________________
काण्डम् ] शक्तिवादः।
(५९) दोपस्थाप्यधर्माप्रकारकत्वं न तु तदंशे सामान्यतो निष्पकारकत्वम्- विभक्त्युपस्थापितैकत्वादीनां तदंशे प्रकारताया आवश्यकत्वात् तेन समं पदार्थान्तरस्य संसर्गानवगाहने तादृशबोधस्य शाब्दत्वासंभवाच्च ।
वस्तुतस्तु तत्र निर्विकल्पकपदं तत्पदोपस्थाप्यवस्त्वविशेषितधर्मिविषयकशाब्दानुभवजनकनिर्विकल्पकस्मरणपरम् , अत एव तत्र “ निर्विकल्पकरूपस्य स्मरणस्पानुपपत्ति:- अनुभवस्य स्वसमानप्रकारकमात्रस्मृतिजनकत्वात् ” इत्या. शक्य प्रकारान्तरेण तादृशस्मरणमुपपादितं मिश्रः। धर्माप्रकारकं ज्ञानम्-बोधो भवतु । अयं भाव:- आकाशत्वं यथा शब्दाश्रयत्वरूपं तथाऽष्टद्रव्यातिरिक्तद्रव्यत्यरूपमपि तत्र यद्याकाशपदस्य शक्तिः शब्दाश्रयत्ये स्यात्तदाऽष्टद्रव्यातिरिक्तद्रव्यत्येपि स्यात् न चैतदू युक्तम्-- एकथर्मिप्रकारीभूतेषु नानाधर्मेष्वेकपदस्य पर्याया नानाशक्तीनां कचिदन्यदर्शनात्, उभयत्रैकापि शक्तिर्न संभवति- एकदाऽऽकाशपदादुभयधर्मप्रकारकबोधस्या शनात्, एकत्र शक्तिरेकत्र च लक्षणेत्यपि न युक्तम्-विनिगमनाविरहादित्याकाशपदस्य कस्मिन्नपि धर्मे शक्तिर्नास्ति तस्मानिर्विकल्पक एव बोधो जायते इत्यगत्या स्वीकार्यमिति । इन्द्रियजन्यं निर्विकल्पकज्ञानं तु सामान्यतो निष्प्रकारकमेव जायते अस्ति किंचिदित्येवं रूपत्वाद् व्यक्तिमात्रविषयत्वाद्वा पदात्तु सामान्यतो निष्प्रकारकं ज्ञानं न जायते "शाब्दवोधे चैकपदार्थेऽपरपदार्थस्य संसर्गः संसर्गमर्यादया भासते" इति नियमेन पदार्थान्त: रसंसर्ग विना शाब्दबोधत्वानुपपत्तरित्यभिप्रेत्य निर्विकल्पकल्वस्वरूपमाह-निर्विकल्पकत्वं चेति । तदंशे तत्पदवाच्यव्यक्तौ । तेन तत्पदवाच्यव्यक्ल्या ।
ननु यद्याकाशपदादुपस्थितिस्तु शब्दाश्रयत्वप्रकारिका बोधश्च निष्प्रकारकस्तदोपस्थितिशाब्द. बोधयोः समानप्रकारकत्वनियमभङ्गः स्यादित्याशङ्कयाह-वस्तुतस्त्विति, तत्र" अस्तु वा पदादपि निर्विकल्पकम् " इत्यत्र । तदिति-आकाशपदोपस्थाप्यं यच्छब्दाश्रयत्वरूपं वस्तु तदऽविशेषितं यदाकागरूपं धर्मि तद्विषयको य: शाब्दानुभवस्तजनकं यन्निर्विकल्पकस्मरणम् उपस्थितिस्तत्परमियः, तथा चाकाशपदादाकाशस्य स्वरूपत एवोपस्थितिशाब्दबोधौ भवत इति प्राप्तमिति नो स्थितिशाब्दबोधयोः समानप्रकारकत्वनियमभङ्गापत्तिरित्यभिप्रायः । तत्र निर्विकल्पकपदं निर्विकल्पकोपस्थितिपरं न तु निर्विकल्पकशाब्दबोधपरमित्यत्र प्रमाणमाह- अत एवेति । अत एव तत्र. निर्विकल्पकपदस्य निर्विकल्पकस्मरणपरत्वादेव, निर्विकल्पकं स्मरणं न संभवति-स्मरणं ह्यनुभूतपदार्थविषयकं जायते तत्रानुभवो यत्प्रकारको भवति तत्प्रकारकमेव संस्कारमुत्पादयतीति तादृशसंस्कारोद्रोधेन जायमानं स्मरणं सप्रकारकमेव जायते न तु निष्प्रकारकं स्त्रजन्यसं. स्कारद्वाराऽनुभवस्य स्वसमानप्रकारकमात्रस्मृतिजनकत्वादिति शङ्कार्थः । प्रकारान्तरेणेति-स्मरणमनुभूतस्यैव भवतीति नियमे सत्यप्यऽनुभूतस्य स्मरणं भवत्येवेति नियमो नास्ति- संस्कारप्रमोपेण स्मरणाभावस्यापि संभवादिति यथा कटकादिविशिष्टदेवदत्तदर्शने जाते कालान्तरे