________________
पुष्पवन्तरदम् . ] शक्तिवादः ।
(७७) कोटिप्रवेशप्रसङ्ग इति वाच्यम् , अभावबुद्धौ प्रतियोग्यंशे उपलक्षणस्याप्रकारत्व. नियमादुभयत्वस्य प्रतियोगितावच्छेदकत्वध्रौव्यात् . शक्तिग्रहे च शक्यांशे उपलक्षणस्योभयत्वस्थ प्रकारत्वोपगमेन तस्य शक्यतानवच्छेदकत्वात् । __ अस्तु वा प्रकृते उभयत्वसहितमेव चन्द्रत्वसूर्यत्वोभयं शक्यतःवच्छेदकम् ‘दौ' इत्यत्रेव पुष्पवन्तौ' इत्यत्रापि प्रकृति विभक्तिभ्यामुपस्थापितस्य द्विन्वस्य सकृदेव भानम् । विरुद्धयोरेकावच्छेदकत्वपर्याप्तिरपि घटत्वपटत्वोद्यारुभयाभावप्रतियोगितावच्छेदकत्वपर्याप्तिवत् प्रकृते न विरुध्यते ।। परिहारहेतुमाह-- अभावति, अभावबुद्धौ-धटपटौ न स्तः ' इत्याद्यभावज्ञाने । “ प्रतियोगिविशेषिताऽभावबुद्धिविशिष्टचैशिष्टयमर्यादां नातिशेते " इतिन्युत्पत्त्याऽभावज्ञाने भासमानानां सर्वेषामपि धर्मागां प्रतियोगितावच्छेदकत्वं भवत्येव उपलक्षणस्य चाभावज्ञाने प्रकारचं न भवतीति यदि ' वटपटौ न स्तः । इत्यत्रोभयत्वमुपलक्षणं भवेत्तदा प्रतियोगितावच्छेदकं न स्याद् भवति च प्रतियोगितावच्छेदकं तस्मादुक्तामावज्ञाने उभयत्वस्य प्रतियोग्यंशे उपलक्षणत्वं नास्ति किं तु विशेषणत्वमेव तथा चोभयत्वस्य प्रतियोग्यंशे प्रकारत्वमवच्छेदकत्वं च प्राप्त न चैवं नियमः शक्तिग्रहेस्ति येन (दिवाकरनिशाकरयोः शक्तं पुष्पवन्तपदम्' इत्याकारकशक्तिग्रहे भासमानमुमयत्वं शक्यांशे विशेषणम्--शक्यतावच्छेदकं स्यात् तथा च शक्तिग्रहे उपलक्षणं यदुभयत्वं तस्य प्रकारत्वं संभवति शक्तिग्रहे उपलक्षणस्यापि प्रकारत्वस्वीकारादिति तस्य उभयत्वस्य शक्यतावच्छेदकत्वं न भवति- उपलक्षणीभूतस्यैव तस्य प्रकारत्वस्वीकाराद् विशेषणीभूतप्रकारस्यैवावच्छेदकत्वनियमादिति नोभयत्वस्यः शक्यतावच्छेदककोटिप्रवेशप्रसङ्ग इत्यर्थः । विशेषणस्यापि कचित् प्रकारत्वं भवति यथा अभावज्ञाने, उपलक्षणस्यापि प्रकारत्वं भवति यथा शक्तिग्रहे प्रदर्शितम् , किं चाऽवच्छेद्यत्वसंबन्धेनापि प्रकारत्वं भवति यथाऽभावज्ञाने, सामानाधिकरण्यसंबन्धेनापि प्रकारत्वं भवति यथा शक्तिमहे तत्र ययोश्चन्द्रसूर्ययोः शक्यतास्ति तत्रैयोभयत्वमप्यस्तीति सामानाधिकरण्येन प्रकारत्वम् ।
अभ्युपगम्याह- अस्तु घेति, एवं चोभयत्वं चन्द्रत्वं सूर्यत्वमिति त्रितयमेव शक्यतावच्छेदकं जातम् । नन्वेवं पुष्पवन्तपदस्योभयत्वावच्छिन्ने शक्तया 'पुष्पवन्तौ ' इत्यत्र प्रकृत्याप्युभयत्वमानं स्याद् विभक्त्यापि च स्यादित्युभयत्वस्य द्विधा मानप्रसङ्ग इत्याशङ्कयाह-- द्वाविति, यथा 'द्वौ । इत्यत्र प्रकृत्याप्युभयत्वस्योपस्थितिर्भवति विभक्तयापि च शाब्दबोधे त्वेकदैव भानं भवति तथैव — पुष्पवन्तौ' इत्यत्रापि ध्येयम् । ननु — महानसीयवह्निर्नास्ति' इत्यत्रैकस्मिन् वह्नौ महानसीयत्वं वह्नित्वं च संभवतीति तयोः परस्परं विरोधाभावात् तयोरभावीयैकप्रतियोगितावच्छेदकत्वस्य पर्याप्तिः संभवति : पुष्पवन्तौ स्तः' इत्यत्र चन्द्रत्वसूर्यत्वे तु परस्पराभावव्याप्यत्वात् परस्परं विरुद्धे एवे.ते कथं तयोरेकशक्यतावच्छेदकत्वस्य पर्याप्तिः स्यादित्याशङ्क्याहविरुद्धयोरिति, यया घटत्वपटत्वे अपि परसराभावव्याप्यत्वात् परस्परं विरुद्ध एवाऽथापि ' घट