________________
'पुष्पवन्तपदम् , ]
शक्तिवादः। पदवन्नानार्थत्वग्रहदशायां भ्रान्तस्य केवल सूर्यत्वादिप्रकारकबोधस्याप्युत्पत्तेः । एवं तत्पदस्य हर्यादिपदवन्नानाधर्मावच्छिन्नवाचकतया नानार्थत्वप्रसङ्गोपि दुर्वारः ।
न चार्थद्वये तस्यैकस्या एव शक्तरुपगमान नानार्थता- नानाशक्तिमत एक नानार्थत्वोपगमादिति वाच्यम्, शक्यतावच्छेदकभेदेन शक्तिभेदस्यावश्यकत्वाद्
अवच्छेदकभेदस्यावच्छेद्यभेदनियतत्वात्,अन्यथा हर्यादिपदेष्वपि शक्त्यैक्यापत्तेः। ___ अत्र शक्त्याख्यपदपदार्थसंबन्धान्तरवादिमीमांसकानुयायिनः-यथा धानकर्मत्वगोत्वादिरूपशक्यतावच्छेदकभेदेपि धेन्वादिपदानां न शक्तिभेदः-अवच्छेदकताया व्यासज्यवृत्तित्वात तथा प्रकृतेपि चन्द्रत्वसूर्यत्वयोर्यासज्यवृत्तिशक्यताव.
च्छेदकतास्वीकारान्न शक्तिभेदो न वैकं परित्यज्याऽन्यप्रतीतिः । केवलमूर्यत्वापुष्पबन्तपदात् केवलसूर्यादिविषयकबोधो भ्रान्तस्य स्यादेवेत्यर्थः । यद्यपि भ्रान्तस्यात्र केवलसूर्यत्वादिप्रकारकबोधो नेष्टस्तथापि पूर्वपक्षग्रन्थोयमित्यनुसंधेयम् । एवमिति- तत्पदस्प= पुष्पबन्तपदस्य ।
ननु हर्यादिपदानां तु प्रत्येकस्मिन् विष्वाद्यर्थे पृथक् पृथगेव शक्तिरस्तीति युक्तं तेषां नानाथत्वं तस्य-पुष्यवन्तपदस्य त्वर्थद्रये चन्द्रसूर्ययोरेकैच शक्तिरिति कथं नानार्थत्वं स्यादित्याशङ्क्याह--न चेति । परिहारहेतुमाह--शक्यतेति, चन्द्रवसूर्यत्वयोः शक्यतावच्छेदकयोर्यदा भेदोस्ति तदा शक्तिभेदोप्यावश्यक एव । ननु शक्यतावच्छेदभेदेपि शक्तयैक्ये को दोष इत्याशक्याहअवच्छेदकेति- अवच्छेयायाः शक्तेर्भेदे सत्येव शक्यतावच्छेदकभेदः संभवति अस्ति चात्र चन्द्रत्वसूर्यत्वयोः शक्यतावच्छेदकयोर्भेद इति शक्तिभेदोप्यावश्यक एव तथा च नानार्थत्वप्रसङ्गो दुर्वार एवेत्यर्थः । विपक्षे बाधकमाह--अन्यथेति, यदि शक्यतावच्छेदकभेदेपि शक्तिभेदो न स्यात्तदा विष्णुत्वादिरूपशक्यतावच्छेदकानां भेदेपि हर्यादिपदशक्ते दो न स्यात् तेन च हर्यादिपदानां नानार्थत्वमपि न स्यादित्यर्थः । __ अथेत्यादिना प्रदर्शिताशङ्का मीमांसकमतेन प्रथमं समाधत्ते–अत्रेत्यादिना : “ शक्तयाख्यपदपदार्थसंबन्धान्तर' इत्यत्र 'पदपदार्थसंबन्धाख्यपदार्थान्तरशक्ति' इत्येवं पाठो युक्तः, मीमांसकमते वाच्यवा चकभावसंबन्धस्यैव शक्तित्वस्वीकारात् शक्तिमात्रस्य पदार्थान्तरत्वस्वीकारादिति । यथेति-अत्र धानकर्मत्वगोत्वयोरुभयोरेव धेनुपदशक्यतावच्छेदकत्वं प्राप्त पूर्व च प्राभाकरमतेन धानकर्मत्वस्यैव तर्कमतेन च गोत्वस्यैव शक्यतावच्छेदकत्वमुक्तं न तूभयोरपीति पूर्वापरविरोधःप्राप्त इत्यत्रैकशक्तिज्ञानजन्योपस्थितिविषयत्वरूपमेव शक्यतावच्छेदकत्वं विज्ञेयम् अस्ति च धेनुपदजन्योपस्थितौ धानकर्मत्वगोत्वयोरुभयोर्मासमानत्वम् , एकस्यावच्छेदकतयाऽपरस्योपाधित्वेन भानं भवतीत्यन्यदेतत् । व्यासज्यवृत्तित्वादिति-धानकर्मत्वगोत्वोभयव्यासक्तत्वादित्यर्थः । प्रकृते-पुष्पचन्तपदस्थलेपि चन्द्रत्वसूर्यत्वयोरुभयोरेव व्यासक्तैवैका शक्यतावच्छेदकता स्वीक्रियते न तु प्रत्येकपर्याप्तेति न शक्तिभेदो येन नानार्थत्वं वा स्यात् केवलसूर्यत्वादिप्रकारकबोधो वा स्यादित्यर्थः ।