________________
पुष्पबन्तपदम्.] शक्तिवादः ।
(७९) भासमाने चाऽवच्छेदकतापर्याप्तिभानानुपगमात् । तत्राभयत्वविशेषेभावप्रतियोगितावच्छेदकत्वपर्याप्त्युपगमे अत्राप्युभयत्वविशेषे शक्यतावच्छेदकत्वपर्याप्तिसंभवाच्चन्द्रत्वसूर्यत्वयोरवच्छेदकतावच्छेदकतयैव शाब्दबोधे भानोपपत्तिः ।
न च शक्यतावच्छेदकतावच्छेदकमऽवच्छेदकविशेषणतयैव भासते इति चन्द्रत्वसूर्यत्वयोस्तथात्वे चन्द्रसूर्यांशे प्रकारतया शाब्दबोधे भानानुपपत्तिरितिवाच्यम्, तयोः शक्यतावच्छेदकतावच्छेदकत्वोप शक्तिग्रहेऽवच्छेदकाश्रयचन्द्रसूर्यविशेषणतयैव भानाच्छाब्दबोधेपि तद्विशेषणतया भानसंभवात् ।
अथ शक्तिग्रहे साक्षाच्छक्यतानवच्छेदकस्य तदुभयस्य शक्यचन्द्रसूर्योभयांश साक्षात् प्रकारतया भानं न संभवतीति चेत् ? 'घटपटौ न स्तः ' इत्यादौ घट
हि सकलोभयत्ववृत्ति न तु केवलघटपटमात्रवृत्त्युभयत्वमात्रवृत्तीत्यऽतिप्रसक्तम्, अतिप्रसक्तधर्मकारण उभयत्वत्वेन रूपेण भासमाने चोभयत्वे प्रतियोगितावच्छेदकतापर्याप्तिन स्वीक्रियतअतिप्रसक्तधर्मरूपेण भासमानस्य व्यवच्छेदकत्वासंभवादित्यर्थः । अभ्युपगम्याह- तत्रेति, तत्र= * घटपटौ न स्तः' इत्यत्र, उभयत्वविशेषे घटस्वपटत्वविशिष्टोभयत्वे । अत्र= दिवाकरनिशाकरयोः शक्तं पुष्पवन्तपदम् ' इतिशक्तिग्रहे उभयत्वविशेष-सामानाधिकरण्येन चन्द्रवसूर्यत्वविशिटोभयत्वे । नन्वेवं शाब्दबोधे चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतावच्छेदकतयैव भानं स्थान तु शक्यतावच्छेदकतयेत्याशय तथैव स्त्रीकुर्वन्नाह-चन्द्रत्वेति । अत्र शक्यतावच्छेदकता उभयस्वविशेषे विज्ञेया चन्द्रत्वसूर्यत्वयोरुभयत्वावच्छेदकत्वात् शक्यतावच्छेदकतावच्छेदकत्वं प्राप्तमिति । - पुनराशङ्कते- न चेति । अवच्छेदकविशेषणतया शक्यतावच्छेदकविशेषगतया । तथात्वे= शक्यतावच्छेदकतावच्छेदकत्वे । चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतावच्छेदकत्वे उमय-- त्वविशेषविशेषणतयैव शाब्दबोधे भानं संभवति न तु चन्द्रसूर्यविशेषणतयेत्यर्थः । परिहारमाह-- .. तयोरिति, तयोः-चन्द्रत्वसूर्यत्वयोः । अवच्छेदकमुभयत्वम् । तद्विशेषणतया चन्द्रसूर्यविशेषणतया । एवं च चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकत्वं शक्यतावच्छेदकतावच्छेदकत्वं च प्राप्तम् । शाब्दबोधेपीति- शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्वनियमादिति विज्ञेयम् ।
ननु यदि शक्तिग्रहे चन्द्रत्वसूर्यत्वयोः साक्षाच्छक्यतावच्छेदकत्वं स्यात्तदा शक्यभूतचन्द्रसूर्ययोः साक्षात प्रकारतया भानं स्यादपि न चैवमस्ति शक्तिग्रहे उक्तोभयत्वविशेषस्यैव साक्षाय्छक्यतावच्छेदकत्वस्वीकारात् चन्द्रत्वसूर्यत्वयोश्च तादृशोभयत्वे एव प्रकारत्वस्वीकारादित्याशङ्कते-अथेति । तदुभयस्य-चन्द्रत्वसूर्यत्वयोः। प्रतिबन्धुत्तरमाह-- घटपटाविति, ' घटपटौ न स्तः इत्यत्र साक्षात् प्रतियोगिताक्च्छेदकत्वमुभयत्वविशेषस्यैव स्वीकृतं घटत्वपटत्वयोश्च तादृशोभयत्वाबच्छेदकत्वेन प्रतियोगितावच्छेदकतावच्छेदकत्वमेवेति घटत्वपटत्वयोरपि प्रतियोगितावच्छेदकत्वेन