________________
काण्डम् . ] शक्तिवादा।
(५७) यत्र 'द्रव्यपदाद् गुणवत्त्वादिना द्रव्यं बोद्धव्यम् ' इत्याकारक आधुनिकः कस्यचित्संकेतो द्रव्यत्वावच्छिन्नविशेष्यतासंबन्धन द्रव्ये गृहीतस्तत्र तादृशसंकेतग्रहाद् द्रव्यत्वेन द्रव्यबोधापत्तेः गुणवत्वादिप्रकारकशाब्दबोधानुपपत्तेश्च दुरित्वात् ।
॥ इति शक्तिवादसामान्यकाण्डं समाप्तम् ॥ . .
संकेतज्ञानस्यापि शक्यतावच्छेदकप्रकारताकशक्तिज्ञानत्वेनैव रूपेण शाब्दबोधहेतुत्वं वक्तव्यमिति 'द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्धव्यम्' इत्याकारकाधुनिकसंकेतस्यापि शक्यतावच्छेदकप्रकारताकशक्तिज्ञानत्वेनैव रूपेण शाब्दबोधकारणत्वं प्राप्तं शक्यतावच्छेदकं च धर्मितावच्छेदकमेव धर्मितावच्छेदकं चोक्ताधुनिकसंकेतस्थले द्रव्यत्वमेव द्रव्यस्यैव धर्मित्वाद् न तु गुणवत्त्वमपि. शक्तिज्ञानशाब्दबोधयोश्च समानप्रकारकत्वनियमाद् द्रव्यत्वप्रकारकसकेतज्ञाने जाते शाब्दबोधोपि द्रव्यत्वप्रकारक एव स्यान्न तु गुणवत्त्वप्रकारक इष्टश्चोक्ताधुनिकसंकेतस्थले गुणवत्त्वप्रकारकः शाब्दबोध इत्याक्षेपः । द्रव्ये इत्यस्य द्रव्यविषयक इत्यर्थः । अस्मन्मते च तत्पदजन्यबोधविषयतायां यस्य धर्मस्यावच्छेद्यत्वसंबन्धेनान्वयो भवति तद्धर्मप्रकारक एव शाब्दबोधो भवति 'द्रव्यपदाद् गुणवत्त्वेन द्रव्यं बोद्रव्यम् ' इत्यत्र ‘गुणवत्त्वेन ' इति तृतीयाया अवच्छेदकत्वमर्थ एतादृशसंकेतज्ञानेन जायमानद्रव्यपदजन्यबोधविषयतायां स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसंबन्धेन गुणवत्त्वस्यैवान्वयो भवति. न द्रव्यत्वस्येति गुणवत्त्वप्रकारक एव बोधो जायते न तु द्रव्यत्वप्रकारकः । अथवेत्याद्युक्तकार्यकारणभावेन चोक्तसंकेतस्थले द्रव्यपदजन्यबोधविषयत्वनिष्ठा प्रकारता गुणवत्त्वावच्छि. नत्वावच्छिन्ना भवतीति गुणवत्त्वप्रकारक एव बोधो जायते न द्रव्यत्वप्रकारक:- तत्पदजन्यबोधविषयत्वनिष्ठा प्रकारता यद्धर्मावच्छिन्नत्वावच्छिन्ना भवति तद्धर्मप्रकारकस्यैव शाब्दबोधस्य संभवादित्यभिप्रायः । द्रव्यपदजन्यबोधविषयतायां गुणवत्त्वावच्छिन्नत्वमस्तीति तादृशविषयतानिष्ठा अकारता गुणवत्त्वावच्छिन्नत्वावच्छिन्ना जातेल्यवधेयम् ।
॥ इति सामान्यकाण्डशक्तिवादस्याऽऽदर्शाख्या व्याख्या समाप्ता ॥