________________
सादर्शः
[ सामान्यन च घटपदांशे घटादिवाचकताज्ञानमेव शाब्दबोधहेतु:. एवं च स्वरूपतो घटत्वादिप्रकारकबोधे वाचकत्वांशे स्वरूपतो घटत्वादिप्रकारकज्ञानस्यैव हेतुत्वमिति घटादिपदजन्यबोधे घटत्वत्वाद्युपस्थिते ऽपेक्षेतिवाच्यम् , एवमपि घटादिपदांशे समवायवाचकताप्रकारकज्ञानस्य शाब्दबोधे घटत्वादिसंबन्धतया स्वरूपतः समवायभानप्रयोजकताया वाच्यतया समवायवाचकताज्ञाने च. वाचकतांशे समवायस्य स्वरूपतः प्रकारत्वासंभवेन नित्यसंवन्धत्वरूपसमवायत्वेनैव सयवायावगाहिताया उक्तसमवायभानप्रयोजकत्वस्योपगन्तव्यतयाः तदनुपस्थित्तिद
पदविशेष्यकशक्तिज्ञाने च पदस्यैव विशेष्यतया भानाद् घटत्वस्य च प्रकारतयैव भानात प्रकारतायाश्चाऽनवच्छिन्नाया अपि संभवादऽनवच्छिन्न प्रकारताकबोधस्य स्वविरोधिज्ञानप्रतिबन्धकत्वस्यापि स्वीकाराच न घटत्वस्य घटत्वत्वेन रूपेणोपस्थितेरपेक्षेति न घटत्वत्वाद्यभुपस्थितिदशायां शाब्दबोधानुपपत्तिरित्यभिप्रायेणाशङ्कयाह-- न चति । घटपदांशे घटादिवाचकताज्ञानम् पदविशेष्यकशक्तिज्ञानम्- 'घटपदं घटत्वावच्छिन्नवाचकम् ' इति । एवं च-पदविशेध्यकशक्तिज्ञानस्य शाब्दबोधहेतुत्वे च । स्वरूपतो घटत्वादिप्रकारबोधे-स्वरूपत एव घटत्वारिक प्रकारो यस्मिन् तादृशशाब्दबोधं प्रति । वाचकत्वांशे स्वरूपतो घटत्यादिप्रकारकज्ञानस्यैव वाचकत्वविषयकं यत् स्वरूपतो घटत्यादिप्रकारकं शक्तिशानं तस्यैव शाब्दबोचहेतुत्वमिति घटादिपदजन्यबोधे घटादिपदजन्यबोधं प्रति घटत्वत्वाद्युपस्थिते ऽपेक्षत्यन्वयः। 'स्वनिष्ठावच्छेदकतानि. रूपितावच्छेद्यत्वसंबन्धेन घटत्वावच्छिन्ना या घटपदजन्यबोधविषयता तादृशबोधविषयतानिरू. पको यो बोधस्ताद शबोधजनकत्वनिष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यतावद् घटपदम् । * तादृश विशेष्यतासंवन्धेन घटविशिष्टं घटपदम् । इत्येवं वा पदविशेष्यकशक्तिज्ञानस्वरूप वक्तव्यम् । पदविशेष्यकशक्तिज्ञानपक्षेपि दोषमुद्घाटयति- एवमपीति, एवमपि--पदविशेष्यकशक्तिज्ञानस्य शाब्दबोधकारणत्वं स्वीकृत्योक्तरीत्या घटत्वत्वाद्यनुपस्थितिदशायामपि शाब्दबोधोपपादने कृतेपि घटघटत्वसमवायेषु त्रिष्वव घटपदशक्तिरस्त्येव घटपदजन्यशाब्दबोधे च समवायोपि भासते एवेति स्वीकारात् शाब्दबोधे घटत्वादिसंबन्धतया घटानुयोगिकघटत्वप्रतियोगिकसंबन्धस्वरूपेण यत् स्वरूपतः समवायो भासते तादृशसमवायभानप्रयोजकता घटादिपदांश घटादिपदविषयकं घटादिपदविशेष्यकं यत् समवायवाचकताप्रकारकं शक्तिज्ञानं तस्यैव वक्तव्या. समवाय. वाचकताज्ञाने=उक्तशाब्दबोधकारणीभूतसमवायवाचकताप्रकारकशक्तिज्ञाने च वाचकतांशे सामवायस्य जात्यखण्डोपाध्यतिरिक्तत्वात् स्वरूपतः प्रकारत्वासंभवेन नित्यसंबन्धत्वरूपसमवायत्वेनैव रूपेण शक्तिज्ञाने या समवायावगाहिला तस्या एव उक्तसमवायभानप्रयोजकत्वमुपगन्तव्यमिति समवायनिष्ठप्रकारताया नित्यसंबन्धत्वरूपसमवायत्वावच्छिन्नत्वात् समवायस्य समवायत्वेनैव रूपेण शक्तिज्ञानविषयत्वात् तदनुपस्थितिदशायाम्-समवायत्वानुपस्थितिदशायां घटादिपदा