________________
अथ विशेषकाण्डम् ।
अथ पदार्थाशे इव प्रकारीभूतधर्माशेपि वाच्यत्वग्रहस्यापेक्षितत्वे आका दाच्छब्दाश्रयतया बोधों न स्यात्- शब्दाश्रयत्वस्याऽऽकाशपदावाच्यतायाः " सिद्धान्तशिद्धत्वात्. तद्वारणायैव प्रवृत्तिनिमित्तलक्षणे “ वाच्यत्वे सति" इतिविशेषणोपादानादिति चेत् ? न- शब्दाश्रयत्वस्याकाशपदवाच्यत्वमनङ्गीकर्तृभिः प्राचीनैराकाशपदादाकाशांशे तदुपस्थाप्यधर्माप्रकारकशाब्दबुद्धेरेवोपगमात् तदुक्तम्- “ अस्तु पदादपि निर्विकल्पकम् " इति, निर्विकल्पकत्वं च तदंशे तत्प
सामान्य काण्डवाक्यार्थपूर्णज्ञानवता नणाम् ।
स्वल्पं विशेषकाण्डेस्मिञ् ज्ञातव्यमवशिष्यते ॥ गोघटादिसामान्यशब्दाना शक्तिशक्तिज्ञानयोः स्वरूपनिरूपणं कृत्वा संप्रत्याऽऽकाशादिविरशब्दानां शक्तिवादमारभते- अथेत्यादिना । विशेषतो निगदव्याख्यातोयं ग्रन्थः । यथा घटादिपदार्थविषयकघटादिपदवाच्यत्वज्ञानस्य घटादिपदजन्यशाब्दबोधार्थमपेक्षास्ति तथा यदि प्रकारीभूतघटत्यादिधर्मविषयकघटादिपदवाच्यत्वज्ञानस्यापि घटादिपदजन्यशाब्दबोधार्थमपेक्षा स्यात्तदा घटत्वादेर्घटादिपदवाच्यत्वस्वीकाराद् घटादिपदादू घटत्वादिप्रकारकशाब्दवोधसंभवेप्याकाशपदान्छव्दाश्रयत्वप्रकारकबोधो न स्यादेव- शब्दाश्रयत्वस्याकाशपदवाच्यत्वाऽनङ्गीकारात् , वाच्यधर्मप्रकारकवोधस्यैवष्टत्वात्, आकाशत्वं च न जाति:- एकमात्रवृत्तित्यादिल्याकाशत्वं शब्दाश्रयत्वमेवत्यर्थः । तद्वारणाप-शब्दाश्रयत्वस्याकाशपदवाच्यत्ववारणायैव । इष्टापत्त्या परिहरति-- नेति, आकाशपदात् स्वरूपत एवाकाशविषयकः शाब्दबोधो जायते न तु शब्दाश्रत्वरूपेण नाम शब्दाश्रयत्वप्रकारक इत्यर्थः । यदि शब्दाश्रयत्वस्याकाशपऽदावाच्यत्वेप्याकाशपदाच्छब्दाश्रयत्वनकारकबोध: स्यात्तदा वान्यधर्मप्रकारक एव दोधो भवतीति नियमभङ्गेन घटत्वादीनामपि घटादिपदावाच्यत्वेपि घटत्वादिप्रकारबोधसंभवेन घटत्वादीनां घटादिपदवाच्यत्वमनर्थकं स्यादपि न
चैवमस्ति- आकाशपदाच्छब्दाश्रयत्वाऽप्रकारकस्यैव स्वरूपत आकाशविश्यकबोधस्य स्वीकारादितिभावः । तदुपस्थाप्यधर्माप्रकारकशाब्दबुद्धेः=आकाशपदोपस्थाप्यो यः शब्दाश्रयत्वधर्मस्तदऽयकारकशाब्दबोधस्यव । तथा चाकाशपदादाकाशस्योपस्थितिस्तु शब्दाश्रयत्वप्रकारिकैव भवतीति प्राप्तम् । आकाशपदान्निष्प्रकारकबोधे प्रमाणमाह--- अस्विति, ज्ञानमिति शेषः । इन्द्रियेण प्रत्यक्षं तु प्रथमं निर्विकल्पकं जायते एवेति सर्वमतसिद्धम् , आकाशपदादपि सविकल्पकःकिंचिद्धर्मप्रकारको बोधो नोपपद्यते इत्याकाशपदादपि निर्विकल्पकम् आकाशपदोपस्थाप्य.