________________
काण्डम्.] · शक्तिवादः।
(४३) मानेऽवच्छेदकत्वेऽवच्छेदकतया भासमानत्वं समवायस्य. इति त्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते इति त्रयाणां वाच्यतोपपत्तिः ।
दकत्वं समवायेस्तीति घटघटत्वसमवायेतित्रितयमेव घटपदजन्यबोधविषयतायामुपयुज्यते अन्वेतीति त्रयाणामेव वाच्यतोपपत्तिः, त्रिध्वेव शक्तिरित्यर्थः । " ज्ञातमुपयुज्यते" इति पाठे तु त्रितयमेव घटपदजन्यबोधविषयताविषयकज्ञानविषयो भवतीति त्रयाणां वाच्च. तोपपत्तिरित्यर्थः।
अत्र च- अनवस्छिन्नधर्मिताकज्ञानस्य स्त्रविरोधिज्ञानप्रतिबन्धकत्वं न भवति अत्र तु 'घटत्वं चटपदजन्यबोधविषयतावच्छेदकम् । इतिज्ञानस्य 'घटत्वं घटपदजन्यत्रोधविषयतावच्छेदक न' इत्याकारकज्ञान प्रति प्रतिबन्धकत्वमिष्टमस्ति तदर्थं घटत्वस्य घटत्वत्वेन रूपेणोपस्थितिः स्वीकार्य तथा च घटत्वनिष्ठधर्मिताया घटत्यत्वेनावच्छिन्नत्वसंभवेयुक्तप्रतिबध्यप्रतिबन्धकभाव उपपद्येत घटत्यस्य चात्र स्वरूपेणैवोपस्थितिर्भवति न तु घटत्वत्वेन रूपेण गौरवादिति घटत्ये विशेष्यता न स्वीकार्या किं तु प्रकारतैव अनवच्छिन्नप्रकारताकज्ञानस्य तु स्वविरोधिज्ञानप्रतिबन्धकत्वं संभवतीत्युक्तप्रतिबध्यप्रतिबन्धकमावोपपत्त्यर्थ पक्षान्तरेण घटत्वे प्रकारत्वमुक्तम्, अस्मिन् पक्षे 'घटपदजन्यबोधविषयता घटत्वावच्छिन्ना भवतु ' इत्येवं भगवदिच्छाया आकारः, तथा च स्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वसंसर्गावच्छिन्नघटत्वनिष्ठप्रकारतानिरूपितबोधविषयतात्वावच्छिन्ना विशेष्यता तत्पदजन्यबोधविषयतायां विज्ञेया स्वं घटत्वम् । एवं समवायस्यापि समवा. यत्वेनोपस्थितिस्वीकारे गौरवाद् अनवच्छिन्नधर्मिताकज्ञानस्य च स्वविरोधिज्ञानप्रतिबन्धकत्वासंभवाब 'समवायो घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको भवतु' इति ज्ञानस्य 'समवायो घटपदजन्यबोधविषयतावच्छेदकतावच्छेदको न' इत्याकारकज्ञानप्रतिबन्धकत्वं न स्यादिति समवायेपि प्रकारतैव स्वीकार्या न तूक्तरीत्या विशेष्यता अस्मिन् पक्ष ' घटत्वनिष्ठा बोधविश्यता समवायसंबन्धावच्छिन्ना भवतु । इति भगवदिच्छाया आकारः, तथा च स्वनिष्ठावच्छेदकतानिरूपितावच्छेदकतानिरूपितावच्छेद्यत्वसंबन्धावच्छिन्ना समवायनिष्ठप्रकारतानिरूपितबोधविषयतात्वावच्छिन्ना विशेष्यता तत्पदजन्यबोधविषयतायां विज्ञेया. अत्र स्त्रं घटत्वं घटत्वनिष्ठावच्छेदकतावच्छेदकत्वं समवाये समवायनिष्ठावच्छेदकतानिरूपितावच्छेद्यता बोधविषयतायां समवायनिष्ठप्रकारतानिरूपितविशेष्यतापि बोधविषयतायां प्राप्ता तथा चानवच्छिन्नप्रकारताकज्ञानस्य तु स्वविरोधिज्ञान प्रतिबन्धकत्वसंभवादुक्तप्रतिबध्यप्रतिबन्धकभाव उपपद्यते इत्यवधेयम् ।
ननु संकेतविषयता भगवदिच्छीयविशेष्यतोक्तरीत्या घटे आश्रयत्वसंबन्धेन. घटत्वे स्वनिष्ठा. वच्छेद्यतानिरूपितावच्छेदकत्वसंबन्धेन समवाये च स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धेन वर्तत इति घटघटत्वसंसर्गेषु घटघटत्वसमवायेषु वर्तमानानां तादृशसंकेतविषयतानां संबन्धभेदेन भेदात् तत्पदजन्यबोधविषयताप्रयोजकसंबन्धस्यापि चोक्तरीत्या भेदाद् घटघटत्वसमवा.