________________
(७८)
सादर्शः
[विशेषकाण्डे
न च 'घटपटौ न स्तः' इत्यत्रोभयत्वे एव प्रतियोगितावच्छेदकत्वं भासते न तु विरुद्धघटत्वपटत्वादाविति वाच्यम्, केवलोभयत्वे तादृशाभावप्रतियोगितावच्छेदकतायाः पर्याप्तौ यत्किंचिदुभयवति तादृशाभावप्रतीत्यनुपपत्तेः ।
न च सामानाधिकरण्यसंबन्धेन घटत्वपटत्वरूपावच्छेदकधर्मेण व्यावृत्तोभयत्वविशेषस्यैव तत्रावच्छेदकत्वं प्रतीयते इति वाच्यम्, तेन प्रकारेण तत्रोभयत्वस्याभानातू. तत्तद्रूपाणां तत्तामविशेषणतयैव भानात्. अतिप्रसक्तधर्मप्रकारेण
पटौ न स्तः ' इत्यत्र परस्परविरुद्धयोर्घटत्वपटत्वयोः प्रतियोगितावच्छेदकत्वस्य पर्याप्तिः स्वीकियते तथा प्रकृते चन्द्रत्वसूर्यत्वयोरपि शक्यतावच्छेदकत्वपर्याप्तिन विरुद्धेत्यर्थः ।
शङ्कते- न चेति । अतिस्पष्टः पूर्वपक्षः । परिहारमाह- केवलेति, यदि 'बटपटौ न स्तः' इत्यत्र केवलोभयत्व एवोभयाभावप्रतियोगितावच्छेदकतायाः पर्याप्तिः स्यात्तदा यत्र गवाश्वादिरूपमपि यत् किंचिदुभयं स्यात् तत्रोमयपदार्थसत्त्वेनोभयत्वावच्छिन्नप्रतियोगिताकाभावस्थासंभवात् तादशाभावप्रतीतिः-' घटपटौ न स्तः' इत्याकारकाभावप्रतीतिर्नोपपद्यत भवति च तत्र ' वटपटौ न स्तः ' इत्याकारकामावप्रतीतिरिति तत्र घटत्वपटत्वयोरपि प्रतियोगितावच्छेदकत्वपर्याप्तिः स्वीकार्या तथा च यत्किंचिदुभयवत्यपि देशे घटपटयोरभावात “घटपटौ न स्तः' इत्याकारा घटत्वपटत्योभयावच्छिन्नप्रतियोगिताकाभावस्य प्रतीतिरुपपद्यते इत्यर्थः ।
ननु 'घटपटौ न स्तः' इत्यत्र घटपटयोरुभयत्वमपि वर्तते घटत्वपटत्वेअपीति सामानाधिकरग्यसंबन्धेन घटत्वपटत्वे उभयत्वावच्छेदके जाते उभयत्वं च घटपटोभयावच्छेदकमेवेति घटत्वपटरवे अवच्छेदकतावच्छेदके जाते तथा च घटत्वपटत्वरूपेणावच्छेदकतावच्छेदकधर्मेण व्यावृ. त्तस्य-उपवच्छिन्नस्यैवोभयत्वविशेषस्याऽत्रच्छेदकत्वम् प्रतियोगितावच्छेदकत्वं प्रतीयते न तु सामान्यत एवोभयत्वस्य येन यकिंचिदुभयवति देशे ‘घटपटौ न स्तः' इत्यभावप्रतीति!पएयेत, उभयत्वविशेषस्य तत्र प्रतियोगितावच्छेदकत्वे तु यत् किंचिदुभयवति देशे उभयत्वसामान्यावच्छिन्नप्रतियोगिताकाभावप्रतीतेरनुपपत्तावप्युभयत्वविशेषावच्छिन्न प्रतियोगिताकाभावप्रतीतौ बाधकाभावात् 'घटपटौ न स्तः । इत्यभावप्रतीतिर्नाऽनुपपनेत्याशयाह- न चेति । परिहारमाह-तेनेति, तत्र घटपटौ न स्तः । इत्यत्रोभयत्वमुभयत्वेनेव रूपेण भासते न तु तेन प्रकारेण नाम घटत्वपटत्वावच्छिन्नत्वेन रूपेण येन तादृशोभयत्नविशेषस्य प्रतियोगितावच्छेदकत्वमुपपद्यतेत्यर्थः । उक्त हेतुमाह- तत्तद्रूपाणामिति, 'घटपटौ न स्तः । इत्यत्र तत्तद्रूपाणाम् घटलपटत्वयोस्तत्तद्धर्मिविशेषणतयैवघटपटलक्षणमिविशेषणतयैव भानं भवति न तूभयत्वविशेषणतया येन घटत्वपटत्वावच्छिन्नत्वेनोभयत्वस्य भानमुपपद्यतेत्यर्थः । ननूभयत्वत्वेनैव रूपेण भासमान उभयत्वे प्रतियोगितावच्छेदकतापर्याप्तिरस्तु को दोष इत्याशझ्याह-- अतिप्रसक्तेति, उभयत्वा