________________
सादर्शः
[ सामान्य-- तन्न- 'लोम पशुपदजन्यवोधविषयतावच्छेदकं भवतु' इत्यादिसंकेतविषयकादऽवच्छेदकतासंसर्गकतादृशबोधविषयत्वप्रकारताकसंकेतमुख्यविशेष्यं लोमेतिज्ञानालोमादिमुख्यविशेष्यकशाब्दबोधानुदयेनाश्रयत्वसंबन्धावच्छिन्नत्वेन तादृशशाब्दबोधविषयत्वप्रकारताया अवश्यं निवेशनीयत्वात् तत्र च लोमावच्छिन्नविशेष्यकबोधस्यैव संकेतविषयतया ग्रहेणाऽन्यादृशबोधोत्पत्तेरनुभवविरुद्धतयेष्टापत्तेरयोगात् ।
एवं च ‘पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन' इत्यत्र पदार्थत्वम्-बोधविषयताश्रयत्वेन संकेतविषयत्वम् । तदेकदेशत्वं च बोधविषयतावच्छेदकत्वेन तथात्वरूपं तदेव शक्यतावच्छेदकत्वमित्यवधेयम् ।।
उक्तपूर्वपक्षं पराकरोति- तनेत्यादिना, यदि संकेतमुख्यविशेष्यतासम्बन्धेन शक्तिज्ञानमुक्तरीत्या पदार्थान्तरान्वयं प्रति मुख्यविशेष्यताकशाब्दबोधं प्रति च कारणं स्यात्तदा 'लोम पशुपदजन्यबोधविषयतावच्छेदकं भवतु' इत्याकारकसंकेतविषयकं यद् अवच्छेदकतासंसर्गावच्छिन्नतादाबोधविषयत्वप्रकारताकं संकेतमुख्यविशेष्यं लोमेतिज्ञानं नामाऽवच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यताश्रयो लोमेतिज्ञानं तस्मालोमविषयको मुख्यविशेध्यताकः शाब्दबोधो भवेदेव--उक्तसंकेते लोम्नामेव मुख्यविशेष्यत्वाद् न चोक्तसंकेतज्ञानालोमविषयको मुख्यविशेष्यताकः शाब्दबोधो जायते इति तादृशशाब्दबोधानुदयोपपादनाय तादशशाब्द बोधविषयत्वप्रकारताया आश्रयत्वसंबन्धावच्छिन्नत्वेन रूपेण निवेशः कर्तव्यो यथा- पदार्थान्तरान्वयं प्रति मुख्यविशेष्यताकशाब्दबोधं प्रति चाश्रयत्वसंबन्धावच्छिन्नबोधविषयतात्यावच्छिन्नप्रकारतानिरूपितविशेष्यतासंबन्धेन शक्तिज्ञानं कारणमिति । ननु 'लोम पशुपदजन्यबोधवियय. तावच्छेदकं भवतु' इत्याकारकसंकेतविषयकादुक्तज्ञानादपि लोमादिविषयक मुख्यविशेष्यताकः शाब्दबोधो भवतु को दोष इत्याशङ्कयाह-तत्र चेति, तत्र-उक्तसंकेतविषयकोक्तज्ञानस्थळे लोमावच्छिन्ना या पशुव्यक्तिस्तद्विशेष्यकबोधस्यैव संकेतविषयतया ग्रहेण तादृशसंकेतग्रहेण पशुव्यक्तिविशेष्यक एव शाब्दबोधो जायते. अन्यादृशबोधोत्पत्तः-लोमादिविशेष्यकबोधोत्पत्तेरनुभवविरुद्धतया लोमादिविशेष्यकबोधोत्पत्ताविष्टापत्तिर्न संभवतीत्यर्थः । 'लोम पशुपदजन्यबोधविषयतावच्छेदकं भवतु' इत्याकारकसंकेते लोम्नां बोधविषयतावच्छेदकत्वेन विषयतया तादृशसंकेतग्रहेण पशुव्यक्तिविशेष्यकलोमप्रकारक एव बोधो युक्तः अर्थादू यस्मिन् बोधे लोम बोधविषयतावच्छेदकत्वेन भासेत तादश एव बोधो युक्तस्तादृशबोधश्च पशुव्यक्तिविशेष्यक एव संभवति न तु लोमविशेष्यक इति सारः।
एवं चेति- एवं च=आश्रयत्वसंबन्धावच्छिन्नबोधविषयतायाः पदार्थान्तरान्वयप्रयोजकत्ये च सिद्धे 'नीलादिपदार्थः पदार्थेन घटादिनैवाऽन्वेति न तु पदार्थंकदेशेन घटत्वादिना' इत्यत्र बोधविषयताश्रयत्वेनैव रूपेण संकेतविषयत्वं पदार्थत्वम्. तदेकदेशत्यम्=पदार्थैकदेशत्वं च बोधविषय