________________
(४२) सादर्श:
[सामान्यशक्तिरितिव्यपदेशनियामकः, 'घटपदादू घटो बोद्धव्यः' इत्येतादृशेच्छायां च घटत्वावच्छेदेन बोधविषयत्वमवगाहमानायां समवायावच्छिन्नं बोधविषयतावच्छेदकत्वं घटत्वे समवायेन घटत्वावच्छेद्यत्वं वा विषयतायां संसर्गमर्यादया भासते ।
एवं चाऽऽश्रयत्वसंबन्धावच्छिन्नबोधविषयत्वप्रकारतानिरूपितविशेष्यत्वं घटस्य. अवच्छेदकत्वसंसर्गावच्छिन्ना घटविशेषणतापन्नबोधविषयत्वस्य या प्रकारता तन्निरूपितविशेष्यत्वं घटत्वस्य. घटविशेषणतापन्नबोधविषयत्वांशेवच्छे
धत्वसंबन्धेन प्रकारत्वं वा घटत्वस्थ. घटत्वे बोधविषयतायाः संसर्गविधया भासघटपदजन्यबोधविषयतावच्छेदकं भवतु' इति च भगवदिच्छाया आकारः । स्वनिष्ठावच्छेद्यतानिरूपितावच्छेदकतावच्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यतारूपसंबन्धेन घटादिपदजन्यबोधविषयता घटत्वादिसमवाये वर्तते इति घटत्यादि समवायेपि घटादिपदशक्तिः, अत्रापि पूर्ववदेव स्वं बोधविषयता तादृशबोधविषयतानिष्टावच्छेद्यता निरूपितावच्छेदकता घटत्वे घटत्वनिष्टतादृशावच्छेदकताया अबच्छेदकत्वं समवाये तादृशसंबन्धन घटादिपदजन्यबोधविषयता समवाये तादृशबोधविषयतानिष्टप्रकारतानिरूपितविशेष्यता समवाये वर्तत एव, 'समवायो बटपदजन्यबोधविषयतावच्छेदकतावच्छेदको भवतु' इति च भगवदिच्छाया आकार: बोधविषयता हाश्रयतासंबन्धेन व्यक्ती स्वावच्छेदकतासंबन्धेन घटत्वादौ स्वावच्छेदकता वच्छेदकत्वसंबन्धेन च समवाये वर्तत इति त्रिष्वेव शक्तिरिति नियम उपपद्यते इति सारः । स्वयमपि विशदयति- घटपदादित्यादिना, घटत्वावच्छेदेन-घटत्वावच्छिन्नं यद् घनिष्ठ घटपदजन्यबोध: विषयत्वं तदवगाहमानायाम् तद्विषयकायाम् 'घटपदाद् घटो बोद्धव्यः' इत्याकारायां भगवदिच्छायां समवायेन बोधविषयतावच्छेदकत्वं घटत्वे संसर्गमर्यादया आकाक्षाबलेन भासतेबोधविषयतायाः समवायेन घटत्वस्य च घटे सत्वात्तयोरवच्छेद्यावच्छेदकभावः, किं वा समवायेन वटत्वावच्छेद्यत्वं बोधविषयतायां संसर्गमर्यादया भासते इत्यन्वयः । अत्र ' बोधविषयतावच्छेदकतावच्छेदकत्वं समवाये समवायावच्छिन्नघटत्वावच्छिन्नत्वं वा बोध विषयतायां संसर्गमर्यादया भासते' इति शेषः ।।
तत्पदजन्यबोधविषयताप्रयोजकसंबन्धस्य त्रैविध्यं स्वयमप्याह- एवं चेत्यादिना । सर्वं चैतत् पूर्वमेव स्पष्टीकृतम् । घटस्येत्यत्रास्तीतिशेषः, घटे इति यावत् । क्टविशेषणतापनेति- घटे विशेषणताप्राप्तमपि बोधविषयत्वमवच्छेदकत्वसंबन्धेन घटत्वे वर्तते इति' तादृशबोधविषयत्वनिष्टाऽवच्छेदकत्वसंबन्धावच्छिन्ना या प्रकारता तन्निरूपितविशेभ्यता घटत्वस्य-बटवे इत्यर्थः । पक्षान्तरमाह- घटविशेषणतेति, उक्तघटत्वनिष्ठावच्छेदकतानिरूपितावच्छेद्यत्वं घटविशेषणतापनबोधविषयतायामस्तीति तादृशावच्छेद्यत्वसंबन्धेन वटत्वस्य बोधविषयतायां प्रकारत्वं वा वक्तव्यमित्यर्थः । घटत्वे इति- बोधविषयतानिष्ठावच्छेद्यतानिरूपितावच्छेदकत्वं वटत्वे यदस्ति तदबन्छे.