________________
काण्डम् ] शक्तिवादः।
(४७) अथ घटत्वाद्युपलक्षिते: द्रव्यपदशक्त्यवगाहिप्रमातो घटत्वादिप्रकारकस्य वटादिपदशक्तिप्रमातः कालिकादिसंबन्धेन घटत्वादिप्रकारकस्य च शाब्दबोधस्थ वारणाय तत्सम्बन्धेन तद्धर्मप्रकारकबोधं प्रति तत्संबन्धेन तद्धर्मविशिष्टांशे तत्पदवाच्यत्वावगाहि ज्ञानं कारणं वाच्यं विशिष्टांशे तत्पदवाच्यत्वावगाहित्वं च विशेषणीभूततद्धर्मतत्संबन्धतदयंशे तदवगाहित्वरूपं वाच्यं न तु तेन
संबन्धेन तद्धर्म धर्मितावच्छेदकीकृत्य तदवगाहित्वम्-घटत्वादिकं धर्मितावच्छे. तावच्छेदकत्वेन रूपेण तथात्वरूपम् संकेतविषयत्वरूपं विज्ञेयं तदेव बोधविषयतावच्छेदकत्वमेव शक्यतावच्छेदकत्वं यथा घटत्वादौ, घटघटत्वसमवायेषु त्रिषु घटपदशक्तिस्वीकाराद् घटत्वादेः पदार्थैकदेशत्वमेव पदार्थत्वं च घटादेरेवेत्यर्थः । तथा चाश्रयत्वसंबन्धावच्छिन्नबोधविषयतावावच्छिन्न प्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वं पदार्थत्वम्, अवच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यताश्रयत्वं पदार्थैकदेशत्वमिति सिद्धम् ।
संप्रति यद्रूपेण शक्तिज्ञानस्य शाब्दबोधहेतुत्वमस्ति तद्रूपनिरूपणमारभते-अथेत्यादिना । मनु घटत्योपलक्षिते घटे नाम घटत्योपलक्षितघटविषयकं यद् द्रव्यपदशक्तिज्ञानं तदपि यथार्थस्त्रात् प्रमैव तादृशद्रव्यपदशक्तिज्ञानाद् द्रव्यत्यप्रकारक एव बोध इष्टः-द्रव्यपदसंकेते द्रव्यत्यस्यैत्र प्रकारतया भानाद् न तु घटत्वप्रकारकोपि बोध इति घटत्वोपलक्षितविषयकद्रव्यपदशक्तिज्ञानाद् घटत्वप्रकारकबोधोत्पत्तेर्वारणाय तथा बटपदशक्तिज्ञानादपि समवायसंबन्धेनैव घटत्वप्रकारकबोधो नाम समवाय संबन्धावच्छिन्नघटत्वनिष्टप्रकारताक एवं बोध इष्टः- वटपदसंकेते प्रकारतावच्छेदकसंबन्धत्वेन समवायस्यैव प्रवेशाद् न तु कालिकादिसंबन्धेनापि घटत्वप्रकारकबोध इष्ट इति वटपदशक्तिज्ञानादपि कालिकादिसंबन्धावच्छिन्नघटत्वनिष्ठप्रकारताकबोधोत्पत्तरिणाय तत्सम्बन्धेनसमत्रायसंबन्धेन तद्धर्मप्रकारवोत्रम् घटत्वादिधर्मप्रकारकबोधं प्रति तत्संबन्धेनः-समवायसंबन्धेन तद्धर्मविशिष्टांशे घटत्वादिधर्मविशिष्टा या घटादिव्यक्तिस्तद्विषयकं यत् तत्पदवाच्यत्वावगहि-समवायेन घटत्वविशिष्टो वटो घटपदवाच्यः' इत्याकारकं शक्तिज्ञानं तस्यैव कारणत्वं वक्तव्यं तथा च द्रव्यपदसंकेते द्रव्यत्वस्यैवावच्छेदकत्वेन मानाद् द्रव्यपदशक्तिज्ञानाद् घटत्वप्रकारकबोधस्यापत्तिर्नास्ति तथा घटपदसंकेते प्रकारतावच्छेदकसंबन्धत्वेन समवायस्यैव भानाद् घटपदशक्तिज्ञानात् कालिका दिसंबन्धेनापि घटत्वप्रकारकबोधस्यापत्तिर्नास्तीत्यर्थः । तत्संबन्धेन तद्धर्मविशिष्टांशे तत्पदवाच्यबावगाहित्वं परिष्करोति-विशिष्टांश इति,विशेषणीति-विशेषणीभूतो यो घटस्वादिरूपो धर्मस्तादृशधर्मस्य च व्यक्तौ यः समवायरूपः संबन्धस्तयोर्धमिभूता च या घटादिव्यक्तिस्तेषु त्रिष्वव तदवगाहित्वरू. पम् घटादिपवान्यत्वावगाहित्यरूपं विशिष्टांशे तत्पदवाच्यत्वावगाहित्वं वक्तव्यं न तु तेन समवायसंबन्धेन तद्धर्मम् घटत्वादिकं धर्मितावच्छेदकीकृत्य धर्मितावच्छेदकमात्रं कृत्वा तदवगाहित्यम्= बटादिपदवाच्यत्वावगाहित्वरूपम्-अर्याद् घटत्वं समवायसंबन्धेन धर्मितावच्छेदकं मत्या समवायेन