________________
सादर्श:
[विशेषकाण्डेदिप्रकारकबोधे केवलतद्धमें शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य हेतुत्वात, चन्द्रत्वसूर्यत्वोभयांशे शक्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानस्य चोभयप्रकारकबुद्धित्वं कार्यतावच्छेदकम्. अतस्तादृशशक्तिज्ञानाञ्चन्द्रत्वाद्यवच्छिन्नाऽन्वयबोधौपयिकयोग्यताज्ञानाद्यसत्त्वे न सूर्यत्वाधवच्छिन्नान्वयबोधप्रसङ्गः । नानार्थपदाच्च प्रत्येकधर्मावच्छिन्नस्यापि प्रतीत्या तत्र प्रत्येकमेवाऽवच्छेदकतापर्याप्ते
खश्योपगन्तव्यतया शक्यतावच्छेदकताभेदेन शक्तिभेदः। __ अथाऽवच्छेदकताग्राहकमाने कर्मिनिष्ठुकविशेष्यतानिरूपितविशेषणतापनेब्वेव नानाधर्मेष्यवच्छेदकत्वपर्याप्तिप्यतेऽतो 'महानसीयो नास्ति' 'वहिर्नास्ति' इत्याकारकं महानसीयत्ववद्वित्वादिविशेषणपुरस्कारेण पृथक् पृथक् प्रतियोगिकेवलसूर्यत्वादिप्रकारकबोधहेतुभूतस्य शक्तिज्ञानस्य स्वरूपमाह-केवलेति, केवलसूयत्वादिप्रकारकबोधं प्रति केवलतद्ध, एकस्मिन्नेव सूर्यत्वादिधर्मे शक्यतावच्छेदकतापर्याप्त्यवगाहि यच्छक्तिज्ञानं तस्यैव हेतुत्वमस्ति यथा सूर्यपदशक्तिज्ञानं केवलसूर्यत्वे एव शक्यतावच्छेदकतापर्याप्तिमवगाहते इति ताशशक्तिज्ञानेन सूर्यपदात् केवलसूर्यत्वप्रकारको बोधो जायते इत्यर्थः । केवलसूर्यत्वादिप्रकारकबोधहेतुभूतोक्तशक्तिज्ञानापेक्षया पुष्पवन्तपदशक्तिज्ञानस्य विशेषमाह-चन्द्रत्वेति, पुष्पवन्तपद शक्तिज्ञानं च चन्द्रयसूर्यत्वयोरुभयोरेवैकां शक्यतावच्छेदकतापर्याप्तिमवगाहते इति चन्द्रत्वसूर्यत्वोभयप्रकारक एव बोधस्तस्य कार्यमस्तीति तादृशशक्तिज्ञानात् चन्द्रत्वसूयत्वोभयांशे शक्यतावच्छेदकतापर्याप्त्यवमाहिशक्तिज्ञानात् चन्द्रत्वाद्यवच्छिन्नान्वयबोधौषयिकयोग्यताज्ञानाद्यसत्त्वे चन्द्रादिविषयकशाब्दबोधहेतुभूतयोग्यताज्ञानाद्यसत्त्वे न केवलसूर्यादिविषयकशाब्दबोधप्रसङ्गोस्तीत्यर्थः । पुष्पवन्तपदान्नानार्थपदानां विशेषमाह-नानार्थति, नानार्थाद् हर्यादिपदाच प्रत्येकधर्मावच्छिन्नस्यापि केवलविष्ण्वादेरपि प्रतीत्या-बोधात् तत्र नानार्थपदस्थले प्रत्येकमेव कपलविष्णुत्वादावेत. शायना छेदकतापर्याप्तरभ्युपगन्तव्यतया : विष्णुत्वादिशक्यतावच्छेदकनिष्ठशक्यतावच्छेदकतानां भेदेन शक्तिभेदः शक्तिभेदाच नानार्थत्वं सिद्धमित्यर्थः ।।
ननु चन्द्रत्वसूर्यत्वयोरुभयोरेकशक्यतावच्छेदकतापर्याप्तिरवोक्ता न संभवति येन पुष्पवन्तपदस्थले शक्तिभेदो न स्याद् यतोऽवच्छेदकताप्राहकमानम् अवच्छेदकतासाधकमानमभावादिप्रतीतिरेव तया होकर्मिनिष्ठा यैका विशेष्यता तादृशविशेष्यतानिरूपितविशेषणतां प्राप्तेष्वेव नानाधर्मेध्ववच्छेदकत्वपर्याप्तिगृह्यते यथा 'महानसीयवह्निर्नास्ति' इत्यत्र महानसीयवहिरूपो य एको धर्मी विशेष्यस्तन्निष्ठा । विशेष्यताप्येकैवेति तादृशैकविशेष्यतानिरूपितविशेषणतां प्राप्तयोमहानसीयत्ववह्नित्वयोरभावीयप्रतियोगितावच्छेदकत्वस्य पर्याप्तिर्गृह्यते न तु नानाधर्मिनिष्ठनानाविशेष्यतानिरूपितविशेषणतापन्नेष्वपि नानाधर्मेषु अत एव 'महानसीयो नास्ति' 'वहिर्नास्ति' इत्याकारकं समूहालम्बनात्मकं महानसीयत्वविशेषणपुरस्कारेण पृथग् जायमानं वह्नित्वविशेषणपुरस्कारेण च पृथग् नायमानं प्रतियोगिविषयकं ज्ञानं महानसीयत्ववह्नित्वयोरुभयोः पर्याप्ता