________________
काण्डम् ]
शक्तिवादः। मात्रावगाहितत्पदवाच्यतामहस्य हेतुत्वपि तद्धेतुतायां वाच्यतांशे विशेषणानन्तर्भावित्वावगाहित्वमप्यवच्छेदकमुपेयम्. अतोऽवाच्यधर्मप्रकारकबोधहेतुगवादिपदशक्तिग्रहस्य भ्रमत्वनियमः अतो नाऽभ्रान्तपुरुषस्य ततस्तादृशबोध इति ध्येयम् ।। ___ एवं यत्र सुवर्णहलवहनयोग्यगवादिरूपविशेषपरं सामान्यवाचकपदघटितम् 'द्रव्यं नास्ति । 'गौर्नास्ति' इत्यादिकं वाक्यं प्रयुज्यते तत्र विशेषधर्मावच्छिन्ने लक्षणैव-विशेषधर्मस्य सामान्यशब्दावाच्यतया शक्तया तदूपप्रकारकबोधाऽनिर्वाहात्। पवादिपदं विशिष्टवाचकमिति प्रमात्मकज्ञाने सति तु 'गोपदं गोत्वावच्छिन्नवाचकम्' इति भगवत्संकेते गोर्गोत्वविशिष्टत्वेन भानाद् गोत्वप्रकारक एव गोपदाद् बोधः सम्भवति न तु गोपदवाध्यत्वाधवाच्यधर्मप्रकारक इत्यवधेयम् । ननु गोपदजन्यबोधीयविषयतायां गोपदवाच्यत्वाद्यवाच्यधर्मसामानाधिकरण्यं तु यथार्थमेवेत्यऽभ्रान्तस्यापि गोपदाद् गोपदनाच्यत्वाद्यवाच्यधर्मप्रकारको बोधः किं न स्या दत्याशङ्क्याह- तद्धेतुतायामिति, उक्तशक्तिज्ञानेऽवाच्यधर्मप्रकारकबोधहेतुताप्यस्ति विशेपणानन्त वित्व वगाहित्वमप्यस्तीति विशेषणानन्त वित्वावगाहित्वं तादृशहेतुतावच्छेदकं जातम् । वाच्यतांशे गवादिपइजन्यबोधविषयत्वनिष्ठप्रकारतायां तद्धर्मावच्छिन्नत्वावच्छिन्नत्वं यद् विशेषणमुक्तं तादृशविशेषणानन्त वित्वावगाहित्वम्-तादृशविशेषणाभावावमाहित्यमिति यावत्, अर्थादुक्तशक्तिज्ञाने गोपदजन्यबोधविषयतानिष्ठप्रकारतायां गोत्वावच्छिन्नत्वावच्छिन्नत्वस्यावगाहित्वं नास्ति किं तु तदभावावगाहित्वमेव स्वीक्रियते तथा च गोपदजन्यबोधविषयतानिष्टप्रकारतायां गोलावच्छिन्नत्वावच्छिन्नत्वस्य सत्त्वेपि तदभावावगाहित्वाद् उक्तस्यावाच्यधर्मप्रकारकबोधहेतुभूतगवादिपदशक्तिहस्य भ्रमत्वं प्राप्तम्, एतादृशभ्रमात्मकशक्तिज्ञानं च प्रान्तस्यैव सम्भवति नाऽ. प्रान्तस्य तस्य तु यत्प्रमात्मकं गोपदजन्यबोधविषयतानिष्ठप्रकारतायां गोत्वावच्छिन्नत्वावच्छिन्नत्वावाहि शक्तिज्ञानं तदेव सम्भवति तादृशशक्तिज्ञानाच गोत्वादिवाच्यधर्मप्रकारक एव बोधः संभबति नाऽत्राच्यधर्मप्रकारकोपि-तत्पदजन्यबोधविषयतानिष्टप्रकारता यद्धर्मावच्छिन्नत्वावच्छिन्ना भवति तद्धर्मप्रकारकस्यैव बोधस्य स्वीकारादिति नाऽभ्रान्तपुरुषस्य तत: गवादिपदात् तादृशबोध:अवाच्यधर्मप्रकारको बोध इत्यर्थः । एवमेव गगनादिपदं द्रष्टव्यम् । इत्याकाशपदम् ॥
सामान्यवाचकशब्दानां विशेषधर्मावच्छिने लक्षणैवेत्याह- एवमिति, ' द्रव्यं नास्ति ' इत्याकारकं सामान्यवाचकद्रव्यपदघटित वाक्यं यत्र सुवर्णरूपविशेषपरम्-सुवर्णरूपविशेषार्थबोधनाय प्रयुज्यते तत्र द्रव्यादिपदस्य विशेषधर्मावच्छिन्ने सुवर्णत्वावच्छिन्ने- सुवर्णे लक्षणैव, एवम 'गौर्नास्ति । इत्याकारकं सामान्यवाचकगोपदघटितं वाक्यं यत्र हलवहनयोग्यगोरूपविशेषार्थ. बोधनाय प्रयुज्यते तत्र गवादिपदस्थ विशेषधर्मावच्छिन्ने हलवहनयोग्यगोरूपार्थे रक्षणैव विज्ञयेत्यन्त्रयः । उक्ते हेतुमाह- विशेषेति, सुवर्णत्वादिविशेवधर्मस्य सामान्यवाचकद्रव्यादिशब्दाऽवाच्यतया शतया तद्रूपप्रकारकस्य-सुवर्णवादिविशेषधर्मप्रकारकाय बोधस्य द्रव्यादिपदादऽनि