________________
काण्डम् .]
शक्तिवादः । शायां घटादिपदाच्छाब्दवोधानुपपत्तिः, तथा च केन रूपेण शक्तिधियो हेतुता?।
अत्रोच्यते-तत्सम्बन्धेन तद्धर्मप्रकारकशाब्दबोधे तत्संबन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकस्वजन्यबोधविषयत्वप्रकारतानिरूपितेच्छाविशेष्यतात्वावच्छिन्न. संसर्गकतत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठमितावच्छेदकताकपदप्रकारकज्ञानत्वेन विषयताविशेषसंसर्गकाऽर्थविशेष्यकशक्तिज्ञानस्य हेतुता, ईदृशशक्तिग्रहे च संबच्छाब्दवोत्रानुपपत्तिः, तथा च तत्र-शाब्दबोधे=शाब्दबोधं प्रति शक्तिज्ञानस्य केन रूपेण हेतुतेत्यन्वयः । समवायस्य नित्यसंबन्धत्वं तार्किक एव जानातीति तार्किकातिरिक्तस्य नित्यसंबन्धस्वरूपेण समवायोपस्थितिरेव न संभवतीति भावः । समवायनिष्ठया विशेष्यतयापि सावच्छिन्नयैव भवितव्यं पदविशेष्यकशत्तिज्ञाने तु समवायः प्रकारतयैव भासते प्रकारता च जात्यखण्डोपाधिनिष्ट्रवाऽनवच्छिन्ना भवति समवायश्च न जातिवारखण्डोपाधिरिति समवायनिष्ठप्रकारतयापि सावच्छिन्नयैव भवितव्यमिति समवायस्य स्वरूपतः प्रकारत्वासंभवः प्रदर्शितः । घटपदे समवाय. वाचकतास्त्येवेति घटपदविशेष्यकं समवायभानप्रयोजकं शक्तिज्ञानं समवयवाचकताप्रकारक विज्ञेयम् ,समवायस्य प्रकारत्वं च वाचकतायां विज्ञेयम् । .. अर्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुतामाश्रित्य समाधत्ते- अत्रोच्यत इत्यादिना ! तसंबन्धन-व्यथा समवायसंबन्धेन तमप्रकारकशाब्दबोधे-घटत्वादिधर्मप्रकारकघटादिविशेष्यकशाब्दबोधं प्रति तत्संबन्धावच्छिन्ना=समवायसंबन्धावच्छिन्ना या तद्धर्मनिष्ठा घटत्वादिधर्मनिष्ठाऽवच्छेदकता बोधविषयतावच्छेदकता तादृशावच्छेदकताको यः स्वजन्यः घटादिपदजन्यो बोधस्तादृशबोधस्य घटादौ यद्विषयत्वं तादृशबोधविषयत्वनिष्टा या प्रकारता तादृशप्रकारतानिरूपिता या विशेष्यतात्वावच्छिन्ना भगवदिन्छीयविशेष्यता तादृशविशेष्यतासंसर्गकं तथा तत्संबन्धावच्छिन्नासमवायसंबन्धावच्छिन्ना या तद्धर्मनिष्ठा-घटत्वादिधर्मनिष्ठा धर्मितावच्छेदकता (विशेष्यतावच्छेदकता ) तादृशधर्मितावच्छेदकताकं यत् पदप्रकारकं 'उक्तविशेष्यतासंबन्धेन घटपदविशिष्टो घटः' इत्याकारकं ज्ञानम् =अर्थविशेष्यकशक्तिज्ञानं तादृशज्ञानत्वेन रूपेण विषयनाविशेषसंसर्गकस्य भगवदिच्छीयविशेष्यतासंसर्गकस्यार्थविशेष्यकशक्तिज्ञानस्य हेतुता स्त्रीक्रियते इत्यन्वयः, उक्तपदप्रकारकस्य विषयताविशेषसंसर्ग कार्थविशेष्यकशक्तिज्ञानस्य हेतुतेत्यर्थः। तत्सम्बन्धावच्छिन्नतद्धर्मनिष्ठावच्छेदकताकतत्पदजन्यबोधविषयतानिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतासम्बन्धेन घटपदविशिष्टो घटः' इत्येवं शक्तिज्ञानस्वरूप वक्तव्यम, घटे उक्तविशेष्यताऽस्तीति तादृशविशेष्यतासम्बन्धन घटो घट्पदविशिष्टो विज्ञेयः । विष नाविशेषसंसर्गकार्थविशेष्यकशक्तिज्ञानस्य हेतुता स्वीकृता तादृशशक्तिज्ञानस्य स्वरूपं च तत्सम्बन्धविच्छिन्नत्यादिना प्रदर्शितम् । अर्थविशेष्यकशक्तिज्ञाने पदमर्थे विषयताविशेपेम-भावदिन्छीयविशेष्यतासम्बन्धेन प्रकारो भवतीति तादृशशक्तिज्ञानं विषयताविशेषसंसर्गकं विज्ञेयम् । एतदभिप्रायेणैव स्वरूपवाक्ये विशेष्यतात्वावच्छिन्नसंसर्गकेत्युक्तम् । समवायस्य समवायत्वेनोपस्थितेरपेक्षाभावमाह-दृशेति, ईदृशशक्तिहे