________________
काण्उम् . ]
शक्तिवादः । घटादिपदनिरूपितवाच्यताग्रहात तत्प्रकारकबाधवारणाय स्वरूपतो घटत्वादिप्रकारकबोधे घटत्वत्वाद्यवच्छिन्नमिकवाच्यत्वग्रहापेक्षोपेया तथा च घटत्वत्वाद्यनुपस्थितिदशायां घटादिपदाच्छाब्दबोधानुपपत्तिः । कृतेपि समवाये या विशेष्यता तयापि सावच्छिन्नया भवितव्यं तदवच्छेदकसमवायत्वं च नित्यसंबधत्वमेवेति नित्यसंबन्धत्वरूपेण समवायानुपस्थितिदशायां शाब्दबोधानुपपत्तिः, समवाये प्रकारतास्वीकारपक्षेपि जात्यखण्डोपाधिनिष्ठेच प्रकारता निरवच्छिना भत्रति समवायस्तु न जातिर्न वाऽखण्डोपाधिः- संबन्धविशेषरूपत्वादिति समवायनिष्ठया प्रकारतयापि नित्यसंबन्धत्वरूपसमवायत्वेन सावच्छिन्नयैव भवितव्यमिति समवायस्य नित्यसंबन्धत्वरूपेणानुपस्थितिदशायां शाब्दबोधानुपपत्तिस्तदवस्थैव, शक्तिज्ञानोपस्थितिशाब्दबोधानां च समानरूपतानियम इति केन रूपेण शक्तिज्ञानं कारणमिति पूर्वपक्षाभिप्रायः । - घटत्वांशे घटत्वविषयकं यनिर्धर्मितावच्छेदककं नाम यस्मिन् घटादिपदनिरूपित्वाच्यताज्ञाने घटत्वे धर्मितावच्छेदकत्वेन कोपि धर्मो न भासेत तादृशशक्तिज्ञानादपि शाब्दबोधो. नेष्टः-घटस्वाशे ताशनिर्धर्मितावच्छेदकाशक्तिज्ञानाद् घटत्वांशे निमितावच्छेदकक एव शाब्दबोधः स्याद निर्मितावच्छेदककशाब्दबोधस्य च स्वविरोधिज्ञानप्रतिबन्धकवाभावेनोपयोगाभावात् तथा यस्मिन् शक्तिज्ञाने घटत्वांशे प्रमेयत्वादिकं धर्मितावच्छेदकत्वेन भासेत. तादृशादपि घटादिपदनिरू. पितवाच्यताग्रहात शाब्दबोधो नेष्टः-तादृशशाब्दबोधे घटत्वस्य प्रमेयत्वेन भानं स्याद् घटत्वस्य प्रमेयत्वेन च भानासंभव एवेति घटत्वांशे निर्धर्मितावच्छेदककशक्तिज्ञानाद् घटस्वांशे निर्मितावच्छेदककबोधवारणाय घटत्वांशे प्रमेयत्वादिधर्मितावच्छेदककशक्तिज्ञानात् प्रमेयत्वादिप्रकारकबोधवारणाय च स्वरूपतो घटत्वादिप्रकारकबोधे नाम यस्मिन् शाब्द. बोधे घटत्वं घटत्वत्वादिरूपेण न भासते किं तु स्वरूपेणैव भासेत तादृशोधार्थमपि घटत्वत्वाद्यवच्छिन्नधर्मिकवाच्यत्वग्रहापेक्षा स्वीकार्या अर्थात् यद्यपि शाब्दबोधः स्वरूपत एव घटत्वप्रकारक इष्टस्तथापि वाच्यत्वग्रहः वटत्वविषयकं शक्तिज्ञान तु घटत्वत्वावच्छिन्नधर्मिकमेव स्वीकार्य तथा च शक्तिज्ञानशाब्दबोधयोः समानप्रकारकत्वनियमाद् अनवच्छिन्नघटत्वविषयकोपि शाग्दबोधो न भविष्यति प्रमेयत्वादिप्रकारकघटत्यविषयकोपि शाब्दबोधो न भविष्यति शक्तिज्ञानेन घटत्वत्वावच्छिन्नस्यैव घटत्वस्याऽऽकलनात् तथा च-घटत्वांशे घटत्वत्वावच्छिन्नधर्मिकशक्तिज्ञाने स्वीकृते च शाब्दबोधार्थं घटत्वस्य घटत्वत्वेनैव रूपेणोपस्थितेरपेक्षा प्राप्तेति :घटत्वत्वाद्यनुपस्थितिदशायां घटादिपदाच्छाब्दबोधानुपपत्तिरित्यर्थः । । नन्वर्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुत्वे हि घटत्वविषयकशक्तिज्ञाने घटत्वस्य विशेष्यतया मानाद् विशेष्यतायाश्च सावच्छिन्नत्वनियमाद् घटत्वत्वाद्यनुपस्थितिदशायां शाब्दबोधानुप, पत्तिरस्तीति नार्थविशेष्यकशक्तिज्ञानस्य शाब्दबोधहेतुत्वं वक्ष्यामः किं तु पदविशेष्यकशक्तिज्ञानस्य