________________
(३८)
सादर्श:
[ सामान्य-
आकाङ्क्षा तज्जन्यशाब्दबोधे संसर्ग विशेषतात्पर्यज्ञानरूपकारणवलादेव संबन्धभाननियमोपपत्तेः । अन्वयांशे शक्त्युपगमे प्येकैकस्यैव पदार्थ संसर्गस्य संसर्गविधया कचित् कस्यचिद्र भानं क्वचित् कस्यचिदभानमित्यनियमेन सामान्यरूपेणैवावयस्य शक्यकोटावन्तर्भावनीयतयोक्तस्यैव संसर्गभाननियामकत्वात् ।
न च संसर्गविशेषानुपस्थितौ तात्पर्यज्ञानासंभवेन तदुपस्थितेरावश्यकतया तद्गोचरसंस्कारोद्बोधार्थमेव तत्र वृत्तिज्ञानमपेक्षितमिति वाच्यम्, उद्बोधकान्तरादुपस्थितेपि संसर्गे तात्पर्यग्रहसंभवात् तत्र वृत्तिज्ञानस्याऽनपेक्षितत्वात् तस्माद् घटत्वगोत्वादिविशिष्टे एव घटगवादिपदस्य शक्तिः पदार्थद्रय संसर्ग स्त्वाऽऽकाजूक्षादिबल्लभ्य एवेति स्थितम् ।
माननियामकं भवतीति न काचिदनुपपत्तिः । संसर्गविशेषविषयक तात्पर्यज्ञानं च प्रकरणादिना जायते । यस्मिन् संसर्गे वक्तुस्तात्पयं भवति तस्यैव वक्तृतात्पर्यज्ञानेन शाब्दबोधे मानं भवतीति यावत् ।
विपक्षे बाधकमाह--अन्वयांशे इति, पदार्थद्वयसंसर्गे घटादिपदस्य शक्तिस्वीकारपक्षेप्यानन्त्यव्यभिचारदोषनिवृत्त्यर्थं संसर्गत्वे एव शक्तिः स्वीकर्तव्या तथा च संसर्गत्वेन रूपेणाविशेषादडवावितयावत्संसर्गभानापत्तिः स्यादेव न चाऽवाधितयावत्संसर्गमानं भवति किं तु कचित् कस्यचिदेव संसर्गस्य मानं भवति कस्यचिदमानमपि भवतीति कस्य मानं स्यात् कस्य च न स्पादित्यनियमे प्राप्ते उक्तस्याऽऽकाङ्क्षाज्ञानस्यैव संसर्गमाननियामकत्वं स्वीकार्यमित्यर्थः । सामान्यरूपेण=अन्त्रयत्वेन रूपेण । किं वा शाब्दबोधे भासमानस्यैव संसर्गस्य घटादिपदवाच्यत्वं वक्तव्यंं मान चास्यैव संसर्गस्य भवत्यस्य च नेति नियमाभावेन संसर्गत्वेन सामान्यरूपेणैव संसर्गस्य शक्यकोटावन्तर्भावः = घटादिपदवाच्यत्वं वक्तव्यं तथा च सर्वेषामपि संसर्गाणां संसर्गत्वाऽविशषाद्ं घटादिपदवाच्यत्वं शाब्दबोधे मानं च प्राप्तं न च यावत्संसर्गमानं भवतीत्युक्ताऽऽकाङ्क्षाज्ञानस्यैवागत्या संसर्गमाननियामकत्वं प्राप्तमित्येवं ग्रन्थयोजना कर्तव्या । " अन्वयां शक्त्युपगमेपि ” इत्यादिपाठस्तु प्रक्षिप्त एव प्रतिभाति प्राक्तन पुस्तकेष्वऽनुपलम्भात् ।
ननूपस्थितपदार्थे एव तात्पर्यस्य ज्ञानं जायते उपस्थितिश्च तद्विषयकसंस्कारस्योहोधन भवतीति संसर्गविशेषविषयक तात्पर्यज्ञानार्थं तदुपस्थितेः = संसर्गविशेषोपस्थिते रात्रश्यकतया तदुपस्थितये तद्गोचरसंस्कारोद्बोधार्थम् = संसर्गविशेषविषयक संस्कारोोधार्थगेव तत्र संसर्गे ( संसर्गविषयकम् ) वृत्तिज्ञानमपेक्षितमस्तीति संसर्गस्य घटादिपदवाच्यत्वं वृत्तिज्ञानविषयत्वं च स्वीकार्य - मित्याशङ्कयाह - न चेति । परिहारहेतुमाह - उद्बोधकान्तरेति, प्रकरणादिलक्षणो होधकान्तरेगोपस्थितेपि संसर्गे तात्पर्यज्ञानसंभवात् तत्र संसर्गे ( संसर्गविषयकस्य वृत्तिज्ञानस्यापेक्षा नास्तीति न संसर्गस्य घटादिपदवाच्यत्वापत्तिरित्यर्थः । उपसंहरति- तस्मादिति, घटत्वादित्रिशिष्ठे एव घटादिपदानां शक्तिर्न तु पदार्थद्वयसंसर्गेपि पदार्थद्रयसंसर्गस्तु शाब्दबोचे आकाङ्क्षाज्ञानबलेनैव भासते इति स्थितम् ।