________________
धेनुपदम् ] शक्तिवादः।
(६९) - अथ गोत्वमेव शक्यं धानकर्मत्वमेव. शक्तयुपाधिरिति वैपरीत्यमेव कुतो न स्यात् ? वस्तुतो धानकर्मत्वापेक्षया लाघवेन गोत्वस्यैव शक्यत्वमुचितम् ।
न च गोत्वमतिप्रसक्तं धानकर्मत्वं तु धानकर्मव्यक्तिभेदेन भिन्न भिन्नमिति गोनिष्ठं तदनतिप्रसक्तमिति न वैपरीत्यमिति वाच्यम्,तस्यातिप्रसक्तत्वोपं शक्यत्वों पगमे क्षतिविरहात्, वृषभादिबोधस्य शक्त्युपाधिधानकर्मत्वस्यापि प्रकारतया वारणात् ।
न च गोत्वस्यैव शक्यत्वे जातिशक्त्यैव व्यक्तिभानसंभवेनाऽन्यलभ्यतया गवादिपदवद् व्यक्तिशक्त्युच्छेदप्रसङ्ग तथा च धानकर्मत्वस्य जातिनिष्ठशक्यताव्यधिकरणत्वेन शक्यतावच्छेदकत्वानुपपत्या वृषभादिबोधो दुर्वार एवेति वाच्यम्, एतदनुरोधेनान्यलभ्यत्वेपि व्यक्तौ शक्तिस्वीकारादिति चेत् ?
तार्षिक प्रमाकरमतापेक्षया विपरीतमाशङ्कते-अथेति । अत्रापि मते महिष्यादौ गोत्वामावाद् वृषभादौ च धानकर्मत्वाभावात्तत्र धेनुपदप्रयोगापत्तिस्त्येिव । तार्किकः स्वमते लाघवनाह-- वस्तुत इति, गोत्वं सकलगोष्वेकमेव धानकर्मत्वं च स्वाधारव्यक्तिभेदेन भिन्न भिन्नमेवेत्यनतधानकर्मस्वेषु धेनुपदशक्तिप्रहे गौरवमिति लाघवेन गोत्वस्यैव धेनुपदशक्यत्वमुचितमित्यर्थः ।
ननु गोत्वं वेकमेवेति वृषभादावपि तस्य सत्त्वादतिप्रसक्तमेव धानकर्मत्वं च स्वाधारव्यक्तिभेदेन भिन्न भिन्नमेवेति गोनिष्ठं धानकर्मत्वं महिष्यादौ न संभवतीति नातिप्रसक्तमिति तस्यैव धेनुपदशक्यत्वमुचितं न गोत्वस्यातिप्रसक्तत्वादिति नोक्तवैपरीत्यं युक्तमिति मीमांसक भाशङ्कते-न चेति । विनिगमनाविरहरेण तार्किकः परिहरति- तस्येति, तस्य-गोत्वस्य । शक्यत्वोपगमेधेनुपदशक्यत्वोपगमे । क्षतीति-गोत्वस्य शक्यत्वे धेनुपदाद् वृषभादिबोधापत्तिरेव क्षतिरस्ति सा च नास्त्येव- धानकर्मत्वस्य शक्तयुपाधित्वस्वीकाराद् वृषभादौ च धानकर्मत्वस्याभावान्न धेनुपदाद् वृषभादिवोधापत्तिरित्यर्थः । स्वयमपि विशदयति--वृषभादीति, शक्त्युराविधानकर्मत्वस्यापि प्रकारतया प्रकारतास्वीकारेण धेनुपदाद् वृषभादिबोधस्य वारणादित्यन्वयः । .. - तार्किकेण "गोत्वमेव शक्यम्" इति यदुक्तं तदाश्रित्य मीमांसक आशङ्कते-- न चेति, यदि गोत्वमेव धेनुपदशक्यं तदा यथा गवादिपदानां जातिशक्त्यैव व्यक्तिभानं सम्भवति-व्यक्ति विना जातेरनुपपत्तेरानयनादियोग्यतायाश्च जातावऽभावादन्यलभ्यतया व्यक्तेराक्षेपादिलभ्यतया व्यक्ती गवादिपदानां शक्तिर्नास्ति तथा धेनुपदस्यापि व्यक्तौ शक्तिर्न स्यात् तथा च धेनुपदशक्यत्व जातौ धानकर्मत्वं च व्यक्ताविति धानकर्मत्वस्य जातिनिष्ठशक्यताव्यधिकरणत्वेन शक्यतावच्छेदसत्वं न स्यात् तथा च गोत्वस्य वृषभादावपि सत्त्वेन गोत्ववाचकधेनुपदाद् वृषभादिबोधः स्यादेव, यदि धानकर्मत्वं शक्यतावच्छेदकं स्यात्तदा तेन धेनुपदाद् वृषभादिबोधवारणं स्यादपि न चैव सम्भवतीत्यर्थः । तार्किकः परिहरति-एतदिति, एतदनुरोधेन केवलगोत्वस्य शक्यत्वे