________________
काण्डम् . ] शक्तिवादः।
(५५) द्रव्यादिपदजन्यबोधविषयत्वनिष्ठद्रव्यत्वावच्छिन्नत्वेनैव तादृशविषयत्वमवगाहमानाया भगवदिच्छायाः प्रकारतायां द्रव्यत्वमात्रावच्छिन्नत्वेनावच्छिन्नायां बाधित. स्यैकत्वावच्छिन्नत्वावच्छिन्नत्वस्यावगाहनात् तस्य भ्रमत्वनिर्वाहेणातिप्रसङ्गानवकाशात् ।
यत्तु पदार्थाशे घटत्वादेः शाब्दबोधप्रकारतायां तदंशे तत्पदशक्यतावच्छेदकत्वमेव प्रयोजकं शक्यतावच्छेदकत्वं च-तत्पदजन्यबोधविषयत्वप्रकारतानिरूपिभगवदिच्छा द्रव्यपदजन्यबोधविषयत्वनिष्ठं यद् द्रव्यत्वावच्छिन्नत्वं तेनैव रूपेण तादृशविषयत्वम् द्रव्यपदजन्यबोधविषयत्वमवगाहते--द्रव्यपदजन्यबोधविषयत्वाधिकरणे द्रव्ये द्रव्यत्वधर्मस्य सत्त्वात् तस्यैव च बोधविषयतावच्छेदकत्वेन भगवदिच्छाविषयत्वाद् अत्र च 'द्रव्यपदेन द्रव्यत्वप्रकारक एव घटपदेन च घटत्वप्रकारक एव बोधो जायते नान्यधर्मप्रकारकः इतिनियमस्यैव नियामकत्वात्, द्रव्यपदजन्यबोधविषयत्वं द्रव्यत्वावच्छिन्नत्वेन रूपेणावगाहमानाया भगवदिछाया नाम तादृशभगवदिच्छानिरूपिता अर्थात् तादृशभगवदिच्छीयविशेष्यतानिरूपिता या द्रव्यपदजन्यबोधविषयत्वनिष्टा प्रकारता तस्यां द्रव्यत्वमात्रावच्छिन्नत्वावच्छिन्नत्वं वर्तते-द्रव्यवृत्तिद्रव्यपद जन्यबोधविषयत्वे द्रव्यत्वावच्छिन्नत्वस्य सत्त्वेन तादृशबोधविषयत्वनिष्टप्रकारतायां द्रव्यत्वावन्छि: नत्वावच्छिन्नत्वस्य सत्त्वाद् न त्वेकत्वावच्छिन्नत्वावच्छिन्नत्वमपीति तादशप्रकारतायां बाधितस्यैकत्वावच्छिन्नत्वावच्छिन्नत्वस्य एकत्वप्रकारकद्रव्यपदजन्यबोधजनकशक्तिग्रहेण नाम पदान्तरेणैकखानुपस्थितिदशायामेकत्वप्रकारको द्रव्यपदजन्यो यो बोधस्तादृशबोधजनकेन शक्तिग्रहेणावगाहनाद् बाधितार्थविषयकज्ञानस्य भ्रमत्वनियमेन तस्य-द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारतां बाधितेनैकत्वावच्छिन्नत्वावच्छिन्नत्वेन रूपेणावगाहमानस्योक्तशक्तिग्रहस्य भ्रमत्वनि,हेण-भ्रमत्वप्राप्त्या अतिप्रसङ्गः पदान्तरेणैकत्यानुपस्थितिदशायां द्रव्यपदादेकत्वप्रकारकबोधापत्ति स्ति-उक्तभ्रमात्मकशक्तिज्ञानेन द्रव्यपदात् प्रमात्मकैकत्वप्रकारकबोधासंभवादित्यर्थः । .
पराकर्तुं दीधितिकारमतमनुवदति-यत्त्वित्यादिना, घटादिपदार्थविषयकशाब्दबोधे घटादौ घटत्वादेर्यत् प्रकारतया भानं भवति तादृशघटत्वादिनिष्ठशाब्दबोधप्रकारतायां तदंशे घटत्वादौ यद् घटादिपदशक्यतावच्छेदकत्वं तदेव प्रयोजकमस्ति शक्यतावच्छेदकत्वं च घटादिपदजन्यवोधविषयत्वनिष्टप्रकाश पितभगवदिच्छीयविशेष्यतावच्छेदकत्वरूपं विज्ञेयम्-घटादिपदार्थे तादृशविशेष्यताया घटत्वादेश्च सत्त्वेन घटत्यादौ तादृशविशेष्यतावच्छेदकत्वप्राप्तेः, बोधविषयतया संकेतविषयत्वरूपं यद् विशेषणविधया वाच्यत्वं तद्रूपं शक्यतावच्छेदकत्वं न विज्ञेयम्, प्रवृत्तिनिमित्तस्य घटत्वादेर्वाच्यत्वपक्षे तु बोधविषयतया संकेतविषयत्वरूपं यद् विशेषणविधया वाच्यत्वं तदेव शक्यतावच्छेदकत्वं सम्भवति-घटत्वादेर्घटादौ विशेषणत्वमस्तीति विशेषणविधयैव घटादिपदवाच्यत्वात्, यदा च शक्यतावच्छेदकत्वमुक्तविशेष्यतावच्छेदकत्वरूपं स्वीकृतं तदा प्रवृत्तिनिमित्तस्य घटत्वादेर्घटादिपदवाच्यत्वापत्तेस्भावाद् वाच्यत्वस्वीकारो व्यर्थ