________________
काण्डम्.] शक्तिवादः।
(६१) त्तिनिमित्तलक्षणे वाच्यत्वविशेषणस्योपादानं दूषितमेव । प्रत्यक्षमणिदीधितौ च पदार्थाशे गोत्वादेः प्रकारतायां शक्यतावच्छेदकत्वस्य प्रयोजकत्वमुपगम्य शक्यतावच्छेदके शक्तिर्दूषितैव तत्रोक्तानुफ्पत्तिश्चिन्त्या।
यत्तु शक्तयाऽऽकाशपदादष्टद्रव्यातिरिक्तद्रव्यत्वादिनाप्याकाशबोधो भवति न तु नियमतः शब्दाश्रयत्वेनैव तथा सति' आकाशः शब्दाश्रयः' इति सहप्रयोगस्य कृता गोत्वादीनां गवादिपदवाच्यत्ववच्छब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वं व्यवस्थापितं चिन्तामणिप्रत्यक्षखण्डे च दीधितिकृता गोत्वादेरपि गवादिपदवाच्यत्वं दूषितं सुतरां शब्दाश्रयत्वस्याप्याकाशपदावाच्यत्वं प्राप्तमितिपूर्वापरविरोधः । यदि च गोत्यादौ गवादिपदशक्तिर्नास्ति तदा गवादिपदजन्यबोधे गोत्वादेः पदार्थांश गवादौ प्रकारतया मानवद् द्रव्यत्वादेरपि प्रकारतया भानं स्यादविशेषादित्याशङ्कय गोत्वादेः प्रकारताया शक्यतावच्छेकत्वस्यैव प्रयोजकत्वं स्वीकृतं शक्यतावच्छेदकत्वं च मोखादेरेव न द्रव्यत्वादेः- 'गोपदं गोलाबच्छिन्नवाचकम् ' इत्येवं भगवत्संकेतस्वीकारात ‘गोपदं द्रव्यत्वावच्छिन्नवाचकम् ' इत्येवं भगवत्संकेतास्वीकाराच, तथा च गोत्वादेः प्रकारतायां शक्यताच्छेदकत्वमेव प्रयोजकं न तु गवादिपदवाच्यत्वं येन गोल्वादौ मवादिपदशक्तिस्वीकारावश्यकता स्पादिति शक्यतावच्छेदकं गोस्वादिकं गवादिपदावाच्यमेवेत्यर्थः, एतच पूर्वमपि ( ५६पृ) प्रतिपादितम् । गोत्वादेर्गवादिपदावाच्यत्वे दोषमाह- तत्रेति । उक्तानुपपत्तिः (५६) " तन शोभनम् " इत्यादिनोक्तानुपपत्तिः । शाब्दबोधे शक्यतावच्छेदकस्यैव प्रकारतया भानस्वीकारे ' द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्धव्यम् । इत्याकारका• धुनिकसंकेतग्रहेण द्रव्यपदाद् द्रव्यत्वप्रकारक एव बोधः स्याद् गुणवत्त्वप्रकारकबोधश्च न स्याद् द्रव्यत्वस्यैव द्रव्यपदशक्यतावच्छेदकत्वादित्यर्थः । गोत्वादेर्वाच्यत्वपक्षे तु यथात्र गुणवत्त्वप्रकारकबोधो भवति तत्सर्वं पूर्वमेत्र ( १७ पृ) प्रतिपादितं तत्रैव द्रष्टव्यमित्यलम् । . परिहाराय मतान्तरमनुवदति-यत्तिति, आकाशं पृथिव्यावष्टद्रव्यातिरिक्तद्रव्यमस्तीत्याकाश. पदादाकाशस्याष्टद्रव्यातिरिक्तद्रव्यत्वेन रूपेणापि बोधः संभवति । तया सति यद्याकाशपदादाकाशस्य शत्या नियमतः शब्दाश्रयत्वेनैव रूपेण बोधः स्यात्तदा ' आकाशः शब्दाश्रयः' इति सहप्रयोगस्य आकाशपदशब्दाश्रयपदयोः सहप्रयोगवाक्यस्य मुख्यता न स्याद् यत आकाशपदैनापि शब्दाश्रयत्वेनोपस्थितिः स्थाच्छब्दाश्रयपदेनापि शब्दाश्रयत्वेनोपस्थितिः स्यादिति विटो घटः ' इत्यायन्वयबोधाजनकवाक्यतुल्यत्वं स्याद्-विरूपोपस्थितयोरेवाऽभेदान्वयखीकाराद् न च 'घटो घटः' इत्यादिवाक्यतुल्यत्वमिष्टमित्याकाशपदेनात्र लक्षणयाऽष्टद्रव्यातिरिक्तद्रव्य . त्वेन रूपेणाकाशोपस्थितिः स्वीकार्या तथा चान्वयबोधोपपत्तौ सत्यामपि वाक्यस्य मुख्यता न स्यात्-शक्यार्थप्रतिपादने एव मुख्यतायाः संभवाद् यदा चाकाशपदेन शक्तयाऽद्रव्यातिरिक्तद्रव्यत्वेनापि बोधः स्वीक्रियते तदा त्यत्राकाशपदेन शक्त्यैवाष्टद्रव्यातिरिक्तद्रव्यत्वेन बोधे जाते वाक्यस्य मुख्यता संभवति-शक्त्यैवार्थप्रतिपादनात् । एवं चैकस्मिन्नेवाकाशे प्रत्येक शब्दाश्रय