________________
धेनुपदम् ]
शक्तिवादः ।
कथमप्यसंभवात् तथापि गोनिष्ठधानकर्मताव्यक्तीनामनतिप्रसक्तानुगतरूपाभावान्न शक्यत्वसंभवः ।
( ७१ )
न च सामानाधिकरण्यसंबन्धेन गोत्वमेव धानकर्मत्वसहितं धानकर्मत्वविशेपाणामनुगमकमिति वाच्यम्, अशक्येन शक्यानुगमे सर्वत्रैव विशेषणे शक्त्युच्छेदप्रसङ्गात् । अतिप्रसक्तेनापि धानकर्मतात्वेन विशिष्टे धानकर्मताविशेषे शक्तिग्रहोपगमे लाघवाद् गोत्वविशिष्टे एव गोविशेषे शक्तिर्धानकर्मत्वमेव शक्त्युपाधिरित्येवोचितम् | अननुगतेन तत्तदानकर्मतात्वेन शक्तिप्रहोपगमे चाऽपूर्वव्यक्त्य लाभप्रसङ्ग इत्यनुपपत्तिश्चिन्त्या ॥
अपि संभवाभावात् तादृशं गौरवं च मीमांसकैरीश्वरस्वीकारगौरवमयेनेष्टापत्त्या स्वीकृतमिति न बाधकम् = बाधकत्वेन दोषत्वेन वा प्रदर्शयितुं युक्तं तथापि गोनिष्ठधानकर्मताव्यक्तीनामनतिप्रसक्तानुगतरूपाभावाच्छक्यत्वं न संभवति:- अनतिप्रसक्तानुगतरूपे सत्येव शक्यत्वसंभवाद् यथा गोव्यक्तीनां गोत्वं गोत्वस्य च गोत्वत्वमनतिप्रसक्तानुगतरूपमस्तीति गोव्यक्तीनां गोत्वस्य च गोपदशक्यत्वम् । धानकर्मतात्वं च महिष्यादिवृत्तिधानकर्मताव्यक्तिष्वप्यस्तीव्यऽतिप्रसक्तमेवेति न धानकर्मतात्वेनापि गोनिष्ठधानकर्मतानामनुगमः संभवति येन धेनुपदक्यत्वं स्यादित्यर्थः ।
ननु सामानाधिकरण्यसंबन्धेन धानकर्मत्वसहितं नाम धानकर्मत्वसमानाधिकरणं गोraha मानकर्मत्व विशेषाणाम् - गोनिष्ठधानकर्मताव्यक्तीनामनुगमकं भविष्यति - धानकर्म त्यसमानाधिकरणगोत्वस्यानुगतत्वादनतिप्रसक्तत्वाच्च तथा च गोनिष्ठधानकर्मताव्यक्तीनां न धेनुपदशक्यत्वानुपपत्तिरित्याशङ्कयाह - न चेति, तत्र मते धेनुपदशक्यत्वं गोवे नास्ति तत्र यदि धेनुपदाशक्येनापि गोत्वेन धेनुपदशक्यानां धानकर्मत्वानामनुगमः स्यात्तदा सर्वत्रैवाशक्पेनापि घटत्वादिना घटादिपदशक्यघटादिव्यक्तीनामनुगमः स्यादिति विशेषणे घटत्वादो घटादिपदशक्तिस्वीकारो पर्थ एव स्यात् न चैवमस्तीति न धानकर्मत्वसमानाधिकरणगोत्वेनापि गोनिष्ठधानकर्मत्वानामनुगमः संभवति येन धेनुपदशक्यत्वं स्यादित्यर्थः । धानकर्मतात्वं च महिष्यादिवृत्तिधानकर्मतासु वृत्तित्वादतिप्रसक्तमेव तंत्र यद्यतिप्रसक्तेनापि धानकर्मतात्वेनानुगमाद् धानकर्मतात्वविशिष्टे मानकर्मताविशेषे = गोनिष्ठधानकर्मतासु धेनुपदशक्तिग्रहः स्वीक्रियते तदा लाघवाद गोरखवि -. शिष्टे एव गोविशेषेधानकर्मत्वो पल क्षितगोव्यक्तिषु धेनुपदशक्तिर्धानकर्मस्वमेव शक्त्युपाधिरित्येमोचितमित्याह- अतिप्रसक्तेनति । लाघवं च गोत्वस्यैकत्वप्रयुक्तम् । धानकर्मत्वस्य शक्त्युपाधि-. वेन न धेनुपदाद् वृषभादिबोधापत्तिरपि । ननु धानकर्मतात्वमपि स्वाश्रयतत्तद्धानकर्मता व्यक्तिमेदेन भिन्नं भिन्नमेव न सकलधानकर्मताव्यक्तिवृत्त्येकं येनातिप्रसक्तं स्यादित्याशङ्क्याह- अननुलतेनेति, एवं हि तत्तद्वानकर्मतात्वमननुगतमेव स्याद् अननुगतेन च तत्तद्दानकर्मतान तिचदानकर्मतासु धेनुपदशक्तिमहोपगमे ह्यपूर्वव्यक्तेः यस्यां धानकर्मताव्यक्तौ शक्तिग्रहो न
•