________________
( ५४ )
सादर्श:
[ सामान्य
णापि शाब्दबोधप्रसङ्गो दुर्वार एवेति वाच्यम्, तादृशविशेष्यतात्वेन तस्याः संवन्धत्वानुपगमात् ।
अथ वा- तत्पदजन्यतद्धर्मप्रकार कशाब्दबोधे तद्धर्मावच्छिन्नत्वावच्छिन्नत्वेन तत्पदजन्यबोधविषयत्वप्रकारतावगाहि तादृशप्रकारतानिरूपित विशेष्यतासंसर्गकं पदप्रकारकं ज्ञानं हेतुः एवं चैकत्वादिप्रकारकद्रव्यादिपदजन्यबोधजनकशक्तिग्रहे
-ki
ष्ठप्रकारतानिरूपितभगवदिच्छीय विशेष्यतासम्बन्धेन द्रव्यपदवत्स्त्वस्य हेतुत्वं प्राप्तम् अस्ति चैकत्ववति घटादिद्रव्ये उक्तसम्बन्धेन द्रव्यपदवत्यमिति द्रव्यपदादश्रान्तस्यापि पदान्तरानुपस्थितैकत्वप्रकारेण शाब्दबोधप्रसङ्गो दुर्गार एवेत्याशङ्कयाह-न चेति । परिहारहेतुमाह- तादृशेति तादृशविशेष्यतावेन= द्रव्यपदजन्यबोधीयैकत्वावच्छिन्न विषयत्वनिष्ठप्रकारतानिरूपित भगवदिच्छीय विशेष्यतात्वेन रूपेण तस्याः = भगवदिच्छीय विशेष्यतायाः संबन्धत्वं न स्वीक्रियते येन द्रव्यपदादभ्रान्तस्य पदान्तरानुपस्थितैकत्वप्रकारेण शाब्दबोधापत्तिः स्यात्, यद्युक्तरूपेण भगवदिच्छीयविशेष्यतायाः सम्बन्धवं स्यात्तदा द्रव्यपदजन्यवोधीयविषयताया एकत्वावच्छिन्नत्वेन तत्र प्रवेशेनैकत्वस्य पदान्तरानुपस्थितिदशायामप्येकत्वप्रकारक बोधो व्यपदात् स्यादपि न चैवमस्ति, द्रव्यपदजन्यवोधीयविपयायास्तत्र द्रव्यत्वमात्रावच्छिन्नत्वेन प्रवेशादित्यर्थः ।
प्रकारान्तरेण समाधत्ते - अथ वेति, यथा - घटपदजन्यवटत्वप्रकारकशाब्दबोधं प्रति घटत्वावच्छिन्नत्वावच्छिन्नत्वेन रूपेण घटपदजन्यवोधविषयतानिष्टप्रकारताया अवगाहि तथा ताम्रकारता निरूपित विशेष्यतासंसर्गकम् = घटपदजन्यबोधविषयत्वनिष्ठप्रकारता निरूपितविशेष्यता संसर्गेण पदप्रकार कमर्थ विशेष्यकं यत् 'घटपदजन्यबोधविषयतानिष्टप्रकारतानिरूपितभगवदिच्छीय विशेष्यतासम्बन्धेन घटपदविशिष्ट घट:' इत्याकारकं शक्तिज्ञानं तदेव हेतुरित्यन्वयः | घंटे घटत्वमप्यस्ति घटपदजन्यवोचविषयत्वमप्यस्तीति घटपदजन्यबोधविषयत्वं घटत्वावच्छिन्नं जातमिति पद जन्यवोधविषयत्वे घटत्वावच्छिन्नत्वमप्यस्ति भगवदिष्छीय विशेष्यतानिरूपिता प्रकारताप्यस्तीति सा प्रकारता घटत्वावच्छिन्नत्वावच्छिना जातेति शक्तिज्ञानस्य तद्धर्मावच्छिन्नत्वावच्छिन्नत्वेन रूपेण तत्पदजन्यबोधविषयत्वनिष्टप्रकारताया अवगाहित्यमुक्तं तथा च शक्तिज्ञानं यद्धर्मावच्छिनत्वाव च्छिन्नत्वेन रूपेण तत्पदजन्यबोधविषयत्वनिष्ठप्रकारताया अवगाहनं करोति तद्धर्मप्रकारक एवं तेन पदेन शाब्दबोधो भवति नान्यधर्मप्रकारेण यथा घटपदेन घटत्वप्रकारक एव बोधो जायते-घटपदशक्तिज्ञानेन घटत्वमात्रावच्छिन्नत्वावच्छिन्नत्वेनैव घटपदजन्यबोधविपयत्वनिष्ठप्रकारताया अवगाहनात्, तथा च द्रव्यपदशक्तिज्ञानेन द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारताया द्रव्यत्वमार त्रावच्छिन्नत्वावच्छिन्नत्वेनैवावगाहनाद् द्रव्यपदाद् द्रव्यत्वमात्रप्रकारक एव बोधो जायते नतु पदान्तरानुपस्थितैकत्वप्रकारको पि । एवं च द्रव्यपदाद् वटत्वप्रकारक बोधस्याप्यापत्तिर्नास्ती त्यर्थः । स्वाभिप्रायमुद्घाटयति एवं चेति, द्रव्यपदाद् द्रव्यं बोद्धव्यम् इत्याकारा
4