________________
सादर्श:
[ सामान्य
न्धघटकतयैवाऽऽवच्छिन्नत्वांशे समवायभानात् स्वरूपतोपि तस्य तथाभानसंभवेन. समवायत्वोपस्थितैर्नाऽपेक्षेति सामञ्जस्यम् ।
(५२)
'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्याकारताप्रयोजकद्रव्य पदजन्य बोधविषयत्वयभगवदिच्छाप्रकारता न घटत्वावच्छिन्नविषयत्वनिष्ठा अपि तु द्रव्यत्वावच्छिन्नविषयत्वनिष्ठेवेति । द्रव्यपदजन्यबोधीयघटत्वावच्छिन्नविषयत्वनिष्ठ प्रकार
उक्तरूपार्थ विशैष्यक शक्तिज्ञाने समवायस्यावच्छिन्नत्वांशे घटत्वादिधर्मनिष्ठधर्मितावच्छेदकता निष्ठं यत्समवायसम्बन्धावच्छिन्नत्वं सादृशावच्छिन्नत्वांशे सम्बन्धघटकतयैव = सम्बन्धरूपेणैव संसर्गतयैव भानात् तथा च तस्य समवायस्य स्वरुतोपि = समवायरूपेणापि तथा-संसर्गतया मानसम्भवेन समवायत्वेन रूपेणोपस्थितेर्नाऽपेक्षेति समवायस्य समवायत्वेन रूपेणानुपस्थितिदशायामपि न शाब्दबोधानुपपत्तिरित्यर्थः । जात्यखण्डोपाव्यतिरिक्तपदार्थनिष्ठा प्रकारता सावच्छिन्नैव भवतीति नियमेपि संसर्गतापि सावच्छिन्ना भवतीति नियमाभावात् समवाये चात्र संसर्गताया एव स्वीकारान समवायत्वोपस्थितेरपेक्षेति भावः ।
द्रव्यपदात् प्रदर्शितां घटत्वप्रकारक बोधापत्ति पराकरोति - द्रव्यपदादिति शक्तिज्ञाननिष्ठा या 'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्याकारता तादृशाकारताप्रयोजको यो द्रव्यपदजन्यो बोधस्ताEater या विषयता तादृशविषयतानिष्ठा या भगवदिच्छीयविशेष्यतानिरूपिता प्रकारता सा प्रकारता घटत्वावच्छिन्नं यद् घटनिष्ठं बोधविषयत्वं तन्निष्ठा न भवति किं तु द्रव्यत्वावच्छिन्नं यद् द्रव्यनिष्ठं बोधविषयत्वं तन्निष्ठैव भवति - द्रव्यपदजन्य बोधविषयताया द्रव्यत्वावच्छिन्नत्वनियमाद् घटत्वानवच्छिन्नत्वाच्च द्रव्यपदशक्तिज्ञाने द्रव्यस्य द्रव्यत्वेनैव मानाद् घटत्वेन चाऽभानादिति द्रव्यपदात् 'द्रव्यपदाद् द्रव्यं बोद्धव्यम्' इत्याकारकशक्तिज्ञानेन द्रव्यत्वप्रकारक एवं शाब्द बोधः संभवति न प्रकारक इत्यर्थः । यद्युक्तप्रकारता घटत्वावच्छिन्नविषयत्वनिष्ठा स्यात्तदा द्रव्यपदाद् घटत्वप्रकारक बोधः स्यादपि न चैवमस्ति तत्पदजन्यबोधविषयत्वनिष्ठा प्रकारता यद्धर्मावच्छिन्नविषयत्वनिष्ठा भवति तद्धर्मप्रकारक एव बोधो भवतीति नियमस्तथा भगवदिच्छीयविशेष्यतानिरूपितप्रकारता यत्पदजन्यबोधविषयत्वनिष्टा भवति तद्धर्मावच्छिन्नविषयत्वनिष्ठेव भवतिः किंवा तत्परजन्यबोधविषयत्वनिष्ठा प्रकारता यत्तदजन्यबोधविषयत्वनिष्ठप्रकारतानिरूपकभगवदिच्छीय विशेष्यता निरूपिता भवति तद्धर्मावच्छिन्नविषयत्वनिष्ठैव भवतीति नियम इति द्रव्यपदजन्यवोचविषयत्वनिष्ठा प्रकारता द्रव्यपदजन्यबोधविषयत्वनिष्ठप्रकारता निरूपक भगवदिच्छीयविशेव्यतानिरूपिता भवति द्रव्यत्वावच्छिन्नविषयत्वनिष्ठा च भवतीति द्रव्यपदाद् द्रव्यत्वप्रकारक एवं बोधो जायते न वटत्वप्रकारक इत्यभिप्रायः । घटविशेष्यकं द्रव्यपदप्रकारकं शक्तिज्ञानं तु नः श्रमात्मकं भवति येन द्रव्यपदादान्तस्य घटत्वप्रकारक बोधः स्यादित्याह - द्रव्यपदेति, द्रव्यपदाद् घटत्वप्रकारकबोधं प्रति 'द्रव्यपदजन्यबोधीय घटत्वावच्छिन्न विषयत्वनिष्टप्रकारता निरूपित भगवदि