________________
(६६)
सादर्श:
[विशेषकाण्टे एवं यत्र दुःखासंभिन्नसुखत्वधानकर्मगोत्वादिविशिष्टवाचकं स्वर्गधेन्वादिपद , केवलसुखत्वगोत्वाद्यवच्छिन्नतात्पर्येण प्रयुज्यते तत्र लक्षणैव । शत्तथा प्रवृत्ति निमित्तैकदेशं परित्यज्य न बोध इत्यनुभवनिर्वाहाय शुद्धतद्धर्मप्रकारबोधे तदन्यरूपावच्छिन्नत्वानवच्छिन्नबोधविषयत्वीयप्रकारतात्वेन प्रकारताघटितसंबन्धाव: हात् असंभवात् , तत्पदेन तत्पदयाच्यधर्मप्रकारकस्यैव बोधस्य शतया संभवादित्यर्थः । द्रव्यपदस्य तर्कशास्त्रे क्षित्यादिनवद्रव्येषु शक्ति: लोके च द्रव्यपदं सुवर्णादिधनवोधनार्थं प्रयुज्यते तत्र यद्यपि सुवर्णादिकं द्रव्यमेव तथापि द्रव्यपदं सामान्यतः क्षित्यादिनवद्रव्यवाचकमेवेति सुवर्णादौ लक्षणा । एवं गोपदं सामान्यतो गोत्वावछिन्नवाचकमिति हलवहनयोग्यगोविशेष तस्य लक्षणैवेति सारः ।
यथा सामान्यवाचकशब्दानां विशेषधर्मावच्छिन्ने लक्षणा तथा विशेषवाचकशब्दानामपि सामान्यरूपार्थे लक्षणैयेत्याह- एवमिति, स्वर्गपदं दुःवासंभिन्नसुखत्वविशिष्टस्य-दुःखामिश्रित(दुःखर हत) सुखत्वविशिष्टस्य वाचकं तदुक्तम्- " यन्न दुःखेन संभिन्नम् " इति, धीयत पीयते वत्सेनेति धेनुः ' इतिव्युत्पत्त्या धेनुपदं धानकर्मगोत्वविशिष्टस्य दुग्धप्रदगोर्वाचकमस्ति तथा च यत्र स्वर्गपदं सामान्यतः किं वा केवलसुखत्वाचच्छिन्नतात्पर्येण प्रयुज्यते तत्र स्वर्गपदस्य तार शसुखे लक्षणैव, यत्र च धेनुपदं केवलगोत्वावच्छिन्नतात्पर्येण प्रयुज्यते तत्र धेनुपदस्य केवलगोत्वावच्छिन्ने लक्षणैवेत्यन्वयः । ननु विशेषवाचकस्वर्गादिपदेन सामान्यसुखादेः शक्त्यैव बोधः किं न स्यादि त्याशङ्ख्य कार्यकारणभावमाह-शक्तयेति,स्वर्गपदस्य दुःखासंभिन्नसुखत्वं प्रवृत्तिनिमित्तं दुःखासंभिन्न त्वं च प्रवृत्तिनिमित्तैकदेशं धेनुपदस्थ धानकर्मगोत्वं धानकर्मत्यसमानाधिकरणगोत्वं वा प्रवृत्तिनिमित धानकर्मत्वं च प्रवृत्तिनिमित्तैकदेशं तादृशप्रवृत्तिनिमित्तैकदेशं परित्यज्य शक्त्या बोधो न भवतीत्या नुभवनिर्वाहाय शुद्धतद्धर्मप्रकारकबोधे-तद्धर्मपर्याप्तधर्मितावच्छेदकताकशाब्दबोधे एकमात्रधर्मप्रका रकशाब्दबोध प्रति तदन्यरूपावच्छिन्नत्वानवच्छिन्नबोधविषयत्वीयप्रकारतात्वे व तद्धर्मान्यधर्माबच्छिन्नत्वानवच्छिन्ना या तत्पदजन्यबोधविषयत्वनिष्टा प्रकारता तादृशप्रकारतात्वेन रूपेण प्रकारता घटितो यो विशेष्यतात्मकः संबन्धस्तादशसंबन्धावगाहिशक्तिज्ञानस्य नाम तद्धर्मावच्छिन्नत्वावच्छिन् । तदितरधर्मावच्छिन्नत्यानवच्छिन्ना या तत्पदजन्यबोधविषयतानिष्ठा प्रकारता तादृशप्रकारतानिरूपि तभगवत्संकेतीयविशेष्यतासंसर्गकं तत्पदप्रकारकं तद्धर्मावच्छिन्नविशेष्यताकं यच्छक्तिज्ञान तसा कारणत्वं स्वीकार्य तच्च शक्तिज्ञानम् ' उक्तविशेष्यतासंबन्धेन घटपदविशिष्टो घट: ' इत्याद्याका रकं विज्ञेयं एतादृशशक्तिज्ञाने तत्पदजन्यबोधविषयत्वनिष्ठप्रकारताया एकधर्मावच्छिन्नत्वावच्छिन त्वेन विषयत्वाद् घटादिपदात् तादृशैकधर्मप्रकारको बोधः संभवति, स्वर्गादिपदजन्यबोधवि षयतानिष्ठा प्रकारता तु यथा सुखत्वावच्छिन्नत्वावच्छिन्नास्ति तथा दुःखासंभिन्नत्वावच्छिन्नत्वाव, च्छिन्नाप्यस्तीति न स्वर्गादिपदात् शारा केवलसुखत्वावच्छिन्नविषयको बोधः संभवति किं तु दुःखासंमिन्नसुखत्वावच्छिन्नविषयक एव, एवमेव धेनुपदस्थलेपि विज्ञेयम् ।