________________
(५६) सादर्शः
[ सामान्यतविशेष्यतावच्छेदकत्वं न तु बोधविषयतया संकेतविषयत्वरूपं विशेषणविधया वाच्यत्वम्, तथा च तद्धर्मप्रकारकशाब्दबोधे तद्धर्मावच्छिन्नत्वविशिष्टतादृशविषयतासंसर्गकं पदशक्तिज्ञानमेव कारणमास्ताम्. द्रव्यादिपदजन्यबोधविषयत्वप्रकारतानिरूपितद्रव्यत्वावच्छिन्नभगवत्संकेतीयविशेष्यतात्वेनैव सम्बन्धता न त तादृशप्रकारतानिरूपितवटत्वावच्छिन्नविशेष्यतात्वेन-तादृशप्रकारतानिरूपितभगवदिच्छाविशेष्यतायां द्रव्यत्वादेरेवाञ्चच्छेदकत्वं न तु घटत्वादेरित्येवं स्वीकरणीयमिति नोक्तातिप्रसङ्ग इति किं प्रवृत्तिनिमित्तस्य वाच्यत्वोपगमेनेति शक्यतावच्छेदकमवाच्यमेवेति दीधितिकारमतम् । तन्न शोभनम्- एवं सति शक्तिज्ञानाऽऽधुनिकसंकेतज्ञानयोरेकरूपेणैव हेतुत्वाद्
एवेति शक्यतावच्छेदकं घटत्वादिकं घटादिपदावाच्यमेवेत्युक्तप्रवृत्तिनिमित्तलक्षणे "वाच्यत्वे सति' इति येशषणमनर्थकमेव । अत्र "किं प्रवृत्तिनिमित्तस्य वाच्यत्वोपगमेन" इत्यप्रिमवाक्येनान्वयः । शक्तिज्ञानशाब्दबोधयोः कार्यकारणभावस्वरूपमाह-तथा चेति, शक्यतावच्छेदकत्वस्य तत्पदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावच्छेदकत्वरूपत्वस्वीकारात् । तद्धर्मप्रकारकशाब्दबोधे द्रव्यत्वादिप्रकारकशाब्दबोधं प्रति तद्धर्मावच्छिन्नत्वविशिष्टा=द्रव्यत्वादिधर्मावच्छिना. या तादृशविषयता द्रव्यादिपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता तत्संसर्गकम्-तादृशविशेष्यतासम्बंधन पदप्रकारकमर्थविशेष्यकम् 'उक्तविशेष्यतासंबन्धन द्रव्यपदविशिष्टं द्रव्यम्' इत्याकारकं यत् शक्तिज्ञानं तदेव कारणमित्यर्थः । उक्तविशेष्यताया येन रूपेण पदप्रतियोगिकसम्बन्धत्वमभिमतं तदाह-द्रव्यादीति, द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता द्रव्यत्वावच्छिन्ना च या भगवदिच्छीयविशेष्यता तादृशविशेष्यतात्वेनैव रूपेणोक्तविशेष्यतायाः सम्बन्वत्वं न तु तादृशप्रकारतानिरूपिता-द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपिता या घटत्वावच्छिन्ना भगवदिच्छीयविशेष्यता तादृशविशेष्यतात्वेन रूपेण-'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्येवं रूपेण भगवत्संकेतस्वीकाराद् द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावच्छेदकत्वं द्रव्यत्वे एव स्वीकृतं न तु घटत्वेपि येन उक्तातिप्रसङ्गः= द्रव्यपदाद् घटत्वप्रकारकबोधस्यापत्तिः स्यात्-' द्रव्यपदाद् घटो बोद्धव्यः । इत्येवं भगवत्संकेताऽस्वीकारादिति द्रव्यपदाद् घटत्वप्रकारकबोधातिप्रसङ्गो नास्तीत्यर्थः ॥ __उक्तं पराकरोति- तन्नेति, त्वदुक्तरीत्या हि शक्यतावच्छेदकप्रकारताकशक्तिज्ञानस्य शाब्दबोधकारणत्वं प्राप्तं शक्यतावच्छेदकं च विशेष्यतावच्छेदकमेव विशेष्यतावच्छेदकं च धर्मितावच्छेदकमेव तथा च शक्तिज्ञानाऽऽधुनिकसंकेतज्ञानयोरेकरूपेणैव शाब्दबोधं प्रति हेतुत्वाद् यदि शक्तिज्ञानस्य शक्यतावच्छेदकप्रकारताकशक्तिज्ञानत्वेन रूपेण शाब्दबोधहेतुत्वं तदाऽऽधुनिक