________________
( ६० )
सादर्श:
[ विशेष
7
अत्र च मते जात्यतिरिक्तस्य तस्य स्वरूपतः पदार्थान्तरे प्रकारत्वाऽसंभवात् 'आकाशवासी' इत्यादौ शाब्दबोधानुपपत्तिः, 'अन्वयितावच्छेदकावच्छिन्ने एव पदार्थान्तरान्वयः इतिनियमानुपपत्तिश्चेति पदार्थों इव पदार्थप्रकारीभूतधर्माशेषि शक्तिग्रहापेक्षायां गोत्वादेर्गवादिपदवाच्यत्ववच्छब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वमावश्यकम् । अत एव दीधितिकृता गुणटिप्पण्यां रूपग्रन्थे “ अत्रेद तत्त्वम्" इत्यादिना गोत्वादिना शब्दाश्रयत्वस्याविशेषं व्युत्पाद्य प्रकाशस्थप्रवृ कटकादिविषयक संस्कारप्रमोषेण केवलदेवदत्तव्यक्तिमात्रविषयकं स्मरणं जायते न तु कटकादिविषयकमपि तथा शब्दाश्रयत्वप्रकारक शक्तिज्ञाने जातेप्याकाशपदान्निष्प्रकारकस्मरणं ( उपस्थितिः ) संभवति - शब्दाश्रयत्वविषयक संस्कारप्रमोषस्वीकारादित्येवं तादृशस्मरणम् = निर्विकल्पकस्मरणमुपपादितं मुरारिमिश्ररित्यर्थः ।
उक्तप्राचीनमतमालोचयति- अत्र चेत्यादिना । तस्य आकाशस्य | पदार्थान्तरे = आकाशवास्यादौ । जात्यखण्डोपाधिनिष्ठेव प्रकारताऽनवच्छिन्ना भवति न तु तदतिरिक्तपदार्थनिष्ठापि. आकाशस्तु न जातिर्न वाऽखण्डोपाधिरिति यद्याकाशपदादाकाशस्य स्वरूपत एव भानं स्यात्तदाssकाशस्याकाशवासिनि स्वरूपतः प्रकारत्वासंभवात् 'आकाशवासी ' इत्यत्राकाशप्रकारकाकाशवासिविशेष्यकबोधो न स्यादेवेत्यर्थः । ' नीलमाकाशम् ' इत्यादावाकाश विशेष्पकोषि बोधो न स्यात् - अन्वयितावच्छेदकावच्छिन्ने एव पदार्थान्तरान्वयस्य स्वीकाराद् यथा 'नीलो घट: इत्यत्रान्वयितावच्छेदकेन वटत्वेनावच्छिन्ने एव नीलपदार्थान्त्रयो भवति - घटपदाद् घटन रूपेण घटस्य मानस्वीकारात्, आकाशपदाच्चाकाशस्य स्वरूप एव मानस्वीकाराद् । यदि स्वरूपेणाप्युपस्थित आकाशे नीलादिपदार्थान्तरान्वयः क्रियते तदा अन्वयितावच्छेदका - वच्छ एव पदार्थान्तरान्त्रयः " इतिनियमभङ्गः स्यादित्याह - अन्वयितेति । यदि गोत्वादेर्गवादिपदवाच्यत्वमिष्टं तदा शब्दाश्रयत्वस्याप्याकाशपदवाच्यत्वं स्वीकार्यमेवेत्याह- पदार्थे इति । तथा चाकाशपदाच्छब्दाश्रयत्वरूपेणाकाशभानसंभवात् ' आकाशवासी ' इत्यात्राकाशस्य शब्दाश्रत्वेन प्रकारतया मानं पदार्थान्तरे प्रकारत्वं च संभवति, ' नीलमाकाशम् ' इत्यादावप्याकाशस्यान्वयितावच्छेदकेन शब्दाश्रयत्वेनावच्छिन्नत्वात्तत्र नीलपदार्थान्वयः संभवतीति न कोपि दोष इत्यर्थः । शब्दाश्रयत्वस्याकाशपदवाच्यत्वे मानमाह- अत एवेति । अत एव = शब्दाश्रयत्वर्याकाशपदवाच्यत्वादेव गुणटिप्पण्याम्= तत्त्वचिन्तामणिनाम कन्यायप्रन्थे गुणपदार्थनिरूप गटिपण्यां यत्र रूपात्मक गुणनिरूपणं तत्रेत्यर्थः । यदि गोत्वादीनां गवादिपदवाच्यत्वं स्वीक्रियते तदा गोत्वाविशेषाच्छन्दाश्रयत्वस्याप्याकाशपदवाच्यत्वमवश्यं स्वीकार्यमेव तथा चोक्तप्रवृत्तिनिमित्तलक्षणे “ वाच्यत्वे सति " इति विशेषणं नोपादेयं तस्य शब्दाश्रयत्वे आकाशपदवाच्यत्ववारणार्थमेवोपादेयत्वात् शब्दाश्रयत्वे चाकाशपदवाच्यत्वस्यावश्यकत्वेन स्वीकारादित्याह - गोत्वादिनेति । दीधितिग्रन्थे पूर्वापरविरोधमुद्घाटयति- प्रत्यक्षेति । उक्तरूपग्रन्थे तु दीधिति
""