________________
(४८) सादर्श:
[सामान्यदकीकृत्य द्रव्यादिपदशक्तिज्ञानस्यापि कालिकादिसंधन्धेन घटत्वादिकं धर्मिताबच्छेदकीकृत्य घटादौ घटादिपदशक्तिग्रहस्यापि च प्रमात्वेनोक्तातिप्रसङ्गा. ऽवारणातू ।
एवमपि घटत्वांशे निर्मितावच्छेदककात् प्रमेयत्वादिमितावच्छेदककात्र
घटत्वविशिष्ट वटव्यक्तिमात्रविषयकवटपदशक्तिज्ञानस्य समवायसंबन्धेन घटत्वप्रकारकबोधं प्रति कारणत्वं न वक्तव्यमन्यथा-घटत्वं धर्मितावच्छेदकीकृत्य घटविषयकं यद् द्रव्यपदशक्तिज्ञानं तदपि यथार्थत्वात् प्रमैव-घटस्य द्रव्यत्वादिति घटत्वोपलक्षितविषयकद्रव्यपदशक्तिज्ञानादपि घटत्वप्रकारफबोध आपयेत न चैतदिष्टम्-द्रव्यपदशक्तिज्ञानाद् द्रव्यत्वप्रकारकबोधस्यैवेष्टवात्, तथा कालिकसंबन्धेनापि घटस्वं घटे वर्तत एवेति कालिकसंबन्धेन घटत्वं धर्मितावच्छेदकं मत्वा घटादौ= घटविषयकं यद् बटपदशक्तिज्ञानं तदपि यथार्थत्वात् प्रमैवेति बटपदशक्तिज्ञानात् कालिकसंबन्वेनापि घटत्वप्रकारकबोध आपद्यत न चैतदष्टम्-बटपदशक्तिज्ञानात् समवायसंबन्धेनैव घट. स्वप्रकारकबोधस्येष्टत्वात्, यदा तु विशेषणीभूततद्धर्मतत्सबन्धतद्धर्मिषु त्रिवेव तत्पदवाच्यत्यावगाहिज्ञानस्य तत्संबन्धेन तद्भर्मप्रकारकबोधं प्रति कारणस्वमुच्यते तदा तु द्रव्यपदसंकेते द्रव्यत्वस्यैवा. वच्छेदकत्वेन भानाद् घटत्वस्य चाऽभानाद् द्रव्यपदशक्तिज्ञानाद् घटत्वप्रकारकबोधस्यापत्तिर्नास्ति तथा घटादिपदशक्तिज्ञान संबन्धाशे समत्रायविषयकमेव भवतीति धटपदशक्तिज्ञानात् समवायातिरिक्तकालिकादिसंबन्धेनापि घटत्वप्रकारकबोधस्यापत्तिनास्तीति । उक्तातिप्रसङ्गः द्रव्यपदशक्ति. ज्ञानाद् घटत्वप्रकारकबोधातिप्रसङ्गो घटपदशक्तिज्ञानात् कालिकादिसंबन्धेन घटत्वप्रकारकबो. धातिप्रसङ्गश्च ।
तत्संबन्धेन तद्धर्मप्रकारकबोवं प्रति विशेषणीभूततद्धर्मतत्संबन्वतद्धर्मिषु त्रिष्वेव तत्पदवाच्यत्वावाहिशेक्तिज्ञानस्य कारणत्वस्वीकारेणोक्तातिप्रसङ्गयोारणे कृतेपि दोषान्तरं किं वेष्टबोधस्यानुपपत्तिमुद्धाटयति-एवमपीत्यादिना । तथा हि घटघटत्वसमवायेषु त्रिष्वपि शक्तिस्वीकारपक्षे--आश्रयत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितविशेष्यता घटे अवच्छेदकत्वसंबन्धाव. छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यता घटेल्वे स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपविशेष्यता च सयवाये प्राप्ता तत्र घटे तु विशेष्यता युक्तैव-विशेष्यतायाः सावच्छिन्नस्वनियमाद् घटनिष्ठविशेष्यतायाश्च घटत्वावच्छिन्नत्वात्, घटत्वे या विशेष्यता तयापि घटत्वत्वधर्मेण सावच्छिन्नयैव भवितव्यमिति घटत्यस्य वटत्वत्वरूपणोपस्थितेरपेक्षा प्राप्ता घटत्वस्य घटत्वत्वरूपेणोपस्थित्यभावदशायां शाब्दबोधानुपपत्तिः, एतदोपरिजिहर्षिया यद्युक्तप्रकारेण घटत्वे विशेष्यतां त्यक्त्वा प्रकारता स्वीक्रियते तदा जात्यऽखण्डोपाधिनिष्ठप्रकारताया निरवच्छिन्नत्वस्वीकारेण घटत्वस्य च जातिरूपत्वाद् घटत्वत्वेन रूपेणोपस्थित्यपेक्षाभावाद् घटत्वत्वेन रूपेणानुपस्थितिदशायां शाब्दबोधानुपपत्तिवारणे