________________
तत्पदम्. ] शक्तिवादः।
(८७) सकलधर्मविषयक एवंति नाऽपूर्वधर्मप्रकारेण बोधानुपपत्तिः, सामान्यप्रत्यासत्यइनभ्युपगमे तु शक्तिग्रहविशेष्यतावच्छेदकप्रकाराश्रयस्याऽपूर्वधर्मिणः शक्तिग्रहा. विषयत्वेपि शाब्दबोधे भानवत् शक्तिमहर्मितावच्छेदकतावच्छेदकानुगतरूपाश्रयस्याऽपूर्वधर्मस्यापि शक्तिहविषयतां विना शाब्दबोधे न भानानुपपत्तिःशक्तिधियः शाब्दज्ञानसमानविषयकत्वस्थाऽतन्त्रत्वादिति वाच्यम् , बुद्धिस्थत्वस्य शक्यतावच्छेदकतानवच्छेदकत्वेन शक्यतावच्छेदकानुगमकत्वायोगात्,तदवच्छेदकत्वे च तस्यापि शाब्दबुद्धौ शक्यतावच्छेदकघटत्वादिविशेषणतया नियमतो इति अपूर्वधर्मप्रकारेण यादृशधर्मप्रकारकबोधजनकत्वं तदादिपदे न गृहीतं तादृशापूर्वधर्मप्रकारकबोधस्यानुपपत्ति स्ति- बुद्धिस्थत्वेन रूपेण तादृशधर्मेपि शक्तिप्रहस्य जातत्वादेव, प्राभाकरादिभिः सामान्यप्रत्यासत्तेरस्वीकारे तु शक्तिमहकाले घटत्वेन रूपेण सकलघटानामुपस्थित्यभावेन शक्तिमहाविषयत्वेपि शक्तिज्ञानीया या घटे विशेष्यता तादृशविशेष्यताया योऽवच्छेदकप्रकार:=अवच्छेदको धर्मो घटत्यं तदाश्रयस्याऽपूर्वस्यापि धर्मिणो घटस्य यथा शाब्दबोधे मानं भवति तथा प्रकृते शक्तिमहाविषयत्वेपि शक्तिग्रहधर्मितावच्छेदकं यद् घटत्यादिकं तन्निष्ठा या शक्तिग्रहधर्मितावच्छेदकता तदवच्छेदकं यदनुगतरूपं बुद्धिविषयतावेच्छेदकत्वं बुद्धिस्थत्वं वा तदाश्रयस्याऽपूर्वस्यापि-शक्तिमहाविषयस्यापि घटत्वादिधर्मस्य शाब्दबोधे भानं संभवतीति तादृशापूर्वधर्मप्रकारकशाब्दबोधानुपपत्तिर्नास्ति-- शक्तिधियः शाब्दज्ञानसमानविषयकत्वस्याऽतन्त्रत्वात अनियमात् . यदि शक्तिज्ञानशाब्दबोधयोः समानविषयकत्वनियमः स्यात्तदा शक्तिमहाविषयस्य धर्मस्य धर्मिणो वा शाब्दबोधविषयत्वं न स्यादपि न च समानविषयकत्वनियमोस्ति किं तु समानप्रकारकत्वस्यैव नियमस्तथा च यद्धर्मप्रकारकः शक्तिमहो भवति तद्धर्मप्रकारक एव शाब्दबोधो जायते इति घटत्वप्रकारकशक्तिप्रहे जाते यथा घटत्यप्रकारकोऽपूर्वघटविषयकः शाब्दबोधो जायते तथा प्रकृते बुद्धिस्थत्वप्रकारकतत्पदशक्तिग्रहे जाते बुद्धिस्थत्वप्रकारकेऽपूर्वघटत्वादिविषयकशाब्दबोधेपि न काचिदनुपपत्तिरित्याशङ्कयाह- न चेति ।
परिहारमाह- बुद्धिस्थत्वस्येति, शक्यतावच्छेदक यद् घटत्वादिक तदनुगमकत्वं बुद्धिस्थत्वस्य यदुक्तं तदेव न संभवति-- शक्यतावच्छेदकताऽनवच्छेदकत्वात् शक्यतावच्छेदकतावच्छेदकस्यैव च शक्यतावच्छेदकघटत्वाद्यनुगमकत्वसंभवादित्यर्थः । ननु बुद्धिस्थत्वस्य शक्यतावच्छेदकतावच्छेदकत्ने को दोषः । इत्याशङ्कचाह- तदवच्छेदकत्वे चेति, बुद्धिस्थत्वस्य सदवच्छेदकत्वे शक्यतावच्छेदकतावच्छेदकत्वे हि तस्य-बुद्धिस्थत्वस्यापि शक्यतावच्छेदकं यद् घटत्वादिकं तद्विशेषणतया तत्पदजन्यशाब्दबोधे नियमेन भानं स्यात् तथा च स्वरूपतो घटत्यादिप्रकारकशाब्दबोधो न स्याद् नाम तत्पदजन्यशाब्दबोधे प्रकारीभूतघटत्वादेः स्वरूपतो भानं न स्यात् किंतु बुद्धिस्थत्वविशिष्टत्वेनैव भानं स्यात् . विशेषणस्य स्वाश्रयप्रकारतया भाननियमेन घटत्वादिविशेषणीभूतबुद्धिस्थत्वस्यापि स्वाश्रयघटत्वादिप्रकारतया भानप्रसङ्गादित्यर्थः । ननु बुद्धिस्थत्वे