________________
काण्डम्. ] शक्तिवादः।
(५३) तानिरूपितभगवदिच्छीयविशेष्यतात्वावच्छिन्नसंसर्गेण घटत्वावच्छिन्ने द्रव्यपदप्रकारकं ज्ञानं संसर्गतावच्छेदकघटकघटत्वावच्छिन्नत्वांशेभ्रम एव ।।
न च द्रव्यपदजन्यविभत्त्युपस्थापितैकत्वादिप्रकारकद्रव्यत्वावच्छिन्नविशेष्यकबोधीया या एकत्वावच्छिन्नद्रव्यत्वावच्छिन्नविषयता सापि द्रव्यपदजन्यबोधीयद्रव्यत्वावच्छिन्नविषयतात्वेन भगवदिच्छाविषयः एवं च द्रव्यपदजन्यबोधीयैकत्वावच्छिन्नविषयत्वनिष्ठप्रकारतानिरूपितभगवदिच्छाविशेष्यतासम्बन्धेनैक. स्वादिमतो द्रव्यपदवत्वाद् द्रव्यपदादभ्रान्तस्य पदान्तरानुपस्थितैकत्वप्रकारे-. च्छीयविशेष्यतात्वावच्छिन्नसंसर्गेण द्रव्यपदविशिष्टो घटः' इत्याकारकशक्तिज्ञानस्य कारणत्वं वक्तव्यम् एतादृशशक्तिज्ञाने संसर्गता भगवदिच्छीयविशेष्यतायां प्राप्तां तादृशसंसर्गतावच्छेदकं चात्र घटत्वावच्छिन्नविषयत्वनिष्ठप्रकारता निरूपितत्वमेव घटत्वं च तद्घटकमिति संसर्गतावच्छेदकघटकघटत्वेन यद् द्रव्यपदजन्यबोधविषयत्वस्यावच्छिन्नत्वं तद् बाधितमेव-द्रव्यपदजन्यबोधविषयत्वस्य द्रव्यत्वावच्छिन्नत्यनियमेन घटत्वावच्छिन्नत्यासम्भवादिति घटत्वावच्छिन्ने घटविशेष्यफ (बटविषयकम् ) द्रव्यपदप्रकारकं शक्तिज्ञानं संसर्गतावच्छेदकघटकघटत्वावच्छिन्नत्वांशे भ्रम एव भ्रमात्मकशक्तिज्ञानस्य च न प्रमात्मकबोधं प्रति कारणतेति न द्रव्यपदाद् घटत्वप्रकारकप्रमास्मकबोधापत्तिरित्यर्थः । द्रव्यपदेति-द्रव्यपदजन्यो यो बोधस्तादृशबोधीयं यद् घटत्वावच्छिन्नं विश्यत्वं तन्निष्ठा या प्रकारतातन्निरूपिता या भगवदिच्छीया विशेष्यतात्यावच्छिन्ना विशेष्यता तत्सम्बन्धेनेत्यन्चयः ।
ननु “द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्या कारकभगवत्संकेतस्वीकारे द्रव्यनिष्टा या द्रव्यपदजन्यबोध विषयता सा यया द्रव्यत्वावच्छिन्नास्ति तथा 'द्रव्यम्' इत्येकवचनोपस्थितैकत्वस्यापि द्रव्ये एवान्वयादेकत्वावच्छिन्नाप्यस्येव तथा चैकत्वावच्छिन्ना द्रव्यत्वावच्छिन्दा...च या द्रव्यपदजन्यस्तथा द्रव्यमित्येकवचनविभक्त्युपस्थापितैकत्यप्रकारको द्रव्यत्वावच्छिन्न । द्रव्य ) विशेष्यको बोधस्तादृशबोधीया विषयता सापि द्रव्यपदजन्यबोधीयाद्रव्यत्वावच्छिन्ना या विषयता तादृशविप्रयतावेन रूपेण भगवदिच्छाविषय एव तथा चैकत्वादिमता-एकत्वादिविशिष्टस्य घटादिदव्यस्थ द्रव्यपदजन्यबोधीया यैकत्वावच्छिन्ना द्रव्यनिष्टा विषयता तादृशविपयतानिष्ठप्रकारतानिम्.पिना पा द्रव्यनिष्ठा भगवदिच्छीयविशेष्यता तादृशविशेष्यतासंबन्धेन द्रव्यपदवत्त्वाद् द्रव्यपदादभ्रान्त. झ्यारि पदान्तरानुपस्थितैकत्वप्रकारेण-पदान्तरेणैकत्वस्यानुपस्थितिदशायामध्येकत्वप्रकारकः शादबोधः स्यादेव, येथा द्रव्यत्यप्रकारकबोधं प्रति द्रव्यपदजन्यबोधीयविषयतायां द्रव्यत्वान्वय एव हेतुस्तथैकरवप्रकारकबोधं प्रति बोधीयविषयतायामेकत्वान्वयस्यैव हेतुत्वं प्राप्तम् अस्ति चोक्तरीया द्रव्यपदजन्यबोधीयविषयतायामेकस्वान्त्रयः, किं च यथा द्रव्यत्वप्रकारकबोधं प्रति द्रव्ये दव्यपदजन्यबोधीयद्रव्यस्त्रावन्छिन्नविषयतानिष्ठप्रकारतानिरूपितभगवदिग्छीयविशेष्यतासंबन्धेन द्र. व्यपदवत्त्वं हेतुस्तथैकत्वप्रकारकबोधं प्रति एकत्ववति द्रव्यपदजन्यबोधीयैकत्वावच्छिन्नविषयतानि