________________
(७६)
सादर्शः
[विशेयकाण्डे
भयत्वावच्छिन्नाभावप्रतीतो घटपटादिरूपप्रतियोगिविषयताया भेदेप्यभावीयविषयताया ऐक्येन समूहालम्बनविलक्षणायामुभयत्वादिधर्मितावच्छेदकतया भासमानघटत्वपटत्वादिषु तादृशाभावप्रतियोगितावच्छेदकत्वपर्याप्तिभानम् ? । ___ एवं च ‘दिवाकरनिशाकरयोः शक्तमेतत्पदम् ' इत्याकोरकशक्तिग्रहे शक्तिविषयताया ऐक्येन समूहालम्बनविलक्षणे उभयत्वधर्मितावच्छेदकतापन्नचन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानमविरुद्धमिति न दोषः।
न चैवमुभयाभावप्रतियोगितायामुभयत्वस्येव प्रकृते उभयत्वस्याप्यवच्छेदकन्तरधर्मितावच्छेदकतया धर्मद्वयादेर्भानं तत्रापि विभिन्नधर्मिविशेषणतापन्नेषु ताबद्धर्मेध्येकावच्छेद्यतानिरूपितावच्छेदकतापर्याप्तिन प्रतीयेत तदा 'घटपटौ न स्तः' इत्यत्र घटपटरूपप्रतियोगिनोविषयताया भेदेप्यभावीयविषयताया ऐक्येन 'घटो नास्ति' 'पटो नास्ति' इत्याकारकसमूहालम्बनात्मकप्रतीत्यपेक्षया वैलक्षण्यमस्ति-उक्तसमूहालम्बनात्मकप्रतीतावऽभावीयविषयताया अप्यैक्याभावात् तथा च समूहालम्बनविलक्षणायाम् 'घटपटौ न स्तः' इत्याकारकोभयत्वाव. च्छिन्नाभावप्रतीतो नाम घटत्वएटत्योभयधर्मावच्छिन्नप्रतियोगिताकाभावप्रतीतौ उभयत्वरूपधर्मनिरूपिता या घटपटोभयनिष्ठा धर्मिता तादृशधर्मितावच्छेदकतया भासमानयोर्घटत्व स्टत्वयोस्तादृशामावप्रतियोगितावच्छेदकत्वस्य-उभयत्वावच्छिन्नाभावप्रतियोगितावच्छेदकत्वस्य पर्याप्तिन भासेत न चैवमस्ति तथा च यथा 'घटपटौ न स्तः' इत्यत्र घटत्वपटत्वयोवटपटरूपविभिन्नधर्मिविशेषणतापन्नयोरप्यऽभावीयप्रतियोगितावच्छेदकत्वस्य पर्याप्तिर्मासते तयोरुभयत्वधर्मिताबच्छेदकतया भासमानत्वात् तथा 'दिवाकरनिशाकरशक्तं पुष्पवन्तपदम्' इत्याकारकशक्तिप्रहेपि चन्द्रसूर्यरूपविभिन्नधर्मिविशेषणतापन्नयोरपि चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकतापयाप्तर्भानं युक्त मेव- अत्र चन्द्रत्वसूर्यध्वयोरप्युभयत्वधर्मितावच्छेदकतया भासमानत्वादिति न शक्तिभेदापत्तिर्न चकधर्मप्रकारकशाब्दबोधापत्तिवेत्यर्थः ।
उपसंहरति-एवं चेति । एतत्पदम्-पुष्पवन्तपदम् । 'दिवाकरशक्तं तत्पदम् । 'निशाकरशक्तं तत्पदम् ' इत्याकारकसमूहालम्बनात्मकशक्तिग्रहे तु शक्तिविषयताया ऐक्यं न भवति दिवाकरनिरूपितशक्तिविषयताया भिन्नत्वान्निशाकरनिरूपितशक्तिविषयतायाश्च पदनिष्ठाया भिन्नस्वात, 'दिवाकरनिशाकरयोः शक्तं पुष्पबन्तपदम् ' इत्याकारकविशिष्टशक्तिआहे तु दिवाकरनिशाकरोभयनिरूपितकैव शक्तिविषयता पुष्पवन्तपदे प्राप्तेति समूहालम्बनविलक्षणे विशिष्टशक्तिअहे उभयत्वधर्मनिरूपिता या चन्द्रसूर्योभयनिष्ठा धर्मिता तादृशधर्मिताया अवच्छेदकतापन्नयोश्चन्द्रल्यसूर्यत्वयोः शक्यतावच्छेदकत्वपर्याप्तिभानं न विरुद्धमित्यन्वयः ।
ननु यदि चन्द्रत्वसूर्यत्वयोरत्रोभयत्वधर्मितावच्छेदकत्वं स्त्री क्रियते तदा यथा ' घटपदी न स्तः । इत्यत्रोभयत्वस्याप्युभयाभावप्रतियोगितावच्छेदकत्वमस्ति तथा प्रकृतेपि-पुष्पवन्तपदस्थलेप्युभयत्वस्याऽवच्छेदकंकोटिप्रवेशप्रसङ्गः शक्यतावच्छेदकावं स्यादित्याशङ्कयाह- न चैवमिति ।