________________
काण्डम् ] शक्तिवादः ।
(३७) रूपेणाऽनुगमासंभवात् परस्परजन्यबोधे व्यभिचार इति कार्यतावच्छेदकगर्भ तत्तस्कारणानन्तर्यप्रवेशो ध्रुव इत्यवधेयम् ।
॥इति क्रोडपत्रं समाप्तम् ॥ अथ वृत्त्यनुपस्थितस्यापि पदार्थद्वयसंसर्गस्य शाब्दबोधविषयत्वोपगमे संबन्धभाने नियामकाभावाच्छाब्दबोधेबाधितयावत्संसर्गभानापत्तिरिति चेत् ? नकयोश्चित् पदयोः केनचित्संबन्धेन स्वार्थान्वयबोधे साकाङ्क्षतयाऽऽकाइक्षाज्ञान
स्यैव पदार्थसंसर्गभाने नियामकत्वाताययोश्च पदयोर्नानासंबन्धेन स्वार्थान्वयबोधे तयोरप्यननुगमः, तजन्योपस्थित्योरपि परस्परं विलक्षणरूपत्वेनाऽनुगमाइसंभवात् परस्परजन्यशाब्बोधे व्यभिचारः प्राप्त इति तादृशयभिचारस्य निवृत्त्यर्थं कार्यतावच्छेदककोटौ तत्तत्कारणानन्तर्यप्रवेश आवश्यक एवेत्यर्थः। कारणानन्तर्यप्रवेशप्रकारश्च पूर्वमेव प्रदर्शितो यथा पदविशे. ध्यकशक्तिज्ञानाधीनोपस्थित्यव्यवहितोत्तरजायमानशाब्दबोधं प्रति पदविशेष्यकशक्तिज्ञानाधीनोपस्थितिः कारणम्, अर्थविशेष्यकशक्तिज्ञानजन्योपस्थित्यव्यवहितोत्तरजायमानशाब्दबोधं प्रत्यऽर्थविशेष्यकशक्तिज्ञानजन्योपस्थितिः कारणमित्यादि । एवं लक्षणास्थलेपि कल्पनीयम् ।
॥ इति क्रोडपत्रटीका समाप्ता । ननु यदि वृत्त्यनुपस्थितस्यापि पदार्थद्वयसंसर्गस्याऽभेदादेः शाब्दबोधे भानं स्यात्तदा वृत्यनुपस्थितत्वाविशेषादऽवाधितयावत्संसर्गाणां शाब्दबोधे भानापत्तिः स्यादिति पदार्थद्रयसंसर्गस्य वृत्त्युपस्थितत्वं तदर्थं च घटादिपदवाच्यत्वं स्वीकार्यमित्याशङ्कते-अथेनि । परिहरति-नेति । कयोश्चिदिति-यथा ' नीलो घटः' इत्यत्र नीलघटपदयोः केनचिरसंबन्धन अभेदसंबन्धनैव स्वाद
र्थान्वयबोधे साकाङ्क्षतया तादृशाकाङ्क्षाज्ञानमेव पदार्थद्वयसंसर्गभाने नियामकमस्तीत्याकाङ्क्षाज्ञानविषयस्यैव संसर्गस्य शाब्दबोधे भानमुपपद्यते नत्वबाधितयावत्संसर्गभानापत्तिरित्यर्थः । आकाङ्क्षाज्ञानं चाऽव्यवहितोत्तरत्वसंसर्गेणैकपदविशिष्टापरपदज्ञानरूपं विज्ञेयं यथा नीलो घटः ' इत्यत्राभेदसंबन्धावच्छिन्ननीलयावच्छिन्नप्रकारतानिरूपितघटत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्र. त्यऽऽयवहितोत्तरस्वसंबन्वेन नीलपदविशिष्टं यद् घटपई तज्ज्ञानम् ‘ कारणम् । 'राज्ञः पुरुषः । इत्यत्र च सत्त्वसंवन्यावच्छिन्नराजत्वावच्छिन्नप्रकारतानिरूपितपुरुषत्वावच्छिन्नविशेष्यताकशाब्दबोधं प्रति षष्ट्यन्तराजपदसमभिव्याहतपुरुषपदज्ञानं कारणम् ।
ननु ' ब्राह्मणस्य दर्शनम्' इत्यत्र " कर्तृकर्मणोः कृति" इत्यनेन ' ब्राह्मणस्य ' इति षष्ठी कर्मण्यपि संभवति कर्तपीति ब्राह्मणकर्मकं दर्शनम् । ' ब्राह्मणकर्तृकं दर्शनम् ' इति द्विविधोप्यर्थः संभवतीति तत्र कथमाकाङ्क्षाज्ञानस्य ब्राह्मणकर्मकत्वकर्तृकत्वरूपसंबन्धयोरन्यतरभाननियामकत्वं स्पादित्याशङ्याह-ययोश्चति । नानासंबन्धन स्वार्थान्वयबोधे साकाङ्क्षपदयोः शाब्दगोधे संसर्गविशेषविषयकं यत् तात्पर्यज्ञानं तादृशतात्पर्यज्ञानसहकृताकाङ्क्षाज्ञानमेव संसर्गविशेष