________________
धनुपदम् ]
शक्तिवादः। गाहिशक्तिज्ञानस्य कारणत्वमुपगन्तव्यम् । शक्यतावच्छेदके शक्यत्वानभ्युपगन्तृमते तादृशबोधे तद्रूपांशे संकेतविशेष्यतावच्छेदकतापर्याप्त्यवगाहिज्ञानत्वेन हेतुत्वानोक्तातिप्रसङ्ग इतितक्तानुपपत्त्या हेयम् । .
प्राभाकरास्तु धेनुपदस्य धानकर्मताविशिष्ट एव शक्तिर्न तु गोत्वविशिष्टे, गोत्वस्य शक्त्युपाधित्वेन शक्तिनियन्त्रकत्वाद् धानकर्मत्वस्य महिष्यादिसाधारणत्वेपि न धेनुपदात् तद्बोधः । .. न च धेनुपदाद् गोत्वप्रकारकबोधस्यानुभविकतया धानकर्ममहिष्यादिमति देशे 'धेनुर्नास्ति ' इति विशेषदर्शिनां प्रयोगस्य मुख्यतया च धेनुपदजन्यबोधे
— दीधितिकारमतमालोचयति-- शक्यतावच्छेदके इति, किं वा ननु शुद्धतद्धर्मप्रकारकबोधे संकेतविशेष्यतावच्छेदकतापर्यायवगाहिज्ञानत्वेन शक्तिज्ञानस्य हेतुत्वेपि स्वर्गादिपदादेकधर्मप्रकाएकबोधस्य शक्त्यापत्तिर्नास्तीति किमर्थं तदितरधर्मावच्छिन्नत्यानवच्छिन्नप्रकारतात्वेन प्रकारतावंटितसंबन्धावगाहिशक्तिज्ञानस्य कारणत्वमभ्युपगम्यते इत्याशङ्ख्याह- शक्यतावच्छेदके इति, तादृशोधे-शुद्धतमप्रकारकबोधे तद्रूपांशे प्रकारीभूतधर्मे घटत्वगोत्वादौ, बटादिपदस्थले वटादौ या संकेतविशेष्यता तादृशविशेष्यताया या घटत्वादावऽवच्छेदकता तादृशावच्छेदकसाया बटत्वादौ पर्याप्तिरस्ति- घटत्वमात्रस्य तादृशविशेष्यतावच्छेकात्वादिति तादृशपर्यात्यवगाहिसक्तिज्ञानेनैकधर्मप्रकारको बोधः संभवति, स्वर्गादिपदशक्तिज्ञानं तु नैकस्मिन् धर्मे संकेतविशेष्यभावच्छेदकतापर्याप्तिमवगाहते किं तु दुःखासंभिन्नत्वसुखत्वैतदुभयपर्याप्तामेव संकेतविशेष्यतावछैदकतामवगाहते इति स्वर्गादिपदाच्छत्तया नैकधर्मप्रकारताकबोधस्यापत्तिरित्यर्थः । उक्तातिसङ्गः स्वर्गादिपदादेकधर्मप्रकारबोधातिप्रसङ्गः । अस्मिन् मते दोपमाह- उक्तेति, उक्तानुपत्या= गुणवत्त्वेन द्रव्यं द्रव्यपदा बोद्धव्यम् ' इत्याकारकाधुनिकसंकेतेनेष्टो: गुगवत्त्वप्रकारकधो न स्याद् द्रव्यत्वप्रकारक एवं स्यात्- द्रव्यत्वस्यैव द्रव्यपदसंकेतविशेष्यतावच्छेदकत्वात्यर्थः । सर्व चैतत्पूर्वमेव प्रतिपादितम् ।
धेनुपदे प्राभाकरमतमाह–प्राभाकरा इति । “न तु गोत्वविशिष्ट" इत्यत्र “ न तु गोत्वमपि शिवगम्" इत्यपि पाठः, अर्थस्तु स एव । ननु यदि धेनुपदस्य धानकर्मनाविशिष्ट शक्तिस्तर
पदाद् महिण्यादिबोधः किं न स्यात-महिष्यादीनामपि धानकर्मत्वादित्याशङ्क्याह-गोवति, धेनुपदस्थले गोत्वस्य शक्त्युपाधित्वेन शक्तिनियामकत्वं स्वीक्रियते महिध्यादौ च धानमित्वस्य सत्त्वेपि गोत्वस्याभावान्न धेनुपदात तबोधः-महिष्यादिबोध इत्यर्थः ।
न चेति-धेनुपदाद् गोत्वप्रकारको बोधोपि भवति धानकर्ममहिष्यादिमति देशे च 'धेनुर्नास्ति' विशेषदर्शिनां विदुषां मुख्यतया प्रयोगोपि भवतीति धेनुपदजन्यबोधे गोत्वस्य भानमङ्गीकरणीय मा च=नुपद जन्मबोधे गोत्वभाने स्वीकृते च धानकर्मत्वे इव गोत्वेपि धेनुपदशक्तिः स्वीकार्या