वलाभो नातस्तस्मान्नानार्थादिव ताह
"
कर्ममात्रकारको बोधः- नानार्थे शक्तिभेदेन विशेषादितिलभ्यते । अथ वा ' एकयोक्तया एकोच्चारणेन सूर्याचन्द्रमसौ पुष्पवन्तपदप्रतिपाद्य ' इत्यर्थः तथा च यथा नानार्थस्थले नाssवृत्तिमन्तरेण नानार्थबोधस्तथा न प्रकृते. अत्र शक्तेरेक्येन " सकृदुच्चरितात् सकृदर्थप्रत्यय एव" इत्यस्याऽविषयत्वादितिभावः ॥
काराद् यथा हर्यादिपदस्येत्यर्थः । समाधिः = समाधानम् । अत्र ' पुष्पवन्तपदजन्यचन्द्रत्वावच्छि नविषयक सूर्यत्वावच्छिन्न विषयक बोधविषयतानिष्ठ प्रकारता निरूपित भगवदिच्छीयविशेष्यतासंबन्धेन पुष्पवन्तपदविशिष्टौ चन्द्रसूर्यौ ' इत्याकारकं पदप्रकारकमर्थ विशेष्यकम् पुष्पवन्तपदजन्यबोधजनकत्वनिष्ठप्रकारता निरूपित भगवदिचीयविशेष्यतासंबन्धेन चन्द्रसूर्यवत् पुष्पवन्तपदम् ' इत्याकारकमप्रकारकं पदविशेष्यकं वा शक्तिज्ञानं कारणमित्यनुसंधेयम् ।
66
"L
पुष्पवन्तपदस्यैकशक्तिकत्वेऽमरकोशं प्रमाणयति - एकयेति । उक्तामरवाक्यं व्याचष्टे - उक्तिपदमिति, तथा च एकयोक्त्या इयनेन ' एकशक्त्या ' इतिलब्धम् । तत्प्रतिपायपरम्= पुष्पवन्तपदप्रतिपाद्य परम्, तथा च पुष्पवन्तौ " इत्यनेन 'पुष्पवन्तपदप्रतिपाद्यौ ' इतिलब्धम् । संकलितवाक्यार्थमाह - तथा चेति । ' उद्देश्यतावच्छेदकावच्छेदेन विधेयस्यान्ययो भवति ! इति नियमस्ति यथा 'शङ्खः पाण्डुर एव' इत्यत्रोद्देस्यः शङ्ख उद्देश्यतावच्छेदकं शङ्खवं तदवच्छेदेन पाण्डुरत्वस्य विधेयस्यान्त्रयो जायते एवम् " सूर्याचन्द्रमसावेकशक्त्या पुष्पवन्तपदप्रतिपाद्यौ " इत्यत्रोदेश्य सूर्याचन्द्रमसौ उद्देश्यतावच्छेदके च सूर्यचन्द्रत्वे तदवच्छेदेनैकशक्तया पुष्पवन्तपदप्रतिपाद्यत्वस्य विधेयस्यान्वयो जायते नया च चन्द्रत्वसूर्यवयोरेकशक्त्यधीना या पुष्पवन्तपदजन्या प्रतिपत्ति: बोधस्तदीया या चन्द्रसूर्ययोर्विषयता तादृशविषयतावच्छेदकत लभ्यतेऽतः कारणात् नानार्थादिव यथा नानार्थपदादेकधर्ममात्र प्रकारको बोधो जायते तथा तस्मात् = पुष्पवन्तपदात् तादृशैक धर्ममात्रप्रकारकः केवलचन्द्रत्वादिप्रकारको बोधो न जायते, नानार्थे = नानार्थपदे शक्तिभेदेन = प्रत्येकपदार्थ निरूपिता शक्तिर्भिन्ना भिन्नैव भवतीति विशेषान्नानार्थपदेनैकधर्ममात्र प्रकारको दोधो जायते, पुष्पवन्तपदे तु चन्द्रसूर्योभयनिरूपिता शक्तिरेकैवास्तीति पुष्पवन्तपदाचन्द्रस्य सूर्यवोभयधर्मप्रकारक एव वोधो जायते नेकधर्मप्रकारक इनि लभ्यते । पुष्पवन्तपदशक्तेरेकत्वे च " एकयोक्त्या " इत्यमरवाक्यमपि प्रमाणमित्यर्थः । उक्तामरवाक्यस्यार्थान्तरमाह - अथ वेति । स्वाभिप्रायमाह तथा चेति, " सकृदुच्चरितात् ! पदात् ) सकृदर्थप्रत्ययः " इतिनियमेन यथा नानार्थपदस्यले आवृत्तिम् = पुनरुच्चारणं विना द्वितीयार्थ
27