________________
( ६४ )
सादर्श:
[ विशेष
sattaत्या स्वीकार्यम् । विशिष्टवाचकगवादिपदस्य च प्रकारांशे वाच्यत्वावगाहि शक्तिर्ज्ञानमेव तद्धर्ममकार कशाब्दबोधहेतुरिति न शक्तिभ्रमलक्षणाग्रहमन्तरेण गवादिपदाद गोपदवाच्यत्वाद्यश्वाच्यधर्मप्रकारको बोधः ।
आकाशादिपदमिव गवादिपदमपि विशिष्टावाचकमितिभ्रमवतो गवादिपदाःवाच्यधर्मप्रकारको निर्वाहाय तद्धर्मप्रकार कशाब्दबोधे तद्धर्मसामानाधिकरण्यबोध आकाशपद लक्षणयैव स्यादिति वाक्यस्य मुख्यत्वं न स्यादिति भावः तथा च तद्धर्मप्रकारकशाब्दबोधे धर्मसामान्यावच्छिन्नत्वानवच्छिन्ना या बोधविषयत्वनिष्ठा प्रकारता तादृशप्रका रतानिरूपितविशेष्यता संसर्गकं पदप्रकारकं तद्धर्मावच्छिन्नविशेष्यताकं विशिष्टावाचकाकाशादिपदस्य शक्तिज्ञानं कारणमितिप्राप्तम्, कस्यापि धर्मस्याकाशपदवाच्यत्वं नास्तीति स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसम्बन्धेन कस्यापि धर्मस्याकाशपदजन्यबोधविषयतायामन्त्रयाभावात् तादृशविबयतानिष्ठा प्रकारता धर्मसामान्यावच्छिन्नत्वानवच्छिन्ना जाता, तच शक्तिज्ञानम् -'धर्मसामान्यावच्छिन्नत्वानवच्छिन्ना याऽऽकाशपदजन्यबोधविषयत्वनिष्ठा प्रकारता तादृशप्रकारता निरूपितभगवत्संकेतीयविशेष्यतासम्बन्धेनाकाशपद विशिष्टमाकाशम्' इत्याकारकम् । विशिष्टवाचकगवादिपदशक्तिज्ञानस्य व्यतिरेकमाह- विशिष्टवाचकेति सर्वं चैतत्पूर्वं प्रतिपादितम् । गवादौ गोरेविशेषणत्वमेवेति गवादिपदं विशिष्टवाचकं गोत्वादिकं गवादिपदवाच्यमेवेति तादृशवाच्यताबमा - हिन एव गवादिपदशक्तिज्ञानस्य गवादिबोधहोतुत्वम् । तद्धर्मावच्छिन्नत्वावच्छिन्ना या तत्पदजन्यtraffष्ठा प्रकारता तादृशप्रकारतानिरूपित भगवत्संके तीयविशेष्यतासंसर्गकं तत्पदप्रकारकं शक्तिज्ञानं कारणमिति यावत् । तथा च शक्तिभ्रमं विना लक्षणाग्रहं विना वा गवादिपदाऽवाच्यो यो गादिपदवाच्यत्वादिरूपो धर्मस्तत्प्रकारको बोधो गवादिपदान्न जायते शक्तिभ्रमेण लक्षणाग्रहेण तादृशोध इष्ट एव, गवादिपदादभ्रान्तस्य शक्त्या तत्पदवाच्यगोत्वादिधर्मप्रकारकस्यैव बोधस्येष्टत्वादित्यर्थः ।
,
यस्य पुरुषस्य 'आकाशादिपदमिव गवादिपदमपि विशिष्टावाचकम् ( उपलक्षितवाचकम् ) इति भ्रमो भवति तस्य गवादिपदाद् गोपदवाच्यत्वाद्यड्याच्यधर्मप्रकारको बोधो भवतीति तादृशबोधोपपत्तिमुपपादयति-आकाशादिपदमिवेति तद्धर्मप्रकार कशाब्दबोचे गोपदवाच्यस्थावाच्यधर्मप्रकार कशाब्दबोधं प्रति, गोपदवाच्यत्वमपि गोव्यक्तावस्ति गोपदजन्यबोधविषपता-व्यस्तीति तयोः सामानाधिकरण्यं प्राप्तमिति गोपदजन्यबोधविषयतायां यद् गोपदवाच्यत्वाद्यवाच्यधर्मसामानाधिकरण्यं तन्मात्रावगाहि यत् तत्पदवाच्यताग्रहः = गोपदशक्तिज्ञानं तस्यैव हेतुत्वं वक्तव्यं तथा च गोपदवाच्यत्वाद्यवाच्यधर्मेपि गोपदजन्यबोधविपयता सामानाधिकरण्यमस्त्येवेति तादृशम्रान्तपुरुषस्य गोपदवाच्यत्वाद्यवाच्यधर्मप्रकारकदोधो गधादिपदात् सम्भवत्येवेत्यर्थः तथा च ' अवाच्यधर्मप्रकार कशाब्दबोधं प्रति तादृशधर्मसमानाधिकरणबोधविषयत्वनिष्ठप्रकारता निरूपित विशेष्यतासम्बन्धेन पदप्रकारकं तद्धर्मावच्छिन्नविशेष्यताकं शक्तिज्ञान कारणम् ।
2