________________
काण्डम् ]
शक्तिवादः ।
7
तन्न -' आकाशः शब्दाश्रयः' इतिसहप्रयोगस्य मुख्यत्वाऽसिद्धयाऽष्टद्रव्यातिरिक्तद्रव्यत्वाकाशपदवाच्यत्वाद्येकतररूपेण लक्षणाया एव तत्रोपगमादिति । यदि च ' आकाशः शब्दाश्रयः । इत्यादिवाक्यस्थमाकाशपदं मुख्यमेव निर्धर्मितावच्छेदककश्चान्वयबोधो न कुत्रापि ? तदाऽऽकाशादिपदादऽष्टद्रव्यातिरिक्तद्रव्यत्वादिना बोधनिर्वाहाय विशिष्टाऽवाचकाऽकाशादिपदस्य प्रकारांशे वाच्यत्वानवगाहिशक्तिग्रहस्यैव (अपि) तद्धर्मावच्छिन्नविशेष्यकतद्धर्मप्रकारकान्व मेयत्वादौ त्वनतिप्रसक्ता शक्यतावच्छेदकतैव नास्ति तेषां घटादावपि सत्त्वादिति नाकाशपदजन्यवो प्रमेयत्वादीनां प्रकारतया भानापत्तिरित्यर्थः ।
उक्तं परिहरति-तन्नेति, 'आकाशः शब्दाश्रयः' इतिप्रयोगस्य प्रमाणाभावाद् मुख्यत्वमेत्र सद्धं नास्ति येन तादृश मुख्यत्वस्योपपत्त्यर्थं प्राचीनमतस्योक्तस्य साधुत्वं स्वीकार्यत्वं च स्यात्, नद्या च तत्र=‘आकाशःशब्दाश्रयः' इतिप्रयोगे आकाशपदस्याकाशे अष्टद्रव्यातिरिक्तद्रव्यत्वेन वाऽऽकाशपदवाच्यत्वेन वा रूपेण लक्षणेयास्तीति स्वीकार्यं तत्राकाशपदेनोक्तान्यतररूपेण लक्षणयाकाशोस्थित जातायां शब्दाश्रयपदेन च शक्त्या शब्दाश्रयत्वरूपेणोपस्थितौ जातायामभेदान्त्रयः संभवव्येब, शक्तिहत्वाकाशपदस्य शब्दाश्रयत्वविशिष्टे एवाकाशे इति शक्तयाऽऽकाशपदाच्छब्दाश्रयत्वेनेवकाशबोधः संभवति शब्दाश्रयत्वस्य चाकाशपदवाच्यत्वं सिद्धमिति न काचिदनुपपत्तिरित्यर्थः । 'आकाशः शब्दाश्रयः' इति प्रयोगस्य मुख्यत्वोपपादनप्रकारमपि पक्षान्तरेणाह - यदि चेति, मुख्यम् = शक्त्याऽर्थप्रतिपादकम् । निर्धर्मितावच्छेदककः - यस्मिन् शाब्दबोधे धर्मिताच्छेदकतया कस्यापि धर्मस्य मानं न स्यात् स निर्मितावच्छेदकक एतादृशशाब्दबोधः कचिदपि नेष्टः कस्यापि 'धर्मस्य धार्मैतावच्छेदकतयाऽवश्यं भानादित्यर्थः । तदेति- 'आकाशः शब्दाश्रयः' इतिप्रयोगस्याकाशपदेनाकाशस्याष्टद्रव्यातिरिक्तद्रव्यत्यादिरूपेण शक्त्यैव बोधसंभवे मुख्यत्वं सम्भवति - शक्त्यार्थप्रतिपादने एव मुख्यत्वस्वीकारादिति तादृशबोध निर्वाहायाऽऽकाशपदस्य विशिष्टावाचकत्वमभ्युपगन्तव्यम्, अर्थादाकाशे कस्यापि धर्मस्य विशेषणत्वं न स्वीकार्य किं तूपलक्षणत्वमेत्र तथा च शब्दाश्रयत्वारलक्षिते एवाकाशे आकाशपदस्य शक्तिरित्युपलक्षणत्वाविशेषादष्टद्रव्यातिरिक्तद्रव्यत्वादिनाप्याकाशस्य शक्त्या बोधः सम्भवतीति 'आकाश : शब्दाश्रयः' इतिप्रयोगस्य मुख्यत्वमुपपन्नम् - शक्तयैवाकाशपदादाकाशस्याष्टद्रव्यातिरिक्तद्रव्यत्वादिना रूपेण बोवस्त्रीकारात्, आकाशपदस्य विशिष्टवाचकत्वे तु शब्दाश्रयत्वविशिष्टे शक्त्या शब्दाश्रयत्वरूपेणैव शक्त्या बोधः स्यादष्टद्रव्यातिरिक्तद्रव्यत्वादिना च बोधो लक्षणयैव स्यादित्युक्तवाक्यस्य मुख्यत्वं न स्यात् शब्दाश्रयत्वरूपेण च बोधे 'घटो घट:' इतिवाक्यतुल्यत्वं स्यादिति । अत्र शक्तिज्ञानस्वरूपमाह - विशिष्टेति विशिष्टावाचकाकाशादिपदस्य तद्धर्मावच्छिन्न विशेष्यकतद्धर्मप्रकारकशाब्दबोधं प्रति प्रकारांशे प्रकारतया भासमा. नधर्माशे वाच्यत्वानवगाहि यच्छक्तिज्ञानं तस्यैव हेतुत्वमगत्या स्वीकार्य नाम शक्तिज्ञानेन प्रकारीभू- तधर्मस्य वाच्यत्वावगाहनं न कर्तव्यं तथा सति यादृशधर्मे वाच्यत्वावगाहनं स्यात् शक्त्या तादृशधमैप्रकारक एव बोध: स्यादिति शब्दाश्रयत्वस्य वाच्यत्वे प्राप्तेष्टद्रव्यातिरिक्तद्रव्यत्वादिप्रकारको
:
.
"
( ६३ )