________________
काण्डम्.]
शक्तिवादः। अथ ‘घटशब्दाद् घटो बोद्धव्यः' इत्याकारिकाया भगवदिच्छाया बोधविशेषविषयतात्वेन बोधविषयतानिष्ठप्रकारतानिरूपितविशेष्यता घटे एव न तु घटत्वादौ विषयतामात्रं च वस्तुमात्रे एवेति कथं घटपदशक्तिर्घटत्वादिषु त्रिष्वेवैति नियम इतिचेत् ?, .
ईश्वरेच्छायास्तत्पदजन्यशाब्दबोधविषयताप्रयोजकः संबन्ध एव तत्र तत्पदननु 'घटपदाद् घटो बोद्धव्यः' इत्याकाराया भगवदिच्छाया: भगवदिच्छाविषयीभूता या बोधविषयतानिष्ठप्रकारतानिरूपिता विशेष्यता सा बोधविशेषविषयतात्वेन रूपेण नामाऽऽश्रयत्वसंबन्धावच्छिन्नत्वेन रूपेण तु घटे एवास्ति न तु घटत्वादौ भगवदिच्छाया विषयतामात्रं तु वस्तुमात्रे एवास्तीति कथं घटपदशक्तिर्घटत्वादिषु त्रिषु घटघटत्वसमवायेष्वेवेतिनियम उपपद्येतेत्याशङ्कते-अथेति । आश्रयत्वसंबन्धावच्छिन्नाया भगवदिच्छीयविशेष्यतायाः शक्यताप्रयोजकत्वे घटादिपदानां घटादावेव शक्तिः स्यान्न तु घटत्वादौ-भाश्रयत्वसंबन्धेन भगवदिच्छीयवि. शेष्यताया घटादिव्यक्तिमात्रवृत्तित्वात् सामान्यतो भगवदिन्छीयविशष्यतायाः शक्यताप्रयोजकत्वे तस्या वस्तुमात्रवृत्तित्वाद् वस्तुमात्रे घटादिपदशक्तिः स्यान्न तु घटघटत्व. समवायेतित्रितयमात्रइत्याक्षपाभिप्रायः । घटादिपदजन्यबोधविषयता घटादौ जायते तारशविषयतानिष्टप्रकारतानिरूपिता : विशेष्यता घटादौ विज्ञेया । बोधविशेषविषयतेत्यत्र विषयता विशेष्यतारूपा विज्ञया । बोधविशेषविषयता प्रकारताऽसमानाधिकरणरूपा वा विझेया सा च घटादावेव संभवति-व्यक्तौ प्रकारताया अभावात्. घटत्वादौ च घटादिनिष्टविशेष्यतानिरूपितप्रकारताया अपि सत्त्वाद् बोधीयविषयता प्रकारतासमानाधिकरणैव भवतीत्यनुसन्धेयम् । .... उत्तरमारभते- ईश्वरेति, ईश्वरेच्छाया इति षष्टयों निरूपितत्वं तथा च 'बट पदाद् घटो बोद्वन्यः' इत्याद्याकारकेश्वरेच्छानिरूपिता या घटादिपदजन्यबोधविषयता तत्प्रयोजको यः संबन्धः स एव तत्र वटवटत्वादी घटादिपदशक्तिरस्तीतिव्यपदेशस्य-उक्तिव्यवहारस्य नियामकोस्ति स च संबन्धो नैकविध एव येन वटादेरेख वाच्यत्वं स्यान्न घटत्वादेः, किं तु त्रिविधत्वाद् घटघटत्वसमवायेषु त्रिष्वेव शक्तिरिति नियम उपपद्यते तथा चाऽऽश्रयत्वसंबन्धावच्छिन्नबोधविषयतात्यावच्छिन्नप्रकारतानिरूपितभगवदिच्छीयविशेष्यतारूपसंबन्धेन बटादिपदजन्यबोधविषयता घटादौ वर्तते इति घटादौ घटादिपदानां शक्तिः । स्वनिष्टावच्छेद्यतानिरूपिताबन्छेदकत्वसंबन्धावच्छिन्नबोधविषयतात्वावच्छिन्न प्रकारतानिरूपितमगवदिच्छीयविशेष्यतारूपसंबन्धन घटादिपदज-- न्यबोधविषयता घटत्वादो वर्तते इति घटत्वादावपि घटादिपदशक्तिः, अत्र स्वं बोधविषयता सापि घटे वर्तते घटत्वमपि बटे वर्तते इत्यवच्छेदकत्वं घटत्वे अबच्छेद्यत्वं च बोधविषयताया प्राप्तं तादृशबोधविषयतानिष्ठावच्छेद्यत्वनिरूपित यद् घटत्वनिष्टमवच्छेदकत्वं तत्संबन्धावच्छिन्ना या घटत्वनिष्टा बोधविषयता तन्निष्ठप्रकारतानिरूपितभगवदिच्छीयविशेष्यता घटत्वे वर्तते एव, वदत्वं