________________
सादर्श:
[ विशेषकाण्डे
कानयनादिबोधानन्तरम् 'विशिष्टानयनं घटकर्मकं न वा इतिसंशयानुत्पादस्य सर्वानुभवसिद्धतया दुरपह्नवत्वात् तथा च वक्तृबुद्धिस्थत्वं न सर्वनामपदशक्यतावच्छेदकमपि तु घटत्वपटत्वादिकमेवेति तादृशनानाधर्मावच्छिन्नेषु पुष्पवन्तादिपदवन्नैकशक्तिसम्भवः- एकैकधर्म मात्रकारकतत्तदर्थवो धानुपपत्तेरिति सर्वनाम्नां नानार्थत्वं दुर्वारमेव ।
न वा नानार्थतोपगमेपि निर्वाह: - यद्रूपावच्छिन्न विषयकव्यवहारजनकत्वं येन पुंसा तदादिपदे न गृहीतं तदवच्छिन्ने तेन तच्छक्तयग्रहण प्रकान्तस्यापि तदवच्छिन्नस्य तत्पुरुषीयतदादिपदजन्यबोधविषयताऽनुपपत्तेः ।
(८६)
न च बुद्धिस्थत्वं प्रकारीभूतघटत्वादीनामनुगमकं तथा च 'बुद्धिस्थप्रकारवां- स्तत्पदशक्यः' इत्याकारकशक्तिग्रहः स च तद्धर्मप्रकारेण सामान्यप्रत्यासत्या
सम्भवति यदि चैव शक्तिः स्यात्तदा यथा पुष्पवन्तपदेन चन्द्रत्वसूर्य त्वोभयधर्मप्रकारक एव atri at तथा तदादिपदेनाप्यनेकघटत्व पटत्वादिधर्मप्रकारक एव बोधः स्याद् घटत्वाद्यकमात्रधर्मप्रकारकच बोधो न स्याद् भवति च तदादिपदेन घटत्वाद्येकधर्मप्रकारक बोधोपीति घ टत्वपटत्वादिनानाधर्मावच्छिन्नेष्वेकशक्तेरसंभवात् सर्वनाम्नां नानार्थत्वं प्राप्तमेवेत्यर्थः । स्पष्टमन्यदू । “विशिष्य घटत्वपटत्वादिना" इत्यस्य 'घटत्व पटत्वादिविशेषरूपेण' इत्यर्थः । विशिष्टानयनम् = 'अत्र घटोस्ति तमानय' इत्यादिवाक्यश्रवणानन्तरं जायमानमानयनम् । तत्तदर्थबोधानुपपत्तेः=घटपटादिविषयकबोधानुपपत्तेः ।
*
तदादिसर्वनाम्नां नानार्थत्वस्वीकारेप्यनुपपत्तिमुद्घाटयति- न वेति, यदि तदादिपदाना नानार्थत्वं स्यात्तदा यथा हर्यादिनानार्थपदानां विष्ण्वादिपदार्थेषु मध्ये येषु येषु पदार्थेषु शक्तिमहों भवति तेषामेव यथाकालं हर्यादिपदश्रवणाद् बोधो भवति न तु यस्मिन् शक्तिप्रहो न जातस्तस्यापि तथा तदादिपदानामपि येषु घटादिषु शक्तिग्रहः स्यात्तेषामेव वोधः स्याद् येषु च शक्तिप्रहो न जातस्तेषां बोधो न स्यादेव न चैवमस्तीति न नानार्थत्वसंभव इत्यर्थः । तेनेतितेन पुंसा । तच्छंक्तयग्रहेण तदादिपदशक्त्यग्रहेण । यस्मिन् पदे यद्धर्मावच्छिन्नविषयक व्यवहारजनकत्वं गृह्यते तस्य पदस्य तद्धर्मावच्छिन्ने शक्तिग्रहो जायते- आनयनादिव्यवहारस्यैव विशेपतः शक्तिग्राहकत्वादित्यभिप्रायेणोक्तम्- यद्रूपावच्छिन्नेति ।
ननु यथा सामान्यप्रत्यासत्या घटपदस्य घटत्वेन रूपेण सकलघटेषु शक्तिप्रहो भवति तथा तत्पदजन्यबोधविषयीभूतघटादिषु प्रकारीभूतं यद् घटत्वादिकं तेषां सर्वेषां बुद्धिस्थत्वम् == बुद्विबिषयतावच्छेदकत्वमनुगमकं स्वीक्रियते इति 'बुद्धिस्थप्रकारवान् = बुद्धिविषयतावच्छेदकधर्मवां'स्तत्पदशक्यः' इत्याकारकः शक्तिप्रहो जायते स च - शक्तिमहश्च सामान्यप्रत्यासत्त्या तद्धर्मप्रकारण= बुद्धिस्थत्वप्रकारेण - बुद्धिस्थत्येन रूपेण घटत्वपटत्वादिसकलधर्मविषयक एव जायते
.