________________
काण्डम् ]
शक्तिवादः ।
घटादिपदस्य पदार्थतावच्छेदकीभूतघटत्वादिविशिष्टे एव शक्तिर्न तु तदुपलक्षिते घटत्वादेरुपलक्षणत्वे तस्य द्रव्यत्वाद्यविशेषेण 'घटादिपदाद् द्रव्यत्वादिना न बोधोऽपि तु घटत्वादिनैव ' इतिनियमानुपपत्तेः । __अथ घटत्वादेरिव द्रव्यत्वादेरपि वैशिष्टयस्य घटादौ सत्वाद् घटादिपदशतो घटत्वादिसामानाधिकरण्यरूपवैशिष्टयवद् द्रव्यत्वादिसामानाधिकरण्यरूपवैशिष्टयस्याप्यऽक्षततया 'घटत्वादिविशिष्टे शक्तिर्न तु द्रव्यत्वादिविशिष्टे : इत्यस्य कोर्थः ? __ अत्र वदन्ति- तद्विशिष्टे शक्तिः' इत्यस्य ‘तद्धर्मतदैशिष्टयतदाश्रयेष्वेव शक्तिः ' इत्यर्थः । घटादिपदशक्तिमति द्रव्यत्वादिवैशिष्टयसत्त्वेपि द्रव्यत्वादी
- -- ..... - ... ... ... .----
वटादीति- घटादिपदस्य घटत्वादिविशिष्टे एव घटादिपदार्थे शक्तिः, घटत्वादिकं च घटादौ विशेषणमेव न तूपलक्षणमित्यर्थः । तदुपलक्षिते घटत्याद्युपलक्षिते । विपक्षे बाधकमाह- घटत्वादेरिति, यदि घटादौ घटत्वादिकमुपलक्षणं स्यात्तदा तस्य=घटस्वादेरुपलक्षणत्वेन रूपेण द्रव्यत्वादिधर्माविशेषाद् यथा घटादिपदाद् घटादेर्घटत्वादिरूपेण बोधो भवति तथा द्रव्यत्वादिरूपेणापि बोधः स्यात् तथा च " घटादिपदाद् द्रव्यत्वादिना न बोधोऽपि तु घटत्वादिनैव " इति नियमो नोपपद्यत, घटत्वादेविशेषणत्वे तु घटत्वादिकं विशेषणं द्रव्यत्वादिकं चोपलक्षणमिति विशेषाद विशेषणीभूतधर्मरूपेणैव बोधस्वीकाराचोक्तनियम उपपद्यते इति सारः ।
ननु यथा घटादौ घटत्यादिकं वर्तते तथा द्रव्यत्वादिकमपि वर्तत एवेति “घटादिपदान घटत्वादिविशिष्टे एव शक्तिर्न तु द्रव्यत्वादिविशिष्टे ” इतिनियमस्य किं तात्पर्यमित्याशङ्कतेअथेति । घटादौ निरूपकत्वसंबन्धेन घटादिपदशक्तिरपि वर्तते समवायेन च घटत्वद्रव्यत्वादिकमपि वर्तते इति घटादिपदशक्ती घटत्वद्रव्यत्वादिधर्मसामानाधिकरण्यरूपं वैशिष्टयं प्राप्तम् । शक्तौ च यादृशधर्मस्य सामानाधिकरण्यरूपवैशिष्टयं भवति तादृशधर्मरूपेणैव पदार्थस्य शक्तया बोधो भवति, अस्ति च घटादिपदशक्तौ द्रव्यत्वादेरपि सामानाधिकरण्यरूपं वैशिष्ट्यमिति घटादिपदाच्छत्या घटादेव्यत्वादिरूपेणापि बोधः कथं न स्यादित्याक्षेपः ।
उत्तरमारभते- अत्रेति । " तद्विशिष्टे शक्तिः " इत्यस्य नाम " घटत्वादिविशिष्टे शक्तिर्न तु द्रव्यत्वादिशिष्टे " इतिनियमस्य । अर्थमाह-तद्धर्मेति, तद्धर्मः घटत्वादिधर्मः तद्वैशिष्टयम्= घटत्वादिसमवायः. तदाश्रयः घटत्वाद्याश्रयो घटादिः, तथा च वटवटवतत्समवायेषु घटपदस्य शक्तिरिति सिद्धम् , एवमन्यत्रापि ज्ञेयम् । घटादौ घटत्वादेरेव विशेषणत्वं द्रव्यत्वादेश्वोपलक्षणत्वमेव न विशेषणत्वमित्यत्र विनिगमनामाह- घटादिपदेति, निरूपकत्वसंबन्धेन घटादिपदशक्तिमति घटादौ यद्यपि द्रव्यत्वादिवैशिष्टयमस्ति तथापि द्रव्यत्वादौ अवच्छेदकत्वसंबन्धन तच्छक्तिविरहात्-घटादिपदशक्त्यभावात् तेषाम्-द्रव्यत्वादीनामुपलक्षणता. घटत्वादौ चावच्छेदकत्यस•