________________
(६८)
सादर्शः
[ विशेषकाण्डेगोत्वभानमङ्गीकरणीयं तथा च धानकर्मत्ववदू गोत्वेपि शक्तेरावश्यकता अशक्यस्यापि शाब्दबोधे भानोपगमे द्रव्यत्वप्रमेयत्वादेरपि प्रकारतया शाब्दबुद्धौ भानापत्तिरिति वाच्यम्, शाब्दबोधेशक्यस्य गोत्वादेः प्रकारतया भाने शक्यतावच्छेदकत्वस्य नियामकत्वात, गोत्वस्य चाशक्यत्वेपि शक्यतायामवच्छेदकतात्मकसंबन्धविशेषोपगमाद् द्रव्यत्वादेश्वाऽतथात्वेनाऽतिप्रसङ्गविरहात् ।
न च गोत्वस्य वृषभादिसाधारणस्यातिप्रसक्ततया शक्तौ नावच्छेदकत्वसंभव इति वाच्यम्, अवच्छेदकत्वस्य प्रकृतेऽनतिप्रसक्तत्वानियतत्वात, नियतत्वे वा धानकर्मत्वसहितस्यैव तस्यावच्छेदकत्वोपगमात् ।
यदि च केवळधानकमत्वे एव धेनुपदशक्तिः स्यात्तदा धेनुपदाद् गोत्वप्रकारकबोधो न स्यात्तथा धान कर्ममहिष्यादिमति देशे 'धेनुर्नास्ति' इति प्रयोगोपि मुख्यो न स्यादेव-तत्र धानकर्मतारिशिष्ट महिण्यादिव्यक्तेः सत्त्वादेव न चैवमस्तीत्यर्थः । ननु धेनुपदाशक्यस्यापि गोत्वस्य धेनुपदजन्यबो भवतु भानमित्याशङ्याह-अशक्यस्यापीति । अशक्यत्वाविशेषादितिशेषः। परिहारहेतुमाह-शाब्द बोध इति । शक्यतावच्छेदकस्य त्वशक्यस्यापि तत्पद जन्यशाब्दबोधे प्रकारतया भानं स्वीवि यते अस्ति च गोवे धेनुपदशक्यतावच्छेदकत्वम्="धेनुपदाद् धानकर्मता विशिष्टागौर्बोद्धव्या' इन्टे संकेतस्वीकारात् । द्रव्यत्वादेश्चाऽतथात्वेन धेनुपदशक्यतानवच्छेदकत्वेनाऽतिप्रसङ्गविरहातू-धेनुप दजन्यबोधे द्रव्यत्वादेः प्रकारतया भानातिप्रसङ्गविरहादित्यर्थः । यथा दण्डत्वस्याकारणत्याम वेषि कारणतावच्छेदकत्वं तथात्र गोत्वस्य शक्यत्वाभावेपि शक्यतावच्छेदका विज्ञेयम् द्रव्यत्वादिकं चातिप्रसक्त वाच्छक्यतावच्छेदकं न भवतीति ध्येयम् ।
ननु यदि गोत्वं धानकर्मतातिप्रसक्तं न स्यात्तदा स्यादपि शक्यतावच्छेदकं न चैवर्मा धानकर्मस्वाभाववति वृषभादावपि गोत्वस्य सत्वेनातिप्रसक्तत्वाद् धेनुपदशक्त्यवच्छेदवावं संभवति-अनतिप्रसक्तधर्मस्यैवाबच्छेदकत्वस्वीकारादित्याशङ्कयाह-न चेति । गोव्यक्तौ निरूपकार संबन्धेन शक्तिरप्यस्ति गोत्वमप्यस्तीत्यभिप्रेत्य शक्त्यवच्छेदकत्वमाशङ्कितम् । परिहारमाह अबच्छेदकत्वस्येति, अनतिप्रसक्तस्यैव धर्मस्यावच्छेदकत्वं भवतीतिनियमः प्रकृते नास्तीत्यतिप्रसत्त स्थापि गोत्वस्य शक्यतावच्छेदकल्वं युक्तमेव । ननु यद्यतिप्रसक्तस्यापि गोस्वस्य शक्यतावच्छेदका . तदा द्रव्यत्वादेरपि धेनुपदशक्यतावच्छेदकत्वं स्यात् तेन च धेनुदजन्यबोधे प्रकारतया भाद मपि स्यादित्याशङ्क्याह--नियतत्वे चेति, अनतिप्रसक्तस्यैव धर्मस्यावच्छेदकल्यं भवतीति नि धानकर्मत्वसहितस्य धानकर्मत्वसमानाधिकरणस्यैव तस्य गोत्वस्य शक्यतावच्छेदकत्वं स्वी यते तथा च केवलगोत्वस्य वृषभादौ सत्वेनातिप्रसक्तत्वेपि धानकर्मतासहितस्य तु गोल धानकर्मगोमात्रवृत्तित्वेनातिप्रसक्तत्वं नास्त्येवेति युक्तं तस्य शक्यतावच्छेदकत्वमित्यर्थः ।