________________
(४०) सादर्श:
[ सामान्यतच्छक्तिविरहात् तेषामुपलक्षणता घटत्वादौ तत्सत्त्वाच तेषां विशेषणता । एवं च प्रवृत्तिनिमित्तेपि शक्तेः सत्त्वात् तस्यापि वाच्यतया " वाच्यत्वे सति वाच्य वृत्तित्वे सति वाच्योपस्थितिप्रकारत्वम्” इतिप्रवृत्तिनिमित्तलक्षणे “ वाच्यत्वे सति" इतिविशेषणदानम् “जात्याकृतिव्यक्तयः पदार्थः " इतिन्यायसूत्रोक्तं गोत्वादिजातेर्गवादिपदार्थत्वं चाऽप्युपपद्यते। बन्धन तत्सत्त्वात् घटादिपदशक्तेः सत्त्वात् तेषाम् घटत्वादीनां विशेषणता सिद्धेत्यर्थः । बारपदाद् घटो बोद्धव्यः । 'घटपदं घटत्वावच्छिन्नवाचकम् ' इत्याद्याकारा भगवदिच्छारूपा शक्तिरस्ति तत्र घटो नाम समवायेन घटत्वावच्छिन्ना व्यक्तिरेवेति भगवदिच्छारूपशक्तौ पटो घटत्वं समवायश्चेति त्रितयमेव भासते न तु द्रव्यत्वमपि येन द्रव्यत्वादिविशिष्टे घटादिप दानां शक्तिः स्यादिति सारः ।
घटत्वादेर्घटादिपदवाच्यत्वे मानमाह-एवं चेति । घटादिपदानां बोधकत्वलक्षणा या घटादौ प्रवृचिरस्ति तत्र घटत्वादिकमेव निमित्त घटत्वादिविशिष्टे एव तादृशप्रवृत्तेः सत्त्वादिति घटत्वा. दिकं प्रवृत्तिनिमित्तं विज्ञेयम् । तस्य प्रवृत्तिनिमित्तलक्षणघटत्वादेः । यदि घटत्वादेर्घटादिपदवाच्यत्वं न स्यात्तदोक्तप्रवृत्तिनिमित्तलक्षणे प्रवृत्तिनिमित्तस्य घटत्वादेः “वाच्यत्वे सति" इति वाच्यत्वविशेषणं नोपपद्येत तथा “ जाल्याकृतिव्यक्तयः पदार्थः " इतिन्यायसूत्रोक्तं पदार्थत्वं च नोपपोत तस्माद् घटत्वादेरपि घटादिपदवाच्यत्वमावश्यकमेवेत्यर्थः । वाच्यत्वे इति-घटत्वादौ वाच्यत्वमप्यस्ति वाच्यभूतघटादिव्यक्तिवृत्तित्त्रमप्यस्ति वाच्यभूतघटादिव्यक्तिविषयकोपस्थितौ प्रकारतया भासमानत्यमध्यस्तीति विशेषणत्रयार्थः । प्रवृत्तिनिमित्तत्वमिति च शेषः । अत्र च लक्षणे "वाच्यत्वे सति" इत्यनुक्ते शब्दाश्रयत्वस्याकाशपदप्रवृत्तिनिमित्तत्वं स्यात्--शब्दाश्रयत्वस्याकाशवृत्तित्वादाकाशोपस्थितौ प्रकारतया भासमानत्वाच न चैतदिष्टमिति " वाच्यत्वे सति." इत्युक्तं तथा च शब्दाश्रयत्वस्याऽऽकाशपदवाच्यत्वाभावादाकाशपदप्रवृतिनिमित्तत्वापत्तिर्नास्ति एतच्चाकाशपदे द्रष्टव्यम् , 'वाच्यवृत्तित्वे सति" इत्यनुक्ते आकृतरपि गवादिपदप्रवृत्तिनिमित्तत्वं स्यात्-उक्तन्यायसूत्रप्रामाण्येनाकृतेरपि पदार्थत्वेन वाच्यत्वाद्वाप्योर-- स्थितिप्रकारत्वाच्च न चैतदिष्टमिति "वाच्यवृत्तित्वे सति" इत्युक्तं तथा चाकृतेरवयवसंयोगरूपखादवयवमात्रवृत्तित्वेन वाच्यभूतगवा दिव्यत्यावृत्तित्वाद् गवादिपदप्रवृत्तिनिमित्तत्वापत्तिर्नास्ति. भाकृतेर्वाच्यत्वं वाच्योपस्थितिप्रकारत्वं च "पिष्टकमय्यो गावः'' इत्यादौ द्रष्टव्यं पिष्टकमयीगोषु गोरखजातेरसंभवात्, "बाच्योपस्थितिप्रकारत्वम्" इत्यनुक्ते घटस्य मृत्पदप्रवृत्तिनिमित्तत्वं स्यात्-घटस्य मृत्पदवाच्यत्वाद् मृत्पदवाच्यकपालद्वयवृत्तिवाच न चैतदिष्टमिति “बाच्योपस्थितिप्रकारस्वम्" इत्युक्तं तथा च घटस्य मृत्पदवाच्यघटकपालाद्युपस्थितौ प्रकारत्वाभावाद् मृत्पदप्रवृत्तिनिमित्तत्वापत्तिर्नास्ति, नवीनतार्कितमते तु द्रव्यादिपदानां घटत्यादेः प्रवृत्तिनिमित्तस्ववारणाय "वा. च्यत्वे सति" इतिविशेषणमिति विशेषणत्रयसार्थक्यम् ।