________________
सादर्श:
[ सामान्य-
घटघटत्वसंसर्गेषु संकेतविषयतानां मिथो वैलक्षण्येपि तन्निरूपक बोधविषयताया ऐक्याच्छक्त्यैक्यमवादो न तु संकेतैक्यात् - शक्तशक्यतावच्छेदकभेदेनापि शक्तिभेदानुपपत्तेः - भगवत्संकेतस्याऽभेदात् ।
( ४४ )
तदंशे आश्रयत्व संबन्धावच्छिन्न बोधविषयत्वप्रकारता निरूपित संकेतविषयतावगाहिज्ञानस्यैव पदार्थान्तरान्वयबोधोपयोगित्वमिति शक्तिभ्रमं विना न पदातावच्छेदके पदार्थान्तरान्वयः ।
येषु कथमेका शक्तिः स्यादित्याशङ्कयाह - घटघटत्वेति घटघटत्व संसर्गेषु संकेतविषयतानां स्वसंवन्धभेदेन मिथो वैलक्षण्येपि = परस्परं भेदेपि तन्निरूपकबोधविषयतायाः = भगवत्संकेत निरूपकघटादिपजन्यबोध विषयतायास्त्रिष्वैक्याच्छत्तयैक्यप्रवादो न तु संकेतैक्यादित्यर्थः । संकेतैक्येन शक्त्यैक्यस्वीकारे बाधकमाह - शक्तेति, यदि संकेतभेदेनैव शक्तिभेदः संकेतैक्येन च शक्त्यैक्यं स्यात्तदा भगवदिच्छारूपस्य संकेतस्य नित्यत्वेनाऽभेदात् = एकत्वात् शक्तभेदेनापि = घटपटादिपदानां शक्तानां भेदेनापि शक्तिभेदो न स्यात्तथा शक्यतावच्छेदकानां घटखपटत्वादीनां भेदेनापि शक्तिभेदो न स्याद् इष्टश्च शक्तशक्यतावच्छेदकभेदेन शक्तिभेद इति संकेतनिरूपकबोधविषयताया एव भेदाभेदौ शक्तिभेदाभेदनियामका वित्यभ्युपगन्तव्यमित्यर्थः । नन्वेवं घटत्वादेरपि वाच्यत्वेन पदार्थखातू ' नित्यो घटः ' इत्यादी पदवाच्यघटले नियत्वरूप पदार्थान्तरस्यान्वयः स्याद् न चैतदिष्टम्, किं वा घटले नित्यत्वपदार्थान्वयतात्पर्येण 'नित्यो वट:' इति प्रयोगः स्याद् घटत्वस्याप्युक्तरीत्या घटपदवाच्यत्वेन पदार्थत्वाद् न चैतदिष्टमित्यभिप्रायेणाह - तदंशे इति, पदार्थान्तरनिष्ठप्रकारता निरूपित विशेष्यतासंबन्धेन शाब्दबोधं प्रति आश्रयत्व संबन्वावच्छिन्नवोधविषयतात्वावच्छिन्नप्रकारतानिरूपित विशेष्यतासंबन्धेन शक्तिज्ञानं कारणं तथा च ' नीलो घटः ' इत्यत्र पदार्थान्तरनीलनिष्ठप्रकारता निरूपितविशेष्यतासंबन्धेन शाब्दबोधं प्रति आश्रयत्यसंबन्धेत्याद्युक्तरूपेण शक्तिज्ञानं कारणमिति प्राप्तमाऽऽश्रयत्व संबन्धेत्यादिरूप - शक्तिज्ञानं च घटस्यैवास्ति न घटत्वादेरिति नीलपदार्थस्य घटे एवान्वयो भवति न घटत्वे एवम् ' नित्यो घटः ' इत्यत्राप्याश्रयत्यसंबन्धेत्याद्युक्तरूपेण शक्तिज्ञानं घटस्यैवास्ति न घटत्वस्येति घंटे एव नित्यत्वान्वयः स्यान्न घटत्वे घटे च नित्यत्वं बाधितमिति ' नित्यो घट: ' इतिप्रयोगो न भवति । यस्मिन् घटादौ बोचविषयत्वप्रकारतानिरूपित भगवदिच्छीय विशेष्यता आश्र यत्वसंबन्धेन वर्तते तस्मिन्नेव पदार्थान्तरस्यान्ययो भवति नान्यत्रेति सारः । संकेतविषयता=भगवदिच्छीयविशेष्यता तदवगाहि तद्विषयकं यच्छक्तिज्ञानं तस्यैव पदार्थान्तरान्चयबोधकारणत्वमित्यन्वयः । यद्विषयकमुक्तसंकेतविषयतावगाहिशक्तिज्ञानं भवति तत्र पदार्थान्तरान्वयो भत्रति यथा घटादिव्यक्तिौ न तु घटत्वादौ घटत्वे अवच्छेदकत्व संबन्धेनैवोक्तरीत्या भगवदिच्छीय विशेष्यतायाः सत्त्वादित्यर्थः।यदि च वटपदस्य घटत्वे शक्तिभ्रमो भवति नाम घटत्वे एवाश्रयत्व संबन्धेन घटपद
7
.