________________
तत्पदम् ]
शक्तिवादः ।
पुष्पवन्तपदवत् सर्वनामपदानामपि शक्तेरैक्याल नानार्थता |
अथ सर्वनामपदेन विशिष्प घटत्वपटत्वादिनैव बुद्धिस्था घटपटादयः प्रत्याय्यन्ते न तु बुद्धिस्थत्वेन- 'अत्र घटोस्ति तमानय' इत्यादिवाक्यजन्यघटकर्म
: बोधो न भवति - पदार्थमेदेन शक्तिभेदात् अत एव वृद्धा द्वितीयार्थप्रतिपादनाय नानार्थवाक्यं पुनरुच्चारयन्ति तथा प्रकृते = पुष्पवन्तपदे नास्ति अत्र = पुष्पवन्तपदे उक्तरीत्या शक्तेरैक्येन पुष्पचन्तपदस्य सकृदुच्चरितात् " इत्युक्त नियमाविषयत्वादिति पुष्पवन्तपदात् सकृदुच्चरितादेव चन्द्रसूर्ययोर्बोधो जायते इति सर्वं "" सकृदर्थप्रत्यय एव इत्यस्य ' सकदेवार्थ' प्रत्यय: ' इत्यर्थः ॥
सुस्थम् ।
॥ इति पुष्पवन्तपदम् ॥
"
(८५)
15
6
भथ
॥ तत्पदम् ||
संप्रति सर्वनाम्नां शक्तिनिरूपणमारभमाणो मट्टाचार्यः प्रथमं तत्पदशक्ति निरूपयति- पुष्पवन्तपदवदित्यादिना । यथा पुष्पवन्तपदस्य चन्द्रसूर्यलक्षणानेकार्थबोधकत्वेप्युक्तरीत्या न नानार्थता पुष्पवन्तपदे चन्द्रसूर्योमयनिरूपितशक्तेरैक्यात् तथा सर्वनामयत्तदादिपदानामपि घटपटाद्यनेकतत्तत्पदार्थबोधकत्वेपि 'बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नस्तत्पदाहोद्धव्यः' 'तत्पदं बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्नं बोधयतु' इत्याकारकस्य वा भगवत्संकेतस्य स्वीकारात् तदादिसर्वनामपदेषु बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मावच्छिन्ननिरूपिताया: शक्तेरैक्यान नानाता, बुद्धिविषयतावच्छेदकत्वोपलक्षितधर्मश्च कचिद् घटत्वादिकं कचित् पटत्वादिकमित्यन्यदेतत् तेषां सर्वेषां बुद्धिविषयतावच्छेदको पलक्षितत्वेनाऽनुगमः । तत्र घटोस्ति तमानय' इत्यत्र बुद्धिविषयता घटे बुद्धिविषयतावच्छेदकं घटत्वं बुद्धिविषयतावच्छेदकत्वं घटने वुद्धिविषयतावच्छेदकव्वोपलक्षितधर्मश्च चटत्वं तदवच्छिन्नो घटस्तद्बोधकत्वं तत्पदे प्राप्तम्, बुद्धिविषयतावच्छेदकत्वं च घटत्वस्योपलक्षणमेव न तु विशेषणम् शाब्दबोधे घटत्वस्य स्वरूपेणैव मानात्. एवमेवान्यत्रापि बोध्यमिति तर्कशास्त्र सिद्धान्तः ।
८
शङ्कते -- अथेति, अस्य वक्ष्यमाणेन "मैचम्" इत्यनेनान्वयः । बुद्धिस्थत्वं च बुद्धिविषयतावच्छेदकत्वम् । 'अत्र घटोस्ति तमानय' इत्यादी घटादेर्बुद्धौ वर्तमानत्वेन तत्र वटादौ बुद्धिस्थत्वं प्राप्तम् । यदि तदादिसर्वनाम्ना घटादीनां बुद्धिस्थत्वेनैव रूपेण बोधः स्यान्न तु घटश्वादिरूपेण तदा यथा 'द्रव्यमानय' इत्युक्तेपि 'विशिष्टानयनं घटकर्मकं न वा इतिसंदेहो भवति द्रव्यत्वस्य घटपटाद्यनेकपदार्थसाधारणत्वात् तथा अत्र घटोस्ति तमानय इत्युक्तेषि विशिष्टानयनं घटकर्मकं न चा ' इतिसंदेहः स्यादेव -- बुद्धिस्थत्वस्य घटपटादिसकलपदार्थसाधारणत्वाद् न चैवं श्रोतुः संदेहो भवतीति तदादिसर्वनाम्ना घटादीनां घटत्वा दिरूपेणैव बोधो जन्यते इति प्राप्तं घटत्वादीनां घटाद्यसाधारणत्वेनोक्तसंदेहावकाशाभाचात् तथा च घटत्वादिनानाधर्मावच्छिन्नेषु घटपटादिषु सर्वनामतदादिपदानामेका शक्तिन
,