________________
काण्डम् .. शक्तिवादः ।
(४५) · यत्नु तदंशे संकेतमुख्यविशेष्यताग्रहस्तोतरान्वयबोधप्रयोजक: ‘लोमादिमान् पशुपदाद् बोद्धव्यः' इत्याकारकसंकेते लोमाद्यंशे बोधविषयतायाः प्रकारत्वेपि लोमादेमिविशेषणतापन्नस्यैव तादृशविषयताविशेष्यत्वं न तु मुख्य विशेध्यत्वमतो शक्तिभ्रम विना न लोमादी पदार्थान्तरान्धय इति तादृशबोधविषयत्वप्रकारतायामाऽऽश्रयत्वसंसर्गावच्छिन्नत्वविशेषणमनर्थकमिति, ।
जन्यबोधविषयत्वप्रकारतानिरूपितभगवदिच्छीयविशेष्यतानमो भवति तदा तु घटत्वादी पदार्थतावच्छेदकेपि पदार्थान्तरान्वय इष्ट एवेत्याह-- शक्तिभ्रममिति ।
ननु पदार्थन्तिरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्येन शाब्दबुद्धित्वावच्छिन्न प्रति आश्रयस्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितविशेष्यतासंबन्धन ‘शक्तिज्ञानं कारणमित्येवं कार्यकारणभावकल्पनाया अपेक्षा नास्ति-आश्रयत्वसम्बन्धनिवेशेत गौरवात् किं तु पदार्थांतरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धन शाब्दबोधं प्रति : संकेतमुख्यविशेष्यतासंबन्धेन शक्तिज्ञानं कारणमित्येवं कार्यकारणभावकल्पना कर्तव्या तथा च 'नीलो घटः । इत्यत्र संकेतमुख्यविशेष्यतासम्बन्धेन शक्तिज्ञानं घटविषयकमेवास्तीति घटे नीलपदार्थान्वयः, 'नित्यो घटः । इत्यत्र च घटत्वे शक्तिज्ञानं संकेतमुख्यविशेषतासंबन्धेन नास्ति-घटत्वे प्रकारताया अपि सत्त्वात् प्रकारताऽसमानाधिकरणाया एव विशेष्यताया मुख्यत्वसंभवादिति न घटत्वे नित्यत्यान्वयसंभवो घटे च नित्यत्वं बाधितमेव । एवम् 'लोमादिमान् पशुपदाद् बोद्धव्यः' इत्याकारकभगवत्संकेते यद्यपि लोन्नो लोमत्वेन रूपेणोपस्थितिरप्यस्ति बोधविषयतानिरूपितविशेष्यतापि लोमस्वऽस्ति तथापि लोमसु न संकेतमुख्यविशेष्यता-अवयविनिष्ठविशेष्यतानिरूपितप्रकारताया अपि सत्वादिति — दी| लोमादिमान् ' इत्यत्र दीर्घत्वस्य न लोमस्वन्वयापत्तिः किं तु लोमादिमत्येव तथा च त्वदुक्तरीत्या बोधविषयतात्वावच्छिन्नप्रकारतायामाश्रयत्वसंबन्धावच्छिनत्वविशेषणमनर्थकमेवेत्याशङ्कते-यत्त्विति । लोमाशे बोधविषयतायाः प्रकारत्वेपि नाम लोमसु बोधविषयतात्वावच्छिन्नप्रकारतानिरूपितविशेष्यतायाः सस्वेपि लोमादेमिभूतव्यक्ती विशेपगत्वेन प्रकारत्वात् प्रकारतासमानाधिकरणमेव तादृशविषयताविशेष्यत्वम् बोधविषयतानिष्टप्रकारतानिरूपितविशेष्यत्वं न तु मुख्यविशेष्यत्वम्-प्रकारताऽसमानिधिकरणं विशेष्यत्वमिति न लोमादौ दीर्घत्वादिपदार्थान्तरान्वयापत्तिरित्यन्वयः । पशुपदस्य लोमसु शक्तिभ्रमे तु .लोमसु पदार्थान्तरान्वय इष्ट एवेत्युक्तम्-शक्तिभ्रममिति । 'नित्यो घटः' इत्यत्र तु घटस्वस्यान्वयितावच्छेदकत्वेनैवोपस्थितिर्भवति नं स्वऽन्वयित्वेन घटत्वत्वेन रूपेणापि येन घटत्वे नित्यत्वान्वयापत्तिः स्यादिति तदुदाहरणं त्यक्त्वा लोमादिमानित्युदाहृतं लोम्नां च लोमत्वेन रूपेणोपस्थिति-- स्वीकारात्तत्र दीर्घत्यादिपदार्थान्तरान्वयापत्तिरस्तीत्यनुसंधेयम् । यस्मिन् संकेतमुख्यविशेष्यतातस्मिन् पदार्थान्तरान्वय इति सारः ।