________________
(८८) सादर्शः
[विशेषकाण्ड-- भानप्रसङ्गात्, स्वरूपतो घटत्वादिप्रकारकशाब्दबोधानिर्वाहात्, उपलक्षणेनापि शक्यतावच्छेदकानुगमे शक्यस्याप्युपलक्षणेनैवाऽनुगमोस्तु किं विशिष्टे शक्त्या । . अथ द्रव्यादिपदाच्च घटत्वादिप्रकारकबोधप्रसङ्गभङ्गाय विशिष्टे शक्ति रुपेयते प्रकृते च बुद्धिस्थत्वस्पोपलक्षणत्वेपि तेनाऽनुगमे न किंचिदाधमितिचेत् ? अस्तु बुद्धिस्थत्वेनाऽनुगतधर्मेणाऽननुगतानां प्रकाराणां शक्तिधीविषयत्वं तथापि सर्वनाम्नां नानार्थत्वं दुष्परिहरमेव- साक्षात् परम्परया वा यदवच्छेदक शक्यतावच्छेदकघटत्वादिविशेषणत्वं नोच्यते येनोक्तदोषः स्यात् किं तूपलक्षणत्वमेव उपलक्षगर च शाब्दबोधे स्वाश्रयप्रकारतया माननियमाभावान्न स्वरूपतो घटत्वादिप्रकारकशाब्दबोधानुपपत्तिरित्याशङ्कयाह-उपलक्षणेनेति, उपलक्षणीभूतेनापि बुद्धिस्थत्वेन यदि शक्यताचच्छेदकघटस्वादीनामनुगम: स्यात्तदा शक्यस्य घटादेरप्युपलक्षणेनैवानुगमोस्तु किं विशिष्टे शतया नाम घटादिव्यक्त्यनुगमकघटत्वादीनामप्युपलक्षणत्वमेव स्वीकार्य न विशेषणत्वम् . यथा च तत्र नोपलक्षणस्य शक्यानुगमकत्वं तथा प्रकृतेपि नोपलक्षणीभूतबुद्धिस्थत्यस्य शक्यतावच्छेदयघटत्वाधनुगमकत्वं संभवतीत्यर्थः । • ननु बटादिपदस्थले यदि घटत्वादेविशेषणत्वं न स्याद् घटत्वादिविशिष्टे च शक्तिर्न स्यात् किंतु घटत्वादेरुपलक्षणत्वं स्यात्तदोपलक्षणत्वाविशेषाद् घटपदेन घटत्वप्रकारकबोधवद् द्रव्यत्वप्रकारंकबोधोपि स्यादेव तथा द्रव्यपदाद् द्रव्यत्वप्रकारकबोधवद् घटत्वप्रकारकबोधोपि स्थादेवद्रव्यपदजन्यबोधविषयीभूतघटे घटत्वस्योपलक्षणत्वनियामद् न चैवमस्ति किं तु घटपदेन घटत्वप्रकारक एव द्रव्यपदेन च द्रव्यत्वप्रकारक एव बोधो भवतीति घटादिपदानां विशिष्टे शक्तिरुपेयते नाम घटत्वादेविशेषणत्वं स्वीक्रियते तथा च घटादिपदेनोपलक्षणीभूतद्रव्यत्नादिप्रकारकबोधस्यापत्तिर्नास्ति प्रकृते तत्पदस्थले चोपलक्षणीभूतेनापि तेन–बुद्धिस्थत्वेन घटत्वपंटत्वादीनामनुगमे न कोपि दोषः, यापलक्षणीभूतस्य बुद्धिस्थत्वस्य शाब्दबोधे भानं स्यात्तदोपलक्षणत्वाविशेषात् ' अत्र घटोस्ति तमानय ' इत्यादौ तत्पदजन्यबोधे द्रव्यत्वादेरपि भानापत्तिर्दोषः स्यादपि न चैवमस्ति शाब्दबोधे बुद्धिस्थत्वस्य मानाऽस्वीकारात् तदादिपदेनापि स्वरूपत एव घटत्वादिप्रकारकबोधस्वीकारात्, घटादिपदजन्यबोधे तु घटत्वादेर्भाननियमाद् विशेषणत्वमेव युक्तं नोपलक्षणत्वमित्याशयेनाशकते- अधेति । परिहरति- अस्त्विति । प्रकाराणाम्= घटत्वपटत्वादीनाम् । सर्वनाम्नां नानार्थत्वापत्तौ हेतुमाह-साक्षादिति, घटादिपदस्थले शक्यता स्थ घटत्वादिकं च घटादौ वर्तत एवेति साक्षादेव यद् घटत्वादिकं शक्यतावच्छेदकं तदैक्यादेवाऽयच्छेद्यायाः शक्तरेक्यं संभवति. प्रश्वादिपदस्थले च 'पशुपदालाशूलविशिष्टो लोमवल्लाङ्गुलविशिष्टो वा बोद्धव्यः ' इत्याकारकभगवत्संकेतस्वीकारात् पशुव्यक्तौ लाशूलं विशेषणं तच्चानेकमेव तत्र लाशूलत्वं विशेषणं तश्चैकमेव तच्च लाशूलत्वं लागूलद्वारैव शक्यतावच्छेदकमिति परम्परया