________________
(६२) सादर्श:
[विशेषमुख्यतानुपपत्तिः । प्रत्येक नानाधर्मविशिष्टे एवाकाशे तत्पदस्य नानाशक्तिकल्पनं तु न संभवति-नानाधर्मावच्छिन्ने एकर्मिण्येकपदवाच्यताया काप्यऽदृष्टस्वादिति शब्दाश्रयत्वोपलक्षिते एवाकाशपदशक्तिरितिप्राचीनमतमेव साधु, उपल. क्षणस्यापि विशिष्टाऽवाचकपदजन्यशाब्दबोधप्रकारत्वे न किंचिद् बाधकम् ।
न च शब्दाश्रयत्वस्योपलक्षणत्वे तस्येवाविशेषात् प्रमेयत्वादेरप्याकाशपदजन्याऽनुभवप्रकारतापत्तिरिति वाच्यम्, तत्प्रकारकशाब्दबोधे तदंशेऽनतिप्रसक्तत्वरूपशक्यतावच्छेदकत्वावगाहित्वेनोपलक्षिते शक्तिज्ञानस्य हेतुत्वादिति ।
स्वादिनानाधर्मविशिष्ट तत्पदस्य आकाशपदस्थ नानाशक्तिकल्पनं कर्तव्यं येनैकशक्त्या क्वचिच्छब्दाश्रयत्वेन कचिदपरशक्त्या चाष्टद्रव्यातिरिक्तद्रव्यत्वेनाकाशबोधः स्यात्, न चैतदपि युक्तम्नानाधर्मावच्छिन्ने एकधर्मिण्येकपदवाच्यताया नाम नानाधर्मविशिष्ट एकपदस्य नानाशक्तीनां कचिदप्रयदर्शनात नानाशक्तिकल्पनाऽभावे उक्तसहप्रयोगस्य मुख्यतानुपपत्तिरित्युभयतः पाशारज्जुरितिहेतोः प्राचीनमतमेध साधु नाम विनिगमनाविरहेणाकाशे कस्यापि धर्मस्य विशेषणत्वासंभवादुपलक्षणत्वमेव स्वीक्रियते इति शब्दाश्रयत्वोपलक्षिते एवाकाशे आकाशपदाक्तिरस्तीति प्राचीनमतमेव साधु तथा चोपलक्षणत्वाविशेषात् कचिच्छब्दाश्रयत्वेन कचिदष्टद्रव्यातिरिक्तत्वेन चाकाशपदाच्छक्तयैवाकाशबोधः संभवतीति 'आकाशः शब्दाश्रयः । इत्यत्राकाशपदेन शक्तयाऽष्टद्रव्यातिरिक्तद्रव्यत्वेन शब्दाश्रयपदेन च शक्तया शब्दाश्रयत्वेनाकाशोपस्थितौ जातायामभेदान्वयः संभवतीति नोक्तसहप्रयोगस्य मुख्यत्वानुपपत्तिः-शक्त्यार्थप्रतिपादने मुख्यत्वबाधाभावादित्यर्थः । ननूपलक्षणस्य तु प्रकारतया भानं कचिदपि न दृष्टमिति शब्दाश्रयत्वादीनामुपलक्षणत्वे तेषां बोधे प्रकारतया भानं कथं स्यादित्याशङ्कयाह-उपलक्षणस्येति, द्विविधं पदं भवतिविशिष्टवाचकं विशिष्टावाचकं च तत्र विशिष्टवाचकं गवादिपदं गोत्वादिविशिष्टव्यक्तिवाचकत्वाद गवादी गोत्वादेविशेषणत्वस्वीकाराद्, विशिष्टावाचकं चाकाशादिपदं शब्दाश्रयत्वाद्युपलक्षितवाचकत्वादाकाशे कस्यापि धर्मस्य विशेषणत्वाभावात् तत्र विशिष्टवाचकपदजन्यबोधे तूपलक्षणस्य प्रकारत्वं न संभवति विशेषणीभूतधर्मस्थैव प्रकारवाधिकारित्वाद् विशिष्टावाचकपदजन्यवोधे तूपलक्षणस्यैवागत्या प्रकारत्वं भवति कस्यचिद्विशेषगत्वाभावाद् निष्प्रकारकशाब्दबोधासंभवाचेत्यर्थः।
ननूपलक्षणीभूतस्यापि शब्दाश्रयत्वस्याकाशपदजन्यबोधे प्रकारतया भाने उपलक्षणत्वाविशेपात् प्रमेयत्वादेरपि तत्र प्रकारतया भानं स्यादित्याशझ्याह-ज चेति । परिहारहेतुमाह-तत्प्रकारके ति, तदंश प्रकारतया भासमानधर्मे । उपलक्षितविषयकं शक्तिज्ञानं यं धर्ममनतिप्रसक्तरूपशक्यतारच्छेदकत्वेनावगाहते तस्यैव धर्मस्य तत्पदजन्यबोधे प्रकारतया भानं भवति नान्यस्य तथा चाकाशपदशक्तिज्ञानेन शब्दाश्रयत्वादीनामेवाऽनतिप्रसक्तशक्यतावच्छेदकत्वेनावगाहनात्तेषामेव प्रकारतया भानं भवति आकाशपदाच्छब्दाश्रयो बोद्धव्यः । इत्येवं भगवत्संकेतस्वीकारात