________________
सादर्शः--
(७२)
[विशेषकाण्डे• यथा नानाधर्मविशिष्टेकर्मिवाचकाच्छक्तिप्रमातो नैकधर्म परित्यज्य धर्मी प्रतीयते तया चन्द्रत्वसूर्यत्वादिनानाधर्मविशिष्टनानाधर्मिवाचकपुष्पवन्तादिपदा. चन्द्रत्वादिकं परित्यज्य न सूर्यत्वादिप्रकारको बोधः।
अथात्र हरिपदादिशक्तिज्ञानादिव 'दिवाकरः पुष्पवन्तपदेवाच्यः' इत्याकारकशक्तिज्ञानात् केवलसूर्यत्वप्रकारको बोधो दुरः । ... न च पुष्पवन्तपदशक्तिज्ञानेन सूर्यत्वादिप्रकारकशाब्दबोधजनने चन्द्रत्वादिनकारकशक्तिज्ञानस्यापि सहकारितोपगमान्नातिप्रसङ्ग इति वाच्यम् , तस्य हर्यादिः जातस्तादृशधानकर्मताव्यक्तरलाभप्रसङ्गः- धेनुपदाद् बोधानुपपत्तिरेव दोषः स च व्यक्ती शक्तिपक्षे इव विज्ञेय इत्युक्ततर्कमतमेव श्रेय इत्यर्थः । एवमेव सुखासंभिन्नदुःखादौ नरकादिपदानां शक्तिः केवलदुःखादौ च लक्षणैव विज्ञेया ॥
॥ इति धेनुपदम् ॥
अथ
॥ पुष्पवन्तपदम् ।। नानाधर्मिविशेषणतापन्नेषु नानाधर्मेष्वेकशक्तिमत्पुष्पवन्तपदमुदाहरति- यथेत्यादिना । नाना धर्मविशिष्टिकमिवाचकं धेन्वादिपदं तत्र यद्यपि तर्कमते गोत्वस्यैव विशेषगत्वं प्राभाकरमते च धानकर्मत्वस्यैव विशेषणत्वं तथापि गोत्वं धानकर्मत्वं चोभयमेव धेनवृत्त्येवेत्यभिप्रायेण नानाधर्मविशिष्टत्वमुक्तं किं वा कस्यचिन्मतेन धानकर्मत्वगोत्योभयधर्मविशिष्टत्वमुक्तमिति विज्ञेयम् । तथेति- चन्द्रत्वविशिष्टश्चन्द्रः सूर्यत्वविशिष्टः सूर्यस्तदुभयवाचकं पुष्पवन्तपदं तत्र पुष्पयन्तपदाचन्द्रसूर्ययोरुभयोरेक्दैव प्रतीतिर्भवति- तदुभयोः पुष्पवन्तपटस्यैकशक्तिस्वी. कारादिति नैक चन्द्रवादिधर्म परित्यज्य केवलसूर्यत्वादिप्रकारको बोधः शक्तिप्रमातो भवतीत्यर्थः ।
ननु यथा हरिपदस्य विष्णुसूर्याद्यनेकपदार्थवाचकत्वेपि — हरिपदं विष्णुवाचकम् ' इत्यादिहस्पिदशक्तिज्ञानात् केवलविण्यादिविषयको बोधो भवति तथा 'दिवाकरः पुष्पवन्तपदवाच्यः' इत्याकारकशक्तिज्ञानस्यापि प्रमात्वेन. ततः केवलसूर्यत्वादिप्रकारकबोधो दुर्वार एव--पुष्पवन्तपदस्य चन्द्रसूर्योभयवाचकत्वेन सूर्यवाचकत्वादेवेत्याशङ्कते- अथेति । विशेषतः स्पष्टार्थोयं ग्रन्थः । .. ननु पुष्पवन्तपदशक्तिज्ञानेन सूर्यत्वादिप्रकारकबोधजनने चन्द्रत्वादिप्रकारकशक्तिज्ञानस्य सहकारित्वं स्वीक्रियते सहकारिणं विना च कार्य न भवतीति पुष्पवन्तपदविषयकचन्द्रत्वादिप्रकारकशक्तिज्ञाने विद्यमाने चन्द्रत्वसूर्यत्वोभयप्रकारक एव बोधः संभवतीत्यतिप्रसङ्गः केवलसूर्यत्वा. दिप्रकारकबोधातिप्रसङ्गो नास्तीत्याशङ्कयाह- न चेति । परिहारमाह-- तस्येति, तस्य पुष्प वन्तपदस्य नानार्थत्वग्रहदशायां यथा हर्यादिपदात् केवल विष्ण्वादिविषयकबोधो भवति तथा