________________
सादर्शः
{ सामान्य एवं शक्तिज्ञानमुभयविध विनिगमकाभावाच्छाब्दबोधप्रयोजकम्-पदेऽर्थवाचकत्वावगाहि. अर्थे पदवाच्यत्वावगहि च तयोरपि नानुगमसंभवः-वाच्यत्ववाचकत्वयोः शक्तिप्रतियोगित्वशक्त्याश्रयत्वरूपयोमिथोषिलक्षणसंबन्धरूपतयाऽनुगतानतिरिक्तरूपाभावात् । संबन्धत्वादिनाऽनुगमे ? तदीयकालिकादिसेवन्यज्ञानादर्थर्मिकपदवाचकतायाः पदार्मकार्थवाच्यतायाश्च ज्ञानाच्छाब्दबोधापत्ते, तजन्योपस्थित्योरपि परस्परजन्यबोधे व्यभिचारः। .
एवं लक्षणाज्ञानमपि पदेऽर्थसंबन्धिवाचकतावगाहितयाऽथै पदेवाच्यसंबन्धि तावगाहितया च द्विविधं शाब्दबोधप्रयोजकं तदधीनोपस्थित्योरप्यनतिप्रसक्तः
न केवलं शक्तिज्ञानलक्षणाज्ञानयोरेवाऽननुगमः किं तु शक्तिज्ञानस्यापि पद तदर्थयोर्विशेष्यताभेदेन भेदाननुगम एवेत्याह- एवमिति । उभयविधं शक्तिज्ञानमाह~ पद इति । पदेऽर्थवाचकत्वावगाहि नाप 'घटपदं घटत्वविशिष्टवाचकम्' इत्याकारकमर्थवाचकत्वप्रकारकपदविशेष्यकम् । अर्थे पदवाच्यत्वावगाहि नाम 'घटो घटपदयाच्यः' इत्याकारकं पदवाच्यत्वप्रकारकाऽर्थविशेष्यकन् । तयोः उक्तशक्तिज्ञानयोः । अनुगमासंभवे हेतुमाह- वाच्यत्वेति; वाच्यत्वं हि शक्तिपतियोमित्वम् शक्तिनिरूपकत्वं वाच्यस्यैव पदनिष्ठशक्तिनिरूपकत्वात्, वाचकत्वं च शक्याश्रयत्वं शक्तेः पदनिष्ठत्वात्, तयोश्च शक्तिनिरूपकत्वशत्तयाश्रयत्वरूपयोवाच्यत्यवाचकत्वयोः परस्पर विलक्षणसंबन्धरूपत्वेनाऽनुगतानतिरिक्तरूपाभावान्नानुगमसंभवः । निरूपकत्वसंवन्धेन शक्तिरर्थे वर्तते आश्रयत्वसंबन्धेन च पदे इत्यभिप्रेत्य शक्तिप्रतियोगित्वशत्याश्रयत्वयोः संबन्धत्वमुक्तं तयोश्च परस्परविलक्षणत्वं ( विभिन्नरूपत्वम् ) स्पष्टमेव । ननु शक्तिप्रतियोगित्वशक्त्याश्रयत्वरूपसंवन्धयोरपि संबन्धत्वेन रूपेणानुगमः संभवतीत्याशङ्याह-सम्बन्धत्वादिनेति, उक्तसंबन्धयोः संबन्धवेनानुगमें हि तदीयकालिकादिसंबन्धस्यापि संबन्धत्वात्तादृशविविधसंबन्धज्ञानादपि शाब्दबोधः स्याद् न चैतदिष्टमित्यर्थः । तदीयकालिकादिसंबन्धज्ञानान्नाम 'घटकालिकशक्ति विशिष्टं पटपदम् ' इत्याद्याकारकशक्तिज्ञानात् । अर्थधर्मिकपदवाचकताया नाम 'घटपद. निष्ठवाचकताश्रयो घटः' इत्याकारकाद् वाचकत्वप्रकारकार्थविशेष्यकज्ञानात, वाचकत्वप्रकारकपदविशेष्यकज्ञानाच्छाब्दबोधस्येष्टत्वादुक्तम्-अर्थर्मिकेति । पदधर्मिकार्थवाच्यताया नाम 'घटनिष्ठवाच्यताश्रयो घटपदम्' इत्याकारकाद् वाच्यत्वप्रकारकपदविशेष्यकज्ञानात, वाच्यत्वप्रकारकार्थविशेष्यकज्ञानाच्छाब्दबोधस्येष्टत्वादुक्तम्-पदधर्मिकेति । उपसंहरति-तजन्येति । तजन्योपस्थित्योः उक्तद्विविधशक्तिज्ञानजन्यद्विविधोपस्थित्योः ।
शक्तिज्ञानवलक्षणाज्ञानस्यापि पदतदर्थयोविशेष्यताभेदेन भेदादननुगम एवेत्याह-एवमिति । उभयविधं लक्षणाज्ञानमाह-पद इति । 'गङ्गापदं तीरसंबन्धिप्रवाहबाचकम्' इत्येवमर्थसंबधिवाचकस्वप्रकारकपदविशेष्यकम् 'तीरं गङ्गापदवाच्यप्रवाहसंबन्धि' इत्येवं पदवान्यसं: बन्धिताप्रकारकलक्ष्यार्थविशेष्यकं च द्विविधमेव लक्षणाशानं शाब्दबोधप्रयोजकं भवति