________________
सादर्शः
(७०)
[ विशेषकाण्डेन- यद्धर्मविशिष्ट शक्तिस्तद्धाश्रयस्य यावत एव शक्यत्वनियमेन गोत्वस्य · शक्यत्वे वृषभादेरपि तथात्वापत्तेः। धानकर्मताविशिष्टाया गोः शक्यत्वे च गो.
निष्ठधानकर्मताव्यक्तीनामेव विशेषणतया तासां च महिष्यादिव्यावृत्ततया महि. व्यादे शक्यतापत्तिविरहात, इतिवदन्ति । । ... तन्मते यद्यपि शक्तिज्ञानाधुनिकसंकेतज्ञानयोः कारणताभेदेन गौरवं न बाधक
म्- भगवद्विद्वेषिणां मीमांसकानां शक्तेः संकेतानात्मकतया तयोरेककारणतायाः धेनुपदाद् वृषभादिबोधवारण न सम्भवतीत्यनुरोधेन व्यक्तेरन्यलभ्यत्वेपि व्यक्तौ धेनुपदशक्ति स्वीक्रियते तथा च गोत्वविशिष्टव्यक्तौ धेनुपदशक्तिर्धानकर्मत्वं च शक्यभूतव्यक्तौ वर्तत इति शक्यतावच्छेदकं तत्र धानकर्मभूतमहिष्यादौ गोत्वं नास्ति गोत्वाधारभूतवृषभादौ च धानकर्मत्वं नास्तीति न धेनुपदाद् महिष्यादेर्वा वृषभादेवी बोधापत्तिरिति सर्व सुस्थमित्यर्थः ।। - अथेरयादिनाशङ्कितं प्राभाकरः परिहरति-नेति, यदि गोत्वविशिष्टव्यक्तेर्धेनुपदशक्यत्वं तदा गोस्वविशिष्टत्वाद् वृषभादेरपि धेनुपदशक्यत्वं स्यादेव यद्धर्मविशिष्ट शक्तिस्तद्धर्माश्रयस्य यावतः= सकलस्यैव शक्यत्वनियमात् तथा च धेनु पदाद् वृषभादिबोधापत्तिनिवारेति तार्किकमतें दोषः । तथास्वापत्तेः-शक्यत्वापत्तेः । प्राभाकरः स्वमते उपपत्तिमाह-धानकर्मतेति, धानकर्मताविशिष्टाया गोः शक्यत्वं तत्र गोनिष्ठधानकर्मतान्यक्तीनामेव विशेषणत्वं तासाम्-गोनिष्ठधानका मताव्यक्तीनां च गोव्यक्तिमात्रवृत्तिस्वादू महिष्यादिव्यावृत्ततया महिध्यादेर्धेनुपदशक्यतापत्तिर्नास्ति धानकर्मत्वस्य वृषभादावभावाच्च वृषभादेरपि धेनुपदशक्यतापत्तिर्नास्तीति न धेनुपदाद् वृषभादेर्वा महिण्यादेर्वा बोधापत्तिरिति सर्व सुस्थमित्यर्थः । अन्यत्र मीमांसकमते जातायेव शक्तिरस्ति धेनुपदस्य धानकर्मत्वमात्रे शक्ती धेनुपदाद् महिष्यादिबोधापत्तिः स्यादितिहेतोर्धेनुपदस्य धानकर्मताविशिष्टगोव्यक्तौ शक्तिः स्वीक्रियत इत्यवधेयम् । वदन्तीत्यस्य प्राभाकरा इति पूर्वणान्वयः ।
इत्येवं प्राभाकरमतमुपपाद्य विवेचयति- तन्मते इत्यादिना । तर्कमते यथा घटादिपदान घटाद्यर्थेषु या शक्तिः सेश्वरेच्छारूपा तथा देवदत्तादिपदानां यो देवदत्तादिपिण्डेषु संकेतः सोपी श्वरेच्छारूप एव तस्य "द्वादशेहि पिता नाम कुर्यात्' इतिश्रुत्या संग्रहादिति शक्तिज्ञानाधुनिक संकेतज्ञानयोः कारणताभेद: कारणतास्वरूपभेदो नास्ति, किं वा शक्तावीश्वरीयत्वानुपादानेने च्छामात्रं तर्कमते शक्तिरस्ति. आधुनिकसंकेतोपि कर्तुरिच्छेवति शक्तिज्ञानाधुनिकसंकेतज्ञा नयोः कारणतास्वरूपभेदाभावाद् दैविध्यं नास्ति तेन च गौरवमपि नास्ति, मीमांसकमते चेश्वराभावान्नेश्वरेच्छारूपा शक्तिः किं तु वाच्यवाचकभावसंबन्धरूपा सा च घटादिपदानामेव घटाद्यर्थेषु. देवदत्तादिपिण्डेषु देवदत्तादिपदानां चाधुनिकसंकेत एव स च न वाच्यवाचकमा रूप इति यद्यपि मीमांसकमते शक्तिज्ञानाऽऽधुनिकसंकेतज्ञानयोः कारणतास्वरूपभेदेन गौरत मस्ति- भगवद्विद्वेषिणाम् परमेश्वरानङ्गीकर्तृणां मीमांसकना मते शक्तेः संकेतानात्मकतया=इ रूपत्वाभावेन तयोः शक्तिज्ञानाधुनिकसंकेतज्ञानयोरेककारणतायाः एकरूपेण कारणतायाः का