________________
पुष्पवन्तपदम्. ] शक्तिवादः।
(७५) विषयकं ज्ञानं महानसीयत्ववदित्वादिपर्याप्त प्रतियोगितावच्छेदकताकं विशेषाभावं नावगाहते अपि तु शुद्धवदित्वावच्छिन्नाभावमेवेति कथम् 'दिवाकरनिशाकर शक्तं पुष्पवन्तपदम्' इत्यादिशक्तिग्रहे चन्द्रत्वसूर्यत्वोभयस्मिन् शक्यतावच्छेदकत्वपर्याप्तिभानम्-- तत्र धर्मिणोश्चन्द्रसूर्ययो देन तनिष्ठविशेष्यताया ऐक्यासं. भवादिति चेत् ?
न- यतो यत्रावच्छेदकीभूतव्यासज्यवृत्तिधर्मान्तरधर्मितावच्छेदकतया धर्मद्रयादेर्भानं तत्र विभिन्नधर्मिविशेषणतापनेष्वपि तावद्धध्वेकावच्छेद्यतानिरूपितावच्छेदकतापर्याप्तिः प्रतीयते कथमन्यथा 'घटपटौ न स्त' इत्याकारकोप्रतियोगितावच्छेदकता यस्य तादृशं विशेषाभावम् ='महानसीयवह्निनास्ति' इत्याकारकमभावं नावगाहतेन विषयीकरोति किं तु शुद्धवहित्वावच्छिन्नाभावमेव नाम 'वह्निर्नास्ति' इतिज्ञानं केवलवह्नित्वावच्छिन्नप्रतियोगिताकाभावमवगाहते 'महानसीयो नास्ति' इति च ज्ञानं केवलमहानसीयत्वाव-- च्छिन्नप्रतियोगिताकाभावमेवावगाहते यदि च नानाधर्मिनिष्ठनानाविशेष्यतानिरूपितविशेषणतापन्नेअपि नानाधर्मेष्वेकावच्छेदकत्वपर्याप्तिर्गृह्येत तदा महानसीयरूपधर्मिनिष्ठविशेष्यतानिरूपितविशेघणर्ता प्राप्त यद महानसीयत्वं वह्निरूपमिनिष्ठविशेष्यतानिरूपितविशेषणतां प्राप्तं यद् वह्नित्वं तयोरुभयोरप्येकाभावीयप्रतियोगितावच्छेदकत्वपर्याप्तिगुह्येत तथा च 'महानसीयो नास्ति' 'वहिर्नास्ति' इतिसमूहालम्बनात्मकं ज्ञानम् ‘महानसीयवहिर्नास्ति' इत्याकारकं विशेषाभावमप्यवगाहेत तथा च बहिमति पर्वते वह्निशून्ये च महानसे 'महानसीयवहिर्नास्ति' इतिविशिष्टभावप्र. तीतेर्जायमानत्वात् 'महानसीयो नास्ति' 'वहिर्नास्ति' इतिसमूहालम्बनात्मकाभावप्रतीतिरपि. जायेत न चैवमिष्टमिति तदुपपत्त्यर्थमेकधर्मिनिष्ठेकविशेष्यतानिरूपितविशेषणतापन्नेष्वेव नानाधर्मे
वच्छेदकत्वपर्याप्तिः स्वीकार्या तथा च पुष्पवन्तपदस्थलेपि धर्मिगोश्चन्द्रसूर्ययोर्भेदेन तनिष्ठविशेष्यताया ऐक्यासंभवात् तादृशविभिन्न विशेष्यतानिरूपितविशेषणता प्राप्तयोश्चन्द्रत्वसूर्यत्वयोरपि कथं शक्यतावच्छेदकत्वस्य पर्याप्तिः स्यात् तदभाचे च पुष्पवन्तपदात् केवलसूर्यत्वादिप्रकारकबोधो दुर्वार एवेत्याशङ्कते- अथेति।
परिहरति-- नेति, प्रकृतेऽवच्छेदकीभूतं व्यासज्यवृत्ति-चन्द्रसूर्योभयव्यासक्तं यद् द्वित्वं योभयत्वं वा धर्मान्तरं तादशधर्मान्तरनिरूपिता या चन्द्रसूर्योभयनिष्ठा धर्मिता तादृशयमितावच्छेदकतया धर्मद्वयादेः चन्द्रत्वसूर्यत्वादिनानाधर्माणां प्रतीतिर्भवति चन्द्रसूर्यरूपविभिन्नधर्मिणोरपि विशेषणतापनयोश्चन्द्रत्वसूर्यत्व रूपधर्मयोरेका या शक्यतानिष्ठाऽवच्छेद्यता तादृशावच्छेद्यतानिरूपितावच्छेदकतायाः पर्याप्तिः प्रतीयते इत्यन्वयः, 'महानसीयो नास्ति' 'बहिर्नास्ति' इत्यत्र त्ववच्छेदकीभूतव्यासन्यवृत्तिधर्मान्तरधर्मितावच्छेदकतया महानसीयत्ववह्नित्वयोर्भानं न भवतिद्वित्वादेवच्छेदकस्वाभावादिति न तत्र महानसीयत्ववहित्वयोरभावीयप्रतियोगितावच्छेदकत्वपर्याप्तिः संभवति । विपक्षे बाधकमाह-कथमिति । अन्यथा यदि यत्रावच्छेदकीभूतव्यासज्यवृत्तिधर्मा